त्वमक्षरं परमं...
पठन सेटिंग्स
(त्वमक्षरं परमं - 11.18 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
- त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य अष्टादशः(१८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]त्वम् अक्षरं परमं वेदितव्यं त्वम् अस्य विश्वस्य परं निधानम् त्वम् अव्ययः शाश्वतधर्मगोप्ता सनातनः त्वं पुरुषः मतः मे ॥ १८ ॥
अन्वयः
[सम्पादयतु]त्वं परमं वेदितव्यम् अक्षरम्, त्वम् अस्य विश्वस्य परं निधानम्, त्वम् अव्ययः, शाश्वतधर्मगोप्ता, त्वं सनातनः पुरुषः मे मतः ।
शब्दार्थः
[सम्पादयतु]- त्वम् = भवान्
- परमम् = उत्कृष्टम्
- वेदितव्यम् = ज्ञातव्यम्
- अक्षरम् = अनश्वरं ब्रह्म
- त्वम् अस्य = त्वम् एतस्य
- विश्वस्य = जगतः
- परम् = परमम्
- निधानम् = आश्रयः
- त्वम् अव्ययः = त्वं नाशरहितः
- शाश्वतधर्मगोप्ता = सनातनधर्मरक्षकः
- त्वं सनातनः = त्वं शाश्वतः
- पुरुषः = पुरुषोत्तमः
- मे = मम
- मतः = अभीष्टः।
अर्थः
[सम्पादयतु]त्वम् अनश्वरम् उत्कृष्टं ब्रह्म, त्वम् अस्य जगतः आधारः, त्वं नाशरहितः सनातनधर्मरक्षकः च त्वं शाश्वतः पुरुषोत्तमः च असि । एवम् अहं जानामि ।