टि आर् अनन्तरामु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(टि. आर्. अनन्तरामु इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Tanjore Ramachandra Anantharaman
जननम् November 25, 1927
Tanjore, Tamil Nadu, British India,
मरणम् १९, २००९(२००९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-१९) (आयुः ८१)
नागरीकता Flag of India.svg India
देशीयता Flag of India.svg Indian
कार्यक्षेत्राणि Metallurgy, Material Science and Engineering,
संस्थाः Indian Institute of Science
Banaras Hindu University
Thapar Institute of Engineering and Technology
मातृसंस्थाः Madras University
Indian Institute of Science
Oxford University
प्रमुखाः प्रशस्तयः Shanti Swarup Bhatnagar Prize (1967)
धर्मः Hindu


अनन्तरामु कर्णाटकस्य कश्चित् भूविज्ञानी, संशोधकः, परिशोधकः, समर्थः जनप्रियः च विज्ञानलेखकः, सम्पादकः च । अनेकासु साप्ताहिकमासिकपत्रिकासु अत्यन्तं विद्वत्पूर्णान् विचारपूर्णान् च लेखान् प्रकाशितवान् । ५० अधिकान् ग्रन्थान् रचितवन् । नीरसभूविज्ञानस्य विषयेषु अपि कौतूहलपूर्णं जनमानससुगमम् आकर्षकं लिखितवान् । एतादृशः वैज्ञानिकः लेखकः कन्नडभाषायां न सन्ति । कन्नडविश्वकोशः, ज्ञानविज्ञानकोशः, किरियरकर्णाटक, कर्णाटकसङ्गाति, कर्णाटककोशः, इत्यादयः प्रसिद्धाः ग्रन्थाः कर्णाटकभाषया अनेन लिखिताः । क्रि.श. २००९तमे वर्षे अगस्ट् मासस्य नवमे दिने अस्य अभिनन्दनकार्यक्रमः तुमकूरुनगरे वैभवेन समाचरितम् । ६०वयसः अस्य ५०ग्रन्थानां लोकार्पणमपि तद्दिने अभवत् । कर्णाटके कावेरीनदीविवादः उत्तुङ्गे वर्तमाने काले नद्याः पात्रम् आयामं च स्पष्टं विलिख्य लोकार्पितवान् ।

जन्म गृहपरिसरः च[सम्पादयतु]

ताळगुन्द रामण्णस्य पुत्रः अनन्तरामु क्रि.श. १९४९तमवर्षस्य अगस्टमासस्य तुमकूरुमण्डलस्य शिरोपमण्डलस्य ताळगुन्द इति ग्रामे अजायत । अध्ययानसक्ता माता वेङ्कटलक्ष्मम्मा बालस्य वेङ्करामस्य आदर्शव्यक्तिः । अध्ययने सा एव प्रेरणादायिनी । क्रि.श. १९७२तमे वर्षे मैसूरुविश्वविद्यालये भूविज्ञानविषयमधिकृत्य एम्.एस्सि पदवीं प्रथमश्रेण्या समुत्तीर्णः ।

वृत्तिजीवनम्[सम्पादयतु]

  • क्रि.श. १९७२तः क्रि.श. १९७६पर्यन्तं बेङ्गळूरुमहानगरस्य सर्वकारिये विज्ञानमहाविद्यालये भूविज्ञानस्य प्राध्यापकाः ।
  • दक्षिणकन्नडमण्डलस्य सुरत्कल् प्रदेशस्य प्रादेशिके अभियन्तृमाहाविद्यालये सेवाम् अकरोत् ।
  • क्रि.श. १९७७तमे वर्षतः २००८पर्यन्तः बेङ्गळूरुमहानगरस्य भारतीयभूवैज्ञानिकसर्वेक्षणसंस्थायां सेवा ।
  • राज्ये बहुत्र सञ्चरन् सुवर्णस्य निक्षेपस्य शोधम् अकरोत् ।

प्रशस्तयः[सम्पादयतु]

  • गतत्रिशद्वर्षेभ्यः वैज्ञानिकविषयान् जनप्रियान् कर्तुं राज्यस्य विविधासु पत्रिकासु अष्टशताधिकान् लेखान् प्रकाशितवान् ।
  • प्रकटितानि विज्ञानपुस्तकानि ५०
  • हिमदसाम्राज्यदल्लि इति कृतेः क्रि.श. १९८५तमे वर्षे अत्युत्तमा विज्ञानकृतिः इति कर्णाटकसाहित्याकादमिपुरस्कारः प्राप्तः ।
  • भूकम्पनगळु इति कृतेः रचनार्थं क्रि.श. १९९४तमे वर्षे आर्यभटप्रशस्तिः, कालगर्भस्य कीलिकै इति कृतिरचनार्थं क्रि.श. २०००तमे वर्षे गोरूरु रामस्वामिप्रशस्तिः च प्रदत्ता ।
  • कर्तारनिगोन्दु किविमातु क्रि.श. २००३तमे वर्षे अत्युकृष्टा विज्ञानकृतिः इति कर्णाटकसाहित्याकदमी पुरस्कारः प्रदत्तः ।
  • क्रि.शा. २००६तमे वर्षे विज्ञानशिक्षकेभ्यः अथवा संवाकेभ्यः दीयमाना कर्णाटकसर्वकारस्य वार्षिकप्रशस्तिः मौल्यगौरवप्रशस्तिः क्रि.श. २००६तमे वर्षे अनेन सम्पादिता ।

साहित्यानुष्ठाः[सम्पादयतु]

  • सुभषप्रकाशनसंस्थया प्रकाशितायः विस्मयविज्ञानमालिके इति पत्रिकायाः प्रधानसम्पदकः अभवत् ।
  • नवकर्णाटकसंस्थया प्रकाश्यमानस्य जज्ञानविज्ञानकोशस्य सहायकः सम्पादकः अभवत् ।
  • नवकर्णाटकसंस्थया प्रकाश्यमानस्य पदविरणकोशस्य सहायकः सम्पादकः अभवत् । तस्य परिष्कृतकोशे क्रि.श. २००५तमे वर्षे विज्ञानलेखान् योजितवान् ।
  • कन्नडाभिवृद्धिप्रधिकरेण प्रकाशितस्य कर्णाटकसङ्गाति इति परामर्शनग्रन्थार्थं भूविज्ञानविषस्य आकरलेखान् अकरोत् ।
  • कन्नडविश्वविद्यालयस्य विज्ञानसङ्गाति इति मासपत्रिकायाः सम्पादकत्वं क्रि.श. २००२-०३काले निरूढवान् ।
  • कन्नडविश्वविद्यालयेन प्रकाशितासु किरियरकर्णाटक, कर्णाटकज्ञानकोश इयादिषु पत्रिकासु लेखान् प्रकटितवान् ।
  • कर्णाटकराज्यस्य विज्ञानपरिषदः प्रकाशनस्य बालविज्ञानम् इति मासपत्रिकायाः सम्पादकसमितेः सदस्यः अभवत् ।
  • विज्ञानस्य आविष्कारविषये बेङ्गळूरुमहानगरस्य आकाशवाण्या क्रि.श. १९७२तः १००अधिकानि अस्य भाषणानि प्रसारितानि ।
  • नवदेहलीनगरस्य न्याशनल् बुक् ट्रस्ट् आफ् इण्डिया इति संस्थायाः, सि.एस्.ऐ.आर्. संस्थायाः च विज्ञानपुस्तकानाम् अनुवादकर्यं कृतवान् ।
  • डि.एस्.इ.आर्.टि. इति शालापाठ्यपुस्तकप्रकाशनसंस्थयाः शिलाविषयके साक्ष्यचित्रे साहाय्यः कृतः ।
  • मैसूरुविश्वविद्यालयेन प्रकाशितस्य कन्नडविश्वकोशे भुविज्ञानलेखनानि अनेन लिखितानि ।
  • उदय इति कन्नडस्वायत्तदूरदर्शनवाहिन्या अनेन निरूपितः सन्दर्शनकर्यक्रमः प्रसारितः ।
  • ई टीवी इति कन्नडस्वायत्तदूरदर्शनवाहिन्या कडलतीरद भारगव इति उपाधियुतः शिवरामकारन्तः इति मालिकायां शिवरमकारन्तस्य विज्ञानसाहित्वविषये एषः भाषितवान् ।
  • प्रसारभारत्याः चन्दन इति कन्नडवाहिन्यः विज्ञानकार्यक्रमेषु अस्य योगदानम् अस्ति ।
  • कर्णाटकराज्य मैसूरुनगस्य भारतीयभाषाविज्ञानकेन्द्रेन (CICL) निर्मिते कर्णाटकमन्दाकिनी इति कार्यक्रममालिकायां भूविज्ञानस्य अद्भुतानां विषये साहित्यरचनं कृतवान् ।
  • बेङ्गळूरुनगरस्य कन्नडगणकपरिषदा विवर्धितस्य मैसूरुविश्वविद्यालयस्य कन्नडविश्वकोशः इति सान्द्रमुद्रिकाकार्ये अस्य योगदानम् अस्ति ।
  • अन्ताराष्ट्रिय भूग्रहवर्षाचरणावसरे क्रि.श. २००८-०९तमे काले राज्ये बहुत्र उपन्यासः ।
  • कर्णाटकराज्य विज्ञानप्ररिषदः कार्यक्रमेषु मार्गदर्शनोपान्यासः विहिताः ।
  • कन्नडभाषापुस्तकप्राधिकरस्य प्रकल्पे जे.डि.बर्नाल् इत्यस्य Science in History कृतेः अनुवादस्य प्रधानसम्पादकः अभावत् ।

अस्य योगदानम्[सम्पादयतु]

भारतीयभूवैज्ञानिकसर्वेक्षणसंस्थायां ज्येष्ठः विज्ञानी सन् अस्य अनन्तरामु वर्यस्य योगदानं महत्वपूर्णम् अस्ति । एषः अन्यविज्ञानिनः इव न केवलं विषयसङ्ग्रहणं, संस्करणं, विश्लेषणं, शुद्धीकरणं, पारिभाषिकपदानां सर्जनम्, कृतवान् किन्तु अन्यकार्येषु अपि सक्रियः अभवत् । यथा कर्णाटकस्य कोलार् गोल्ड् फील्ड् इति सुवर्णखनिसुरङ्गायां ३कि.मी.दूरं गत्वा ६९सें. तापमाने शोधकार्यं कृतवान् । उत्तरभारतस्य मेघालयराज्यस्य उपत्यकासु अपि निक्षेपानां शोधनकार्यं यशसा कृतवान् । दक्षिणभारतस्य मलेमहदेश्वरशैलेषु २५००च.कि.मी. विस्तीर्णे दुर्गमे कानने सञ्चरन् तत्रैव पटगृहे वसन् निक्षेपानां (खनिजः, मृद्भेदः, जलम्, अरण्यवैविध्यम्) मानचित्रं रचितवान् । एतादृशकार्यकर्तृषु अयं प्रथमः ।

कर्णाटकादमीप्रशस्तिः[सम्पादयतु]

अनन्तरामु वर्याय पश्चिममुखी इति प्रवासकथनग्रन्थरचनार्थं कर्णाटकसर्वकारस्य साहित्याकादेमी प्रशस्तिः प्रदत्ता । क्रि.श. २००८तमे वर्षे प्रवासोद्यमविभागे सुरक्षिता प्रशस्तिः अस्मै एव प्रदत्ता । क्रि.श. २००८तमे वर्षे परिसरंरक्षणपत्रिकोद्यमस्य प्रशस्तिः अनेन एव प्राप्ता । प्रशस्तिपुरस्कारकार्यक्रमेण दत्तं सर्वं धनं परिसरसंरक्षणस्य योजनायां विनियोजितवान् ।

न्याशनल् जियालोजिकल् मान्युमेण्ट्स् विशिष्टाकृतिः[सम्पादयतु]

भूवैज्ञानिकसर्वेक्षणसंस्थायाः १५०तमवर्षोत्सवे अनेन सम्पादिताकृतिः न्याशनल् जियोलाजिकल् मान्युमेण्ट्स् अतिविशिष्टा महत्वपूर्णा च कृतिः । इयं कृतिः बहुकालपर्यन्तं शोधच्छात्रानां सहाया भवति इति विमर्शकानाम् अभिप्रायः । कर्णाटकस्य मरडिहळ्ळि समीपस्थितः दिम्बुलावः, बेङ्गळूरुनगरस्य लाल्बागे स्थितः प्रस्तरशैलः, मङ्गळूरुनगरस्य समीपेस्थितः सेण्ट्मेरीद्वीपस्य शिलस्तम्भाः, के.जि.एफ्. समीपेविद्यमानः ज्वालामुखिशिलशैलः इत्यादीनाम् अध्ययनं कृत्वा स्वकृतिपट्टिकायां योजितवान् ।

परिशुद्धव्यक्तित्वम्[सम्पादयतु]

अनन्तरमु महोदयस्य व्यक्तित्वस्य सर्वायामेषु अत्युन्नताः भवन्ति तस्य आसक्तिः, श्रद्धा, सर्ननात्मकता, लेखनस्य गाढता विस्तारः वैविध्यं च । तस्य ५०कृतिषु ३५अधिकाः कृतयः भूविज्ञानसम्बद्धाः । अन्याः भूविज्ञानिनां चरित्रं, सम्पादितकृतयः, अनूदिताः च । कर्णाटकराज्यस्य विविधासु पत्रिकासु अस्य ८००अधिकाः लेखाः प्रकाशिताः । विस्मयविज्ञानमालिके इत्यस्मिन् ३३कृतीनां सम्पादनम्, साक्ष्यचित्रस्य साहित्यरचनम्, कन्नडविश्वकोशः, ज्ञानविज्ञानकोशः, किरियर कर्णाटक, कर्णाटकसङ्गाति, कर्णाटककोशः, इत्यादयः अस्य परामर्शनग्रन्थाः कन्नडभाषासाहित्यक्षेत्रे एतं विशिष्टाम्व्यक्तिम् अकुर्वन् ।

जनप्रियविज्ञानविषये आदरः[सम्पादयतु]

विश्वविद्यालयानाम् एतादृशेषु विषयेषु अनादरः इति अस्य खेदः आसीत् । अपि च ख्यातः न कोऽपि विज्ञानी कन्नडेन लेखितुम् इच्छति । वैज्ञानिकविषयानां भारतीयभाषालिखितारः विलरलाः एव । इति सर्वदा वदति स्म ।

कौटुम्बिकसहकारः[सम्पादयतु]

सहधर्मिणीति पदस्य अन्वर्थकत्वेन अस्य पत्नी अन्नपूर्णा । अस्य लेखनकार्येषु सर्वदा साहचर्यं करोति स्म । लेखपरिष्कारः सूचनादानं, मुद्रणे सहकारः च सर्वदा करोति स्म । पुत्रः बेङ्गळूरुनगरस्य संस्थायाम् अभियन्ता पुत्री स्पेन् देशे वसति । पौत्रः अमोघः पौत्री अनन्या च पितामहस्य अतिप्रियौ ।

प्रो.जि.टि.नारायण राव् इत्यस्य प्रशंसा[सम्पादयतु]

प्रो.जि.टि.नारायन राव् बहुपूर्वमेव अनन्तरामुवर्यस्य प्रतिभाम् अभिज्ञातवान् । जि.टि.नारायणः, नागेश हेगडे, ड. एच्.आर्.कृष्णमुर्तिः इत्यदयः एतं विज्ञानविश्वकोशः इत्येव प्राशंसन् । नागेश हेगडे अनेन सह मिलित्वा जनप्रिया विज्ञानपत्रिका कन्नडभाषायां कथं स्यात् इति दर्शितवान् । एतयोः सम्पादकत्वेन हम्पी कन्नडविश्वविद्यालयस्य पत्रिकाः सर्वदा सर्वश्रेष्ठं कन्नडकाव्यरुपेण तिष्ठन्ति । किन्तु इदानी सा पत्रिका स्थगिता अस्ति इति विज्ञानप्रियाणां दौर्भाग्यविशेषः ।

अस्य प्रकाशितकृतयः[सम्पादयतु]

  • क्रि.श १९७८ कन्नडदल्लि भूविज्ञानम् - नभश्री प्रकाशनम् मैसूरु ।
  • क्रि.श १९७९ एम्.एस्.कृष्णन् - राष्ट्रोत्थानसाहित्यम्, बेङ्गळूरु ।
  • क्रि.श १९८० भूमिय अन्तराळ - कन्नडविज्ञानपरिषत् बेङ्गळूरु ।
  • क्रि.श १९८० बिसिनीरिन बुग्गेगळु - कन्नडसाहित्यपरिषत् बेङ्गळूरु ।
  • क्रि.श १९८० बदलागुत्तिदे भूमि ।
  • क्रि.श १९८५ हिमदसाम्राज्यदल्लि - कर्णाटकसाहित्याकदमी प्रशस्तिः ।
  • क्रि.श १९९१ भूमिय वयस्सु ।
  • क्रि.श १९९१ भूगर्भयात्रे ।
  • क्रि.श १९९१ बेळेयुत्तिदे हिमालय ।
  • क्रि.श १९९२ राजर लोह लोगळ राज चिन्न ।
  • क्रि.श १९९२ ज्वालामुखी ।
  • क्रि.श १९९२ पेडम्भूतगळु अळिदवेके ।
  • क्रि.श १९९२ विश्वविख्यात नैसर्गिकविकोपाः ।
  • क्रि.श १९९४ रत्नानि ।
  • क्रि.श १९९४ भूकम्पनानि ।
  • क्रि.श १९९४ मळे ।
  • क्रि.श १९९५ अल्प्रेड् वेगेनर् - कन्नडपुस्तकप्राधिकारः बेङ्गलूरु ।
  • क्रि.श १९९५ सम्पन्मूलार्थं समुद्रमथनम् - अनुवादः
  • क्रि.श १९९५ नम्म जलसम्पन्मूलगळु ।
  • क्रि.श १९९६ पेडम्भूतगळु बालानां सचित्रकोशः
  • क्रि.श. १९९७ प्री हिस्टरिक् अनिमल्स ।
  • क्रि.श. १९९७ कावेरी हरिदुबन्द दारि ।
  • क्रि.श. १९९९ भूविज्ञानम् (द्वितीयमुद्रणम्)
  • क्रि.श. १९९७ अण्टार्टिक् निदेशनालयः
  • क्रि.श. १९९९ चौ चौ चाकि ।
  • क्रि.श. १९९९ प्राचीनभारतदल्लि लोहतन्त्रज्ञान ।
  • क्रि.श. १९९९ पेट्रोल् लिकाल् बेङ्गळूरु ।
  • क्रि.श. २००० वराहमिहिर ।
  • क्रि.श. २००० बानङ्गळद बत्तळिकेयल्लि ।
  • क्रि.श. २००० त्रिविक्रम हेज्जेगळु ।
  • क्रि.श. २००० विस्मयगळ् अनाडिनल्लि ।
  • क्रि.श. २००१ बीर्बल् साह्नि ।
  • क्रि.श. २००२ शक्तिसारथि राष्ट्रपति अब्दुल् कलाम्
  • क्रि.श. २००२ सृष्टिवादिगळ मुष्टियल्लि डार्विन् ।
  • क्रि.श. २००३ कर्तारनिगोन्दु किविमातु ।
  • क्रि.श. २००५ परिस्थितिवरदि मत्तु कार्ययोजने
  • क्रि.श. २००६ सरस्वती नदी ।
  • क्रि.श. २००५ दिव्यनेत्र ।
  • क्रि.श. २००६ अमूल्य रेड्डि ।
  • क्रि.श. २००७ दणियिल्लद धरणे ।
  • क्रि.श. २००७ सुनीता विलियम्स् (अनुवादः)
  • क्रि.श. २००८ पश्चिममुखी (प्रवासकथनम्)
  • क्रि.श. २००८ लोहविद्यापारङ्गत के.नागेश राव् ।
  • क्रि.श. २००९ तन्त्रप्रपञ्चदल्लि न्यानो मन्त्र ।
  • क्रि.श. २००९ ऋषिनमन ।
  • क्रि.श. २००९ अण्टार्क्टिक् कथे ।
  • क्रि.श. २००९ सर् एम्.विश्वेश्वरय्य ।
  • क्रि.श. २००९ डार्विन् कण्ड गलपगास् द्वीप ।
  • क्रि.श. २००९ दूरदर्शन कण्ड विश्वरूप ।
  • क्रि.श. २०१० कन्नडदल्लि विज्ञानसंहने । (प्रो.एच्.आर्. रामकृष्णराव् महोदयेन सह)

निवृत्तिः[सम्पादयतु]

अनन्तरामुवर्यः क्रि.श. २००८तमवर्षस्य डेसेम्बर् मासे वृत्त्या निवृत्तः अभवत् क्तिन्तु प्रवृत्त्या न हि ।

"https://sa.wikipedia.org/w/index.php?title=टि_आर्_अनन्तरामु&oldid=354290" इत्यस्माद् पुनः प्राप्तिः