दण्डी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दण्डि इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

दण्डी कविः आलङ्कारिकश्च। दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा च अस्य प्रसिद्धाः ग्रन्थाः। आहत्य अस्य सप्त रचनाः सन्ति। एषः काञ्जीवासी आसीत्।

कालः परिवारश्च[सम्पादयतु]

दण्डिनः स्थितिकालः सन्दिग्ध एव । अत्र समालोचकाः सुबन्धु-बाण-दण्डिनः, बाणदण्डिसुबन्धवः, सुबन्धु-दण्डि-बाणाश्चेति त्रिविधक्रमसमर्थका दृश्यन्ते । अधिकाः तु प्रथममेव पक्षमाश्रित्य प्रचलिताः दृश्यन्ते। एतावदेव ज्ञायते यत्स दाक्षिणात्यः । बाणभट्टः तं न स्मरतीति तस्य स्थितिकालस्य पूर्वसीमा, अभिनवगुप्तस्तं लोचने स्मरतीति तस्यापरसीमा।

अवन्तिसुन्दरीकथाऽनुसारेण दण्डी दामोदराऽऽख्यस्य प्रपौत्रः आसीत्। दामोदरस्य चतुर्षु सुतेषु कनिष्ठस्य वीरदत्तस्य सुत आसीद् दण्डी । तस्य माता गौरी । कथ्यते दामोदरः भारविरेव किंवा भारवेरन्तरङ्गसुहृदासीत् । सः विष्णुवर्धनाख्यस्य सिंहविष्णोः काञ्चीनरेशस्य सभापण्डित आसीत् । दामोदरस्य पुत्रो वीरेश्वरदत्तोऽपि सिंहविष्णुसुतस्य महेन्द्रवर्मणः सभापण्डित आसीत् । तथैव तत्सुतो दण्डी महेन्द्रवर्मणः सुतस्य नरसिंहवर्मणस्तत्सुतस्य राजवर्मणश्च सभाध्यक्ष आसीत् । नरसिंहवर्मणः स्थितिकालः ७४७-७८२ मितवैक्रमाब्दानभितः । एवमेव अवन्तिसुन्दरीकथायाम् -

भिन्नतीक्ष्णमुखेनाऽपि चित्रं बाणेन निर्व्यथः।

व्याहारेषु जहौ लीलां न मयूरः::::::::::।।

इति बाणो मयूरश्च कवी स्मृतौ दृश्येते । अनेन अवन्तिसुन्दरीकथायां वर्णितायाः कादम्बर्याः वर्णनस्य बाणवर्णितकादम्बरीवर्णनेन सह साजात्येनापि दण्डिनो बाणपरवर्तित्वं मन्यते। बाणः ७१५ मितवैक्रमाब्दे तनुं तत्याजेति मन्यते। तदनन्तरवर्तित्वेन दण्डिनः ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन विद्वत्सु सम्मतिः।

दण्डिनः प्रासादिकगुणगुम्फितां सरलां भाषां विलोक्य केचित्तं बाणपूर्ववर्तिनमेव मन्यन्ते । तेषां मते सति तस्य बाणपरवर्तित्वे तस्य भाषयाऽपि बाणप्रवर्तितशैल्या प्रभावितया भाव्यं स्यान्न हि भाषयाऽपि तथा प्रतीयत इति। किन्तु नेदं युक्तियुक्तं प्रमाणं मन्यते यतो हि बाणपश्चाद्वर्तिनः सर्वे बाणमेवानुकुर्वन्तीति नैव राजाज्ञा कुत्रापि । कवेस्तु स्वकीयं वैशिष्ट्यं भवति । कमनीयपदावल्येव दण्डिनो वैशिष्टयम् । कल्पितेऽपि प्रमाणबाहुल्ये दण्डिनो यथार्थतः स्थितिकालस्तु ७००-८५० मितवैक्रमाब्दान्तरालः मन्यते। तेन ७५० मितवैक्रमाब्दपश्चाद्वर्तिना तु न कदापि भाव्यं यतो हि ७५० मितवैक्रमाब्दानभितः स्थितिमती विज्जका तं स्पष्टमेव स्मरति ।

नीलोत्पलदलश्यामां विज्जकां मामजानता।

वृथैव दण्डिना प्रोक्ता सर्वशुक्ला सरस्वती॥ इति ।

विज्जका द्वितीयपुलकेशिनः पुत्रस्य चन्द्रादित्यस्य पट्टराज्ञी विजयभट्टारिकैव नान्या।

रचनाः[सम्पादयतु]

दण्डी संस्कृतसाहित्ये मूर्तिमत् कविरेव। कथ्यते हि -

जाते जगति वाल्मीकौ कविरित्यभिधाऽभवत्।

कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। इति ।

दण्डिनः कृतित्वेन सन्त्यनेके ग्रथाः प्रसिद्धाः । यथा -

१. दशकुमारचरितं - गद्यकाव्यं कथारूपम् ।

२. काव्यादर्शः - लक्षणग्रन्थः

३. अवन्तिसुन्दरीकथा - गद्यकाव्यम्

४. छन्दोविचितिः

५. कलापरिच्छेदः

६. द्विसन्धानकाव्यम्

७. वातमन्दिरम्

केचिदत्र मृच्छकटिकं गृह्णन्ति किन्तु वातमन्दिरमेव तत् । तेष्वपि त्रयो नितान्तं ख्याताः -दशकुमारचरितं, काव्यादर्शः, अवन्तिसुन्दरीकथा (सम्भवतः)। कलापरिच्छेदः काव्यादर्शस्यैवाग्रिमो भागो न तु स्वतन्त्रग्रन्थः । एवमेव छन्दोविचितिरपि । यथोक्तं काव्यादर्शो -

'इत्थं कलाचतुःषष्ठिविरोधः साधु नीयताम्।

तस्याः कलापरिच्छेदे रूपमाविर्भविष्यति।।[१]

'पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।

छन्दोविचित्य सकलस्तत्प्रपञ्चो निदर्शितः ।।[२]

दण्डिनो द्विसन्धानकाव्यमित्थं भोजराजेन शृङ्गारप्रकाशे स्मृतम् -

'द्वितीयस्य ( द्विसन्धानप्रकारस्य ) उदाहरणं यथा दण्डिनो धनञ्जयस्य द्विसन्धानप्रबन्धौ'[३]

दशकुमारे यादृशी भौगोलिकी स्थितिवर्णिताऽस्ति तदनुसारेण तु दण्डी प्रभाकरवर्धनसमकालिको दृश्यते । तदनुसारेण तस्य बाणपूर्ववर्तित्वं सिध्यति अपि च गद्यकाव्यस्य प्रथमप्रयोक्तत्वञ्च । किन्तवेतन्न तथा प्रामाणिकं यतो हि कवयः श्रुतं वा कल्पितमप्यर्थं लीलया वर्णयन्ति यथा नैषधीयचरिते दमयन्तीस्वयंवरसभायां सप्तानामेव द्वीपानां राज्ञां विशेषतो जम्बूद्वीपस्य अवन्ति-गौड-मथुरा-काशी-अयोध्या-पाण्ड्य-महेन्द्र-काञ्ची-नेपाल-मलय-मिथिला-कामरूप-उत्कल-कीकटमहीपतीनामुपस्थितिवर्णनम् । अपरञ्च हर्षनिर्वाणानन्तरमपि भारतस्य दशा तथैव सञ्जाताऽऽसीद्या प्रभाकरवर्धनसमये आसीत् । काव्यादर्शे दण्डी कथयति यत् -

'इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।

प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्॥'[४] इति ।

राजवर्माणं स्वाश्रयदातृत्वेन स्मरति । ऐतिहासिकैः खलु राजवर्मा इति ७४७-७८२ मितवैक्रमाब्दान्तराले काञ्चीं शासत्पल्लवराजो नरसिंहूवर्मा गृह्यते । सति तथा, दण्डिनोऽपि तत्सभाकवित्वेन वा तत्समकालिकत्वेन ७३०-८०० मितवैक्रमाब्दकालः स्थितिकालत्वेन मन्यते ।

शैली[सम्पादयतु]

दण्डी न केवलं विद्वान्, तस्य कल्पना उदात्ता बदुमुखी च । नास्य प्रबन्धः सुबन्धोरिव प्रत्यक्षरश्लेषमयो नापि च बाणस्येव रुचिरस्वरुवर्णपदानि । अस्य तु पदानि प्रसादमधुराणि ललितललितानि भावगभितानि च । समालोचकाः आमनन्ति यत्, स्पष्टता, भव्यभावसमभिव्यक्तिः कोमलकल्पनाकमनीयता, विचारवेशद्यञ्चास्य कृतिगतं वैशिष्ट्यम् । कविरसौ अनुप्रासमयपदविन्यासे एव रमते । तेनैवोक्तं भवेत् - 'दण्डिनः पदलालित्यम्' इति । अस्य पात्राणां सजीवता रोचिष्णुहास्यविलासः हृदयङ्गमा व्यङ्गभङ्गी च सर्वेषां कृते प्ररोचकाः । यथा हि -

'कुमारा माराभिरामा रामास्तपौरुषा रुषा भस्मीकृतारयो रयोपहसितसमीरणा रणाभियानेनाभ्युदयाशंसं राजानमकार्षः।'

निभाल्यतामस्य कवित्वकमनीयताऽत्र -

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपम्।

मम मानसमभिलषतित्वं वित्तं कुरु तथा मृदुलम्॥ इति ।

एवमेवास्य वर्णनकौशलस्योदाहरणं यथा -

'तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरस्वं महीरुहसमूहं शरदिन्दमुख्या मन्मथसमाराधनस्थानञ्च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसकततलञ्च सुदतीमुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयन् ललनातिलकविलोकनवेलाजनितशेषाणि स्मारं स्मारं मन्दमारुतकम्पितानि नवचतपल्लवानि मदनाग्निशिखा इव चकितो दर्शं दर्शं मनोजकर्णेजपानामिव कोकिलकोरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम' इत्यादि ।

सत्यमेवोक्तमेकेन समालोचकेन यद्दण्डिनो दशकुमारचरिते नानाविधा, रोमाञ्चकारिघटनाः सन्ति । ग्रन्थस्यास्य मुख्यो रसस्तु वीर एव किन्तु प्राधान्यमद्भूतस्यापि ।

त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥

इति महाकविः राजशेखरः स्वस्य सुभाषितहारावलिग्रन्थे वदति । संस्कृतसाहित्ये गद्यकविषु दण्डी (Dandi) बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते।

दशकुमारचरितम्[सम्पादयतु]

मुख्यलेखः : दशकुमारचरितम्

दशकुमारचरितं दण्डिनः प्रथितं गद्यकाव्यम् । अस्य पूर्वपीठिका, दशकुमारचरितं, उत्तरपीठिका चेति त्रयो भागाः । तत्रापि केचित्तु भाषागतभङ्गीमुद्दिश्य केवलं चरितभागमेव दण्डिप्रणीतं मन्यन्ते । तदनुसारेण यथा चरितभागस्य कमनीयपदा प्रसादगुणगुम्फिता मधुरमधुरा च भाषा न तथा पूर्वोत्तरपीठिकयोरिति । किन्तु कथनमतन्न युक्तियुक्तं सर्वेभ्यः। भाषाभङ्गी विषयानुबन्धिनी कवेस्तात्कालिकमनोवृत्यनुगा च । तेन एक एव कविरपि विविधभाषाभङ्गीमनुतिष्ठतीति नाश्चर्यं विषयाद्यनुसारेण ।

दशानां कुमाराणामतिपौरुषपराक्रमवर्णनमेवाऽस्य ग्रन्थस्य विषयः । मगधेशकुमारस्य राजवाहनस्य तन्मित्राणां नवानां देशविदेशाटनानुभवानां मनोहारि वर्णनमत्र दृश्यते।

दशकुमारचरितस्य सन्त्यनेके टीकाग्रन्थाः । अस्य पूर्वपीठिकायाः पददीपिकाऽभिधा टीका लभ्यते प्राचीना, नवीना च शेषराजशर्मणश्चन्द्रकलाऽऽख्या । मध्यभागस्य पदचन्द्रिका कवीन्द्राचार्यसरस्वतीकृता, शिवरामप्रणीता भूषणाऽऽख्या, लघुदीपिका च भानुचन्द्रकृता टीकाः । उत्तरपीठिकायाः न काऽपि टीका लभ्यते । पूर्वपीठिकायाः मध्यभागस्य च ताराचरणभट्टाचार्यप्रणीता बालविबोधिनी नाम्नी टीकाऽपि दृश्यते।

अवन्तिसुन्दरीकथा[सम्पादयतु]

अवन्तिसुन्दरीकथा दण्डिनोऽपरा कृतिः। ग्रन्थोऽयमपि हर्षचरितमिव कतिपयैः पद्यैरारभ्यते । अत्रापि वाल्मीकि-व्यास-सुबन्धु-गुणाढ्य-शूद्रक-भास-प्रवरसेन-कालिदास-नारायण-बाण-मयूराख्यानां कवीनां नामग्रहणं कृतमस्ति । तत्र कतिपयपद्यानां मध्यभागः खण्डितोऽपि दृश्यते । ततश्च गद्येन ग्रन्थारम्भः कृतोऽस्ति । अत्र बाणस्य कादम्बरी पुनरुक्तेव दृश्यते भाषाभाववर्ण्यविषयादिदृष्ट्या। दण्डिना 'ओजःसमासभ्यस्त्वं गद्यस्य जीवितमिति' यदुक्तं तदवन्तिसुन्दरीकथायामेव चरितार्थं भवति न तु दशकुमारचरिते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ३।१७१
  2. १/११/१२
  3. एकादशतमेऽध्याये
  4. २।२७९
"https://sa.wikipedia.org/w/index.php?title=दण्डी&oldid=439214" इत्यस्माद् पुनः प्राप्तिः