दीनदयाल उपाध्याय

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दीन दयाल उपाध्याय इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


दीनदयाल उपाध्याय ( २५ सितम्बर १९१६–११ फरवरी १९६८) इत्ययं एकात्ममानवतावादस्य प्रणेता जनसङ्घस्य नेता आसीत् । सः राजकारणे सत्यपि कोऽपि तं राजकारणी इति कथयितुं न शक्नुयात् तादृक् ऋषितुल्यं जीवति स्म । तेन जनतायै निरपेक्षत्यागं नाम किम् इत्यपि सूचितम् ।

जन्म[सम्पादयतु]

दीनदयाल उपाध्याय इत्यस्य जन्म उत्तरप्रदेशस्य मथुरामण्डलस्य चन्द्रभाण नामनि ग्रामे १९१६ तमस्य वर्षस्य सितम्बर-मासस्य २५ दिनाङ्के अभवत् ।

बाल्यं शिक्षणञ्च[सम्पादयतु]

दीनदयाल इत्यस्य बाल्यम् अत्यन्तदुःखेषु व्यतीतम् । स्वस्य पञ्चमे वर्षे पितुः, सप्तमे वर्षे मातुः मरणम् अभवत् । अनाथं दीनदयाल इत्येतं मातुलः नारायण शुक्ल स्वकर्मस्थलं राजस्थानराज्यम् अनयत् । तेन सह अनुजः शिवदयाल इत्ययमपि आसीत् । मातुलस्य सर्वकारवृत्तिवशात् पुनःपुनः स्थानान्तरणं भवति स्म । अतः दीनदयाल एकत्र स्थित्वा अभ्यासं न प्रापत् । प्रथमां कक्षां स्वग्रामे अधीत्य ततः परं गङ्गापुरस्य शालां प्रविष्टः । आचतुर्थं तत्र अपठत्, मातुलस्य वृत्तेः स्थानान्तरणवशात् पञ्च, षड्, सप्त कक्षात्रयं कोटा-नगरे पठित्वा अष्टमा, नवमा च कक्षा राजगढ इत्यत्र अपठत् । इत्थं सर्वत्र भ्रमणेन, पृथक् पृथक् सुज्ञानां व्यक्तिनां मेलनेन च तस्य विचाराः गाम्भीर्ययुताः अभूवन् । सः अजानात् यत् भारतस्य अनेकतायाम् एव एकता अस्ति । सः यदा राजगढ-नगरे न्यवसत् तदानीं तस्य अनुजः शिवदयाल रुग्णतावशात् मृतः । इत्थम् आदौ पित्रोः, परं भ्रातरि मृते सत्यपि तस्य धैर्यं न नष्टम् । सः सम्पूर्णं समाजम् एव स्वपरिवारम् अमन्यत । मातुलस्य राजगढ-नगरात् सीकर-नगरं प्रति स्थानान्तरणम् अभवत् । तत्र कल्याण-विद्यालयात् दीनदयाल मेट्रिक् परीक्षायां प्रथमक्रमे उत्तीर्णः अभवत् । इयं परीक्षा अजमेर-नगरस्य मण्डलात् सञ्चाल्यते स्म । दीनदयाल उपाध्याय इत्यस्य प्रथमक्रमे आगते सति सीकर-नगरस्य राजा तस्मै सुवर्णचन्द्रकम् अददात् । २५० रूप्यकाणि पुरस्कारत्वेन दत्त्वा १० रूप्यकाणि छात्रवृत्तित्वेन प्रतिमासं प्रदातुं घोषितवान्

उच्चशिक्षणम्[सम्पादयतु]

मेट्रिक् परीक्षां समुत्तीर्य दीनदयाल पिलानी-नगरस्य बिरला-महाविद्यालये प्रवेशं प्रापत् । तत्र १९३७ तमे वर्षे इन्टर् इति परीक्षायां प्रथमक्रमे समुत्तीर्णः । उद्योगपतिः घनश्यामदास बिरला इत्ययं स्वमहाविद्यालयस्य विद्यार्थिने दीनदयाल उपाध्याय इत्यस्मै सुवर्णचन्द्रकम् अयच्छत् । प्रतिमासं १० रूप्याकाणि छात्रवृत्तित्वेन दीयते इति सः घोषितवान् । परीक्षायां तस्य आरोग्यम् असमिचीनम् आसीत् । तथापि सः उत्तमतया परीक्षाम् अलिखत् । तस्य भूगोलशास्त्रस्य उत्तरपत्रं तु बहुवर्षाणि यावत् विद्यालये आदर्शत्वेन स्थापितम् । परीक्षायां समुत्तीर्य दीनदयाल उच्चाभ्यासाय कानपुर-नगरं गतः । तत्र बी.ए. इत्यस्मिन् प्रथमश्रेण्यां समुत्तीर्णः । तदानीं कानपुर-नगरे पण्डित सातवणेकर राष्ट्रियस्वयंसेवकसङ्घे कार्यरतः आसीत् । अतः दीनदयाल सङ्घस्य परिचयं प्रापत् । भाउराव देवरस इत्यनेन तस्य राष्ट्रभावना जागरिता । तेन दीनदयाल सङ्घस्य घनिष्ठः स्वयं सेवकः अभवत् । अध्ययनेन सह सङ्घकार्यं कुर्वन् अपि सः अभ्यासे तु अग्रेसरः आसीत् ।

स्नातकोत्तरः अभ्यासः[सम्पादयतु]

बी.ए. अभ्यासं समाप्य दीनदयाल यदा एम्.ए. अभ्यासार्थं आगरा-नगरस्य सेन्ट् जोन्स्-महाविद्यालयं प्राविशत्, तदा सीकर-नगरस्य बिरला इति उद्योगपतिना छात्रवृत्तिं प्राप्नोति स्म । अतः एकं प्रकोष्टं भाटकेन क्रीत्वा तत्र न्यवसत् । एम्.ए. प्रथमवर्षे दीनदयाल प्रथमक्रमाङ्के समुत्तीर्णः अभवत् । द्वितीयवर्षे मातुलपुत्र्याः रोगकारणात् परीक्षाप्रदानम् अशक्यम् अभवत् । तां सुहृज्जनाः आगरा-नगरस्य चिकित्सालयं नीतवन्तः । तस्याः सम्पूर्णं दायित्वं दीनदयाल इत्यस्य आसीत् । अतः मातुलस्य ऋणम् अपाकर्तुं एम्.ए. परीक्षां त्यक्त्वा मातुलपुत्र्याः अहर्निशं सेवाम् अकरोत् । एम्.ए. परीक्षा न प्रदत्ता अतः सीकर-नगरात्, उद्योगपतिना बिरला इत्यस्मात् च छात्रवृत्तिः स्थगिता अभवत् ।

नियोगं त्यक्त्वा राष्ट्रसेवायै जीवनार्पणम्[सम्पादयतु]

धनस्य प्राप्तिः अवरुद्धा, अतः नियोगस्य आवश्यकता अभवत् । किन्तु सङ्घरागयुतः दीनदयाल नियोगं कर्तुं नैच्छत् । तथापि मातुलस्य आज्ञया व्यापारक्षेत्रस्य स्पर्धात्मिकां परीक्षाम् अददात् । तत्र प्रथमक्रमाङ्कः प्राप्तः । तेन मातुलः प्रसन्नः जातः, दीनदयाल उच्चवेतनयुक्तं नियोगं प्राप्नोत् इति व्यचारयत् च । किन्तु दीनदयाल नियोगस्य अस्वीकारं कृत्वा अधिकम् अभ्यस्तुम् इलहाबाद-नगरम् अगच्छत् । ततः परं मातुलः नियोगं कर्तुं कथयेत् ततः प्रागेव स्वस्य सर्वाण्यपि प्रमाणपत्राणि प्राज्वालयत् । मित्रं वस्तराव इत्ययं दीनदयाल इत्येनं बोधयितुं प्रयासम् अकरोत् किन्तु दीनदयाल राष्ट्रसेवायै जीवनार्पणं कर्तुं प्रमाणपत्राणाम् आवश्यकता नास्ति इति अवदत् ।

प्रचारकत्वेन कार्यारम्भः, भारतीयजनसङ्घस्य स्थापना च[सम्पादयतु]

प्रमाणपत्राणि प्रज्वाल्य दीनदयाल प्रचारकस्य कार्यं स्वीकृत्य उत्तरप्रदेशात् प्रचारकत्वेन निर्गतः प्रथमजनः अभवत् । दीनदयाल इत्यनेन प्रचारस्य कार्यं लखीमपुर-तः आरब्धम् । ततः परं शाहजहापुरे, सीतापुरे, खीरीनगरे च प्रचारकत्वेन स्थितः । सर्वत्र सुविधाः न भवन्ति स्म, तथापि सरलजीवनपद्धत्या सर्वं हसन्नेव सहते स्म । १९४७ तमे वर्षे यदा देशः स्वातन्त्र्यम् अलभत्, तदा सर्वकारः महात्मनः मृत्युविषये सङ्घं प्रति प्रतिबन्धं कृत्वा अकारणं स्वयंसेवकान् अपीडयत् । अतः सङ्घस्य कृते राजकीयपक्षस्य आवश्यकता आपतिता । अतः सङ्घः श्यामाप्रसाद मुखर्जी इत्यस्य नेतृत्वे भारतीयजनसङ्घस्य स्थापनाम् अकरोत् ।

जनसङ्घस्य महामन्त्रिपदे[सम्पादयतु]

श्यामाप्रसाद राष्ट्रियस्वयंसेवकसङ्घस्य सञ्चालकात् माधव सदाशिवराव गोलवलकर (गुरुजी) इत्यस्मात् भारतीयजनसङ्घे दीनदयाल इत्यस्य साहाय्यम् अयाचत् । गुरुजी जनसङ्घकार्याय दीनदयाल इत्येनम् असूचयत् । दीनदयाल अपृच्छत् “त्वं मां किमर्थं पङ्के क्षिपसि” ? गुरुजी अवदत् “अहं जाने पङ्के निवसन्नपि त्वं पङ्कजवत् कार्यं करिष्यसि” इति । १९५२ तः १९६७ पर्यन्तं दीनदयाल जनसङ्घस्य महामन्त्री आसीत् । नेतृत्वात् दूरं निवस्य सः सङ्घटनकार्यम् एव अकरोत् । अपवादत्वेन जौनपुर-तः लोकसभायाः निर्वाचने स्पर्धयितुम् अवसरं प्राप्तवान् । किन्तु तत्र पराजितः । तथापि विजयी नेतुः कृते दीनदयाल उक्तवान् यत् – “सः अत्र अधिकः सक्रियः, लोकप्रियश्च अस्ति । अतः तस्य विजयः स्वाभाविकः” । १९६७ तमे वर्षे केरल-राज्यस्य केलिकट्-नगरे जनसङ्घस्य राष्ट्रियम् अधिवेशनम् आयोजितम् आसीत् । तत्र पण्डित दीनदयाल इत्यस्य अध्यक्षत्वेन नियुक्तिः जाता । अध्यक्षप्रवचने तेन उक्तं यत् – “आर्थिकयोजनायै, प्रगतेः मापनकार्याय च समाजस्य मुखरपदारूढाः न, किन्तु सामान्यजनाः आवश्यकाः” । इत्थं राष्ट्रियस्तरे अध्यक्षे सत्यपि तस्य जीवनशैल्यां परिवर्तनं नासीत् ।

पत्रकारक्षेत्रे दीनदयाल इत्यस्य योगदानम् पण्डित इति उपाधिः च[सम्पादयतु]

राजनीतिं विहाय साहित्ये तथा पत्रकारक्षेत्रेऽपि दीनदयाल इत्यस्य योगदानम् आसीत् । सः १९४७ तमे वर्षे राष्ट्रधर्म नामाख्यं मासिकपत्रं प्रकाशितुम् आरभत । यदा १९४८ तमे वर्षे सङ्घोपरि प्रतिबन्धः स्थापितः, तदा सः स्वमासिकपत्रे सर्वकारस्य विरुद्धं निन्दात्मकलेखान् अलिखित् । अतः सर्वकारेण राष्ट्रधर्म मासिकपत्राय अपि प्रतिबन्धः घोषितः । तदनन्तरं दीनदयाल हिमालय नामकं सामयिकं प्रकाशितुम् आरभत । सम्राट् चन्द्रगुप्त, आद्यः शङ्कराचार्यः इत्येते दीनदयाल इत्यस्य आदर्शपुस्तके स्तः । दीनदयाल अर्थशास्त्रम् अपि जानाति स्म । भारतीया अर्थनीतिः तस्य प्रसिद्धं पुस्तकम् अस्ति । तत्र तेन प्रथमपञ्चवार्षिकयोजनायां त्रुटयः दर्शिताः । इत्थं अनेकानां क्षेत्राणां ज्ञानम् आसीत्, अतः पण्डित इति उपाधिः लब्धा ।

विचारकः पण्डितः[सम्पादयतु]

पण्डितः उच्चकक्षायाः विचारकः अपि आसीत् । भारतीयदर्शनाधारेण तेन राजकीयं दर्शनं सज्जीकृतम् । तत् एकात्ममानवतावाद इति नाम्ना प्रसिद्धम् अभवत् । तत्र पण्डितेन उक्तम् यत् – “सर्वे मानवाः समानाः सन्ति । एकत्र धनाढ्यता, अन्यत्र धनाभावश्चेत् तं समाजं बलवन्तं कथयितुं न शक्नुमः । विश्वदेशकुटुम्बव्यक्त्यादयः सर्वेऽपि परस्परं संयुक्तास्सन्ति, सर्वेऽपि अन्योन्याश्रितास्सन्ति । अतः मानवस्य उदरपूर्तौ एव चिन्तां मा कुरुत समग्रस्य शरीरस्य चिन्तां कुरुत । ईश्वरपार्श्वे समग्रस्य समाजस्य चिन्ताम् अपाकर्तुं तथा अस्मान् सन्तोषयितुं पर्याप्तानि साधनानि न सन्ति । अतः अस्माभिः उपभोगेषु न्यूनता कर्तव्या अर्थात् आवश्यकतानुसारम् उपभोगः कर्तव्यः” । पण्डितस्य विचाराः साधुपुरुषाणां सदृशाः आसन् । किन्तु तस्य महत्वाकाङ्क्षया पक्षस्य विचारधारायाः नाशः अभवत् । तं नाशं द्रष्टुं पण्डितः नासीत् । आजीवनं सारल्येन जीवनयापनकर्ता पण्डितः रेलयानस्य तृतीय-वर्गे यात्रां करोति स्म । अतः रक्षकस्य विषये तु कः प्रश्नः ?

मृत्युः[सम्पादयतु]

१९६८ तमस्य वर्षस्य फरवरी मासस्य ११ दिनाङ्के दीनदयाल पटना-नगरात् लखनऊ नगरं गच्छन् आसीत् । किन्तु सः लखनऊ नगरं न प्राप्तः । मोगलसराय रेलस्थाने एव दीनदयाल इत्यस्य मृतदेहः प्राप्तः । किन्तु इदानीम् अपि तस्य हननं रहस्यमयी एव अस्ति । अजातशत्रोः पण्डितस्य हननस्य कारणमपि किं स्यात् इति वयम् अद्यापि न जानीमः । सर्वत्र तस्मै श्रद्धाञ्जलिः प्रदत्ता । यद्यपि पण्डितः स्वयं कदापि संसद्सभ्यः न अभवत् तथापि सर्वैः संसद्सभ्यैः तस्मै सादरं श्रद्धाञ्जलिः प्रदत्ता ।

"https://sa.wikipedia.org/w/index.php?title=दीनदयाल_उपाध्याय&oldid=429630" इत्यस्माद् पुनः प्राप्तिः