तत्त्वम् (दर्शनशास्त्रे)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तत्त्वम् (हिन्दू धर्म) इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

'तत्त्वम्' इत्येतस्य शब्दस्य संस्कृते एते अर्थाः दृश्यन्ते -
१ तस्य भावह् - तद् त्वः (५-१-११९)

करौ व्याधुन्वत्याह् पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती । - शाकु १-२०

२ ब्रह्म, परब्रह्म, परमात्मा

वदन्ति तत्तत्त्वविदस्तत्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते । - भाग १०-२-११

३ 'सारांशभूतो जगतो योऽसौ तत्त्वमिति स्मृतः' इति निरुक्तिः ।

तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः' वि स

४ संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ गीता १८-१

विभिन्नेषु दर्शनेषु तत्त्वानि[सम्पादयतु]

चार्वाकदर्शने[सम्पादयतु]

अत्र चत्वारि तत्त्वानि अङ्गीकृतानि

  1. पृथिवी
  2. अप्
  3. तेजः
  4. वायुः
अत्र चत्वारि भूतानि भूमिवायुर्नलानिलाः । चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते । - स द सं

बौद्धदर्शने[सम्पादयतु]

  1. शून्यम्

सदसदुभय-अनुभवात्मक-चतुष्कोटिनिर्मुक्तं शून्यम् एव तत्त्वम् इति अत्र अभिप्रेतम् ।

जैनदर्शने[सम्पादयतु]

अत्र सप्त तत्त्वानि अङ्गीकृतानि
१ जीव २ अजीव ३ आस्रव ४ बन्ध ५ संवर ६ निर्जर ७ मोक्ष

साङ्ख्यदर्शने[सम्पादयतु]

अस्मिन् दर्शने पञ्चविंशतिः तत्त्वानि अङ्गीकृतानि सन्ति ।
१ जीवात्मा २ प्रकृतिः ३ महत् ४ अहङ्कार ५ पञ्च ज्ञानेन्द्रियाणि ६ पञ्च कर्मेन्द्रियाणि ७ पञ्च तन्मात्राणि ८ पञ्च भूतानि ९ मनः

योगदर्शने[सम्पादयतु]

पातञ्जलयोगदर्शने एवम् उच्यते - चेतनम् अचेतनम् इति तत्त्वं द्विविधम् । पुरुषः ईश्वरः इति चेतनतत्त्वं द्विविधम् । पुरुष-ईश्वराभ्यां साकं प्रकृत्यादितत्त्वानि संयोज्य २६ तत्त्वानि इति उच्यते ।

द्वैतदर्शने[सम्पादयतु]

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान् विष्णुः भावाभावो द्विधेतरत् तत्त्व सं

भावतत्त्वम् - चेतनम् अचेतनम् इति द्विविधम् । चेतनतत्त्वं दुःखास्पृष्टम् दुःखस्पृष्टम् इति द्विविधम् । लक्ष्मीः दुःखास्पृष्टचेतनम् । देवताः, ऋषयः, पितरः, नृपाः, मानवाः - दुःखस्पृष्टचेतनम् ।
अचेतनतत्त्वं त्रिविधम् - नित्यम्, अनित्यम्, नित्यानित्यम् इति । वेदाः - नित्यम् । पुराणानि, कालः, प्रकृतिश्च नित्यानित्यम् । असंस्पृष्टं, संस्पृष्टम् इति अनित्यं द्विविधम् । अस्म्पृष्टम् - २४ विधम्- महत्, अहङ्कारः, बुद्धिः, मनः, ५ ज्ञानेन्द्रियाणी, ५ कर्मेन्द्रियाणि, ५ तन्मात्राणि, ५ पृथिव्यादि भूतानि च ।

संस्पृष्टमण्डं तदङ्गं च समस्तं सम्प्रकीर्तितम् - तत्त्व सं

अभावतत्त्म् - त्रिविधम् - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः

प्राक्प्रध्वंससदात्वेन त्रिविधोऽभाव इष्यते - तत्त्व सं

अद्वैतदर्शने[सम्पादयतु]

चित्स्वरूपः ब्रह्म एक एव परमार्थतत्त्वम्, अवशिष्टं सर्वं मायाकल्पितम् इति अत्रत्यः सिद्धान्तः।
'अशेषविशेषप्रत्य्नीकं चिन्मात्रं ब्रह्मैकमेव तत्त्वमिति ब्रह्म ।' 'सर्वं खल्विदं ब्रह्म' ।

विशिष्टाद्वैतदर्शने[सम्पादयतु]

समस्तचिदचिद्विशिष्टः श्रीमन्नारायणः एव परमतत्त्वम् इति सिद्धान्तः ।

तत्त्वं जिज्ञासमानानाम् हेतुभिः सर्वतोमुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः - इति व्यासः ।

प्रत्यक्षादिप्रमाणैः इतरशास्त्रैः च ज्ञायते यत् तत्त्वानि अनेकानि इति । किन्तु सकलानि तत्त्वानि वस्तूनि च ईश्वरं समाश्रयन्ति इत्यतः एकतत्त्वं प्रतिपादितम् ।
अनेकतत्त्ववादम् अनुसृत्य तत्त्वविभागः एवमस्ति - आदौ चित्, अचित्, ईश्वरः इति त्रिविधम् । लोके वस्तूनि चेतनम् अचेतनम् इति द्विविधम् । ज्ञानयुतं चेतनम् - जीवात्मा । तदितरं सर्वम् अचेतनम् । तेषां विभागः एवम् - मूलप्रकृतिः, महत्, अहङ्कारः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, मनः, ५ तन्मात्राणि, ५ भूतानि - २४ तत्त्वनि, जीवात्मा, ईश्वरतत्त्वानि - २६ तत्त्वानि इति सिद्धान्तः ।

शक्तिविशिष्टाद्वैतदर्शने[सम्पादयतु]

प्रवृत्तेः क्रियाशक्तिद्वारा, मायाशक्तिद्वारा च पुरुषः प्रकृतिः च उत्पद्येते । पुरुषः चैतन्यरूपः । प्रकृतिः जडरूपा । सत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेः महत्, अहङ्कारः, मनः, ५ ज्ञानेन्द्रियाणि, ५ कर्मेन्द्रियाणि, ५ तन्मात्राणि, ५ महाभूतानि - २३ तत्त्वानि उत्पद्यन्ते ।
एतैः २५ तत्त्वैः सह - शिव शक्ति सादाख्य ईश्वर सद्विद्या माया काल नियति कला विद्या राग - ११ तत्त्वानि । आहत्य ३६ तत्त्वानि इति दर्शनकाराः वदन्ति ।