त्रिभुवनदास गज्जर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(त्रिभुवनदास गज्जारः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


(कालः - १८६३ तः १९२०) अयं (प्रो.) आचार्यः त्रिभुवनदासः कल्याणदासः गज्जारः(tribhuvanadas Gajjar) सुप्रसिद्धेषु भारतीय विज्ञानिषु अन्यतमः। अयं रसायनशास्त्रज्ञोऽपि आसीत्। सूरत् प्रान्ते सम्प्रदायस्थकुटुम्बे १८६३ तमे संवत्सरे अगष्टमासे अजायत। त्रिभुवनदासस्य पिता कल्याणदासः सुप्रसिद्धः शिल्पकारः आसीत्। “द आरट् आफ् स्कल्पचर” (The Art of Sculpture) नामकग्रन्थं रचितवान्। द्वे पुत्री, चत्वारः पुत्राः आसन्। त्रिभुवनदासः ज्येष्ठः पुत्रः भवति। बाल्यादारभ्यैव बुद्धिमान् आसीत्। परीक्षादिषु उत्तमाङ्कान् स्वीकरोतिस्म। अस्य पिता विरामेषु दिनेषु शिल्पकलायाः विषये पाठयतिस्म। तत्रापि तस्य परिणितिः आसीत्। उन्नताध्ययनार्थं मुम्बैनगरम् अगच्छत्। बि.एस्.सि. पदव्यां रसायनशास्त्रविभागे ७५% अङ्कान् स्वीकृतवान्। अस्मिन्नेव काले अस्य ज्ञानं दृष्ट्वा नूतनेभ्यः आगतेभ्यः छात्रेभ्यः पाठनाय कलाशाला व्यवस्थाकल्पिता आसीत्। मुम्बै विश्वविद्यालयात् एम्.ए. पदवीधरः सञ्जातः। वैज्ञानिकसूक्ष्मांशान् युवछात्रेभ्यः बोधनार्थं लघु कार्यशालां उद्घाटितवान्। अस्याः शालायाः आरम्भाय वडोदरा(बरोडा)प्रान्तस्य राजा ’सय्याजिरावः गायकवाड’ साहाय्यम् अकरोत्। वडोदरानगरस्य कलाशालायां रसायनशास्त्रोपन्यासकत्वेन नियुक्तिरभूत्। अस्य मासिकवेतनम् २०० आसीत्। अयं स्वबुद्धिशक्त्या, समर्पणाभावेन, पाठनशैल्यादिभिश्च सर्वान् आकृष्टवान्। १८९० तमे संवत्सरे जून्मासे वडोदरानगरे त्रिभुवनदासस्य आध्यक्षे कलाभवनस्य निर्माणम् अकरोत्। तत्र चित्रकलाम्, शिल्पशास्त्रम्, भवननिर्माणकलाम्, चारणकलाम्, वर्णस्थापनकलादीन् बोधयन्तिस्म। एताभिः कलाभिः सह भौतशास्त्रम्,रसायनशास्त्रञ्च पाठयन्तिस्म। स्वल्पे समये ८०० शताधिकाः छात्राः प्रविष्टवन्तः। जर्मन् भाषां जानातिस्म अयम्। जर्मन् देशीय लघु यन्त्रागाराणाम् उद्दिष्य गुजराति भाषायां लिखित्वा, ’रङ्गुरहस्य’ वार्तापत्रिकायां प्रकटयतिस्म। १८९६ तमे संवत्सरे स्वपदस्य त्यागपत्रम् अर्पितवन्तः। मुम्बैनगरं प्रत्यागत्य विल्सन् कलाशालायां रसायनशास्त्रविभागे आचार्य पदवीम् अलङ्कृतवान् त्रिभुवनदासः। सः शिक्षणक्षेत्रे गुणवत्तताभिवृद्धये पाठ्यक्रमस्य परिवर्तनम् अकरोत्। अस्मिन्नेव समये मारकरोगः(plague) मुम्बैनगरं व्यापृतम् आसीत्। विद्यमानानि औषधानि निष्फलानि जातानि। त्रिभुवनदासः स्वबुद्धिशक्त्या “अयोडिन् टेरिक्लोरैड” औषधम् संशोधितवान्। रोगपीडितानां जीवानां रक्षणं कृतवान्। १८९८ तमे संवत्सरे मुम्बैय्यां वीथ्यां विक्टोरिया नृपवल्लभायाः मूर्तिं स्थापितमासीत्। तस्याः मूर्तेः मुखे कृष्णवर्णं लेपितमासीत्। आङ्ग्लेयाः शासकाः लेपितस्य वर्णस्य उपमर्दनाय बहवः वैदेशिकाः वैज्ञानिकाः आगताः। ते असमर्थाः सञ्जाताः। तदा त्रिभुवनदासः तं वर्णं उपमर्दितवान्। अस्याः घटनायाः अनन्तरं लोके प्रसिद्धः जातः। ते शासकाः अधिकसम्भावनया सम्मानितवन्तश्च। तेन धनेन वडोदरायाम् “अलेम्बिक् केमिकल् वर्कस्” संस्था आरब्धा। गच्छताकाले अस्य पत्नी मृतवति, अनन्तरं भास्करनामकस्य प्रियस्य शिष्यस्य मरणं जातम्। आभ्यां घटनाभ्याम् अस्वस्थः अयं १९२० संवत्सरे जुलै मासस्य १६ दिनाङ्के मरणं प्राप्तवान्।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=त्रिभुवनदास_गज्जर&oldid=368871" इत्यस्माद् पुनः प्राप्तिः