देवताध्यायब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

देवताध्यायब्राह्मणम् इति दैवतब्राह्मणमिदं सामवेदीयब्राह्मणेषु लघ्वाकाकरम् अस्ति । अस्मिन् ग्रन्थे खण्डत्रयमस्ति । प्रथमखण्डे देवतानां वर्णनमस्ति । प्रथमकण्डिकानुसारेण सामदेवतानां नाम्नः निर्देशोऽनेन प्रकारेणास्ति - अग्निः, इन्द्रः, प्रजापतिः, सोमः, वरुणः, त्वष्टा, अङ्गिरस्, सरस्वती इत्यादयः । एतेषां देवतानां प्रशंसायां गेयसाम्नां विशिष्टनामानि अपि अददद् अस्मिन् ब्राह्मणे । द्वितीयखण्डे छन्दसां देवताः तथा तेषां वर्णानां विशेषवर्णनमस्ति । तृतीयखण्डे छन्दसां निरुक्तयः सन्ति । एताभ्यः निरुक्तिभ्यः कतिपयाः निरुक्तयः यास्केन स्वकीयनिरुक्तग्रन्थे गृहीताः।[१] खण्डोऽयं भाषाशास्त्रीयदृष्ट्या अतीव महत्त्वपूर्णोऽस्ति । अत्र छन्दसां नाम्नः निर्वचनमतीव प्रामाणिक-रीत्या सम्पादितमस्ति । गायत्रीछन्दसः नाम्नः अर्थोऽस्ति—स्तुत्यर्थक-‘गै'-धातोः निष्पन्नः देवतानां प्रशंसकात् तथा वेदसमुदायस्य गानकर्त्तुः ब्राह्मणात्समुत्पन्नो छन्दः । अनेन प्रकारेण अन्येषां छन्दसामपि निर्वचनं समुपलब्धो भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ७॥१२॥ १३