देवघाटम्
देवघाटधाम् मध्यनेपालस्य प्रसिद्धेषु धार्मिक-सांस्कृतिककेन्द्रेषु अन्यतमम् अस्ति । एषः स्थानः नारायणी-गण्डकीनद्याः संगमे स्थितं भवति, यत्र कालीगण्डकी च त्रिशूलीनदी च मिलन्ति। एषः संगमः हिन्दूधर्मे विशेषं पुण्यस्थलत्वेन प्रसिद्धः अस्ति।
देवघाटे विविधानि धार्मिककार्याणि सम्पन्नानि भवन्ति। अत्र बहवः मन्दिराणि सन्ति, यथा वाल्मीकिआश्रमः, गजेंद्रमोक्षस्थलम्, बैद्यनाथमन्दिरं, राधाकृष्णमन्दिरं च। एषः क्षेत्रः वाल्मीकिमुनेः तपोभूमिः इति अपि प्रसिद्धः अस्ति। त्रेतायुगे वाल्मीकिऋषिः अत्र एव रामायणस्य रचनां कृतवान् इति जनश्रुतिः अस्ति। अस्मिन् स्थले एव सीतादेव्याः वासः अपि अभवत् इति अपि हिन्दूपुराणेषु उल्लिखितम् अस्ति।[१]
देवघाटधामस्य सौन्दर्यं केवलं धार्मिकदृष्ट्या एव न, अपितु प्राकृतिकदृष्ट्या अपि अतीव रमणीयम् अस्ति। पर्वतश्रृङ्गैः, हरितवृक्षैः, शुद्धवायुभिः च युक्तं एतत् स्थानं एकं आध्यात्मिकं विश्रान्तिस्थलम् इव अनुभूयते।
नेपालराज्यस्य पर्यटनविकासे देवघाटधामस्य महत्वं विशेषम् अस्ति। अत्र धर्मपर्यटनस्य उत्कृष्टं उदाहरणं दृश्यते। राज्यसर्वकारेण अपि एषः क्षेत्रः संरक्षितः च विकसितः च क्रियते।
धार्मिकमेला:
[सम्पादयतु]प्रत्येकवर्षं माघमासे 'माघस्नानम्' नामकं धार्मिकं उत्सवः अत्र आयोज्यते, यत्र सहस्रशः भक्तजनाः भारतात् च नेपालात् च आगत्य स्नानं कुर्वन्ति।[२][३][४] एते जनाः पुण्यप्राप्तये संगमे स्नात्वा देवताभ्यः प्रार्थनां कुर्वन्ति। अत्रस्थजनाः जीवनस्य अन्ते धर्मलाभाय देवघाटं प्रति गन्तुं अतिलालसा युक्ताः भवन्ति। नारायणी-कालीगण्डकिनद्योः रमणीयं जलप्रवाहं स्वच्छं च काञ्चनसदृशं जलं च पर्यटकानां आकर्षणस्य केन्द्रभूतं अस्ति।[५][६]
संदर्भ सूत्रम्
[सम्पादयतु]- ↑ अर्याल, कमलप्रसाद (२०७० पौष १७). "हाम्रो गौरव हाम्रो शान हामी सबैको देवघाट धाम". हेल्लो नेपाल कोरिया. दक्षिण कोरिया. आह्रियत २०७० पौष १७.[नष्टसम्पर्कः]
- ↑ "देवघाट, धनुषा धाम र बराह क्षेत्रमा मेला". नेपलीज. नेपालीज. माघ १, २०७१. Archived from the original on 2016-03-07. आह्रियत माघ १.
- ↑ "देवघाटमा श्रद्धालुको घुइँचो". कान्तिपुर. कान्तिपुर. २०७१ माघ २. आह्रियत माघ २.[नष्टसम्पर्कः]
- ↑ "देवघाट धाममा बोलबम मेला सुरु". हाम्रा कुरा. हाम्रा कुरा. साउन १, २०६९. आह्रियत १ साउन.[नष्टसम्पर्कः]
- ↑ "लोकप्रिय देवघाट र नेपाल भिडियो प्लेलिस्ट".
- ↑ हमाल, चाँदनी (१२ बैशाख, २०७२). "चमक गुमाउँदै देवघाट". नागरिक न्युज. आह्रियत १२ बैशाख.
<ref>अङ्कने परिभाषितं <references> किमपि नामलक्षणं न विद्यते ।