त्रिकोणासनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(त्रिकोनासनम् इत्यस्मात् पुनर्निर्दिष्टम्)
त्रिकोनासनम्

योगासनेषु अन्यतमम् आसनमस्ति त्रिकोनासनम् ।

आसनकरणविधिः[सम्पादयतु]

  • भूमौ पादद्वयं शरीरमुभयतः प्रसार्य दण्डायमानो भवतु ।
  • शनैः पूरकेण हस्तद्वयमुत्थाप्य स्कन्धमुभयतः प्रसारयतु ।
  • करतलद्वयं भूमिं निर्दिश्य स्थापयतु ।
  • रेचकेण वामह्स्तं शनैः शनैः वाम पादं प्रति अधः आनीय वामपादं स्पृशतु ।
  • दक्षिहस्तम् ऊर्ध्वम् उत्तोलयतु ।
  • दक्षिणबाहुना दक्षिण्कर्णं स्पृशतु ।
  • दक्षिणहस्तं मस्तकं च वामपार्श्वं प्रति अवनमयतु ।
  • वामह्स्तेन वामपादं दृढं गृहीत्वा पुरतः पश्यतु ।
  • निमेषद्वयम् अस्यामवस्थायां तिष्ठतु ।
  • पुनः पूरकेण दक्षिणहस्तम् ऊर्ध्वमुत्तोल्य शनैः शनैः रेचकेण पूर्वावस्थामागच्छतु ।
  • पुनः दक्षिणहस्तम अधः आनीय पूर्ववत् करोतु ।

लाभः[सम्पादयतु]

  • ग्रीवा स्कन्धादीनां ग्रन्थीनां पीडाः अपगच्छन्ति ।
  • मेरुदण्डः सन्तुलितः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्रिकोणासनम्&oldid=409299" इत्यस्माद् प्रतिप्राप्तम्