दीपकालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



लक्षणश्लोकः[सम्पादयतु]

वदन्ति वर्ण्यावर्ण्यानां धर्मैक्यं दीपकं बुधाः ।
मदेन भाति कलभः प्रतापेन महीपतिः ॥

अर्थः[सम्पादयतु]

प्रस्तुताप्रस्तुतानामेकधर्मान्वयो दीपकम् । यथा कलभमहीपालयोः प्रस्तुताप्रस्तुतयोर्भानक्रियान्वयः ।

उदाहरणान्तरम्[सम्पादयतु]

मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदिसरितः श्यानपुलिनाः ।
कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता
तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नृपाः ॥

अर्थः[सम्पादयतु]

अत्र प्रस्तुतानां नृपाणाम् अप्रस्तुतानां मण्यादीनां च शोभैकधर्मान्वयः । प्रस्तुतैकनिष्ठः समानो धर्मः प्रसङ्गादन्यत्र उपकरोति प्रसादार्थमारोपितो दीपः इव रथ्यामिति दीपसाम्याद्दीपकम् ।

बाह्यसम्पर्कः[सम्पादयतु]

दीपकः

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दीपकालङ्कारः&oldid=419214" इत्यस्माद् प्रतिप्राप्तम्