धर्मसूत्रेषु प्रायश्चित्तविधानविमर्शः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति वचनानुसारं प्राचीनकालादेव भारतीयसंस्कृतेः एतद् मूलोद्देश्यमस्ति अर्थात् सर्वे जनाः प्रसन्नाः भवन्तु । यतो हि प्रसन्नता मानवस्य जन्मसिद्धाधिकारोऽस्ति । वस्तुतः मानवः प्रसन्नतां तदैव प्राप्नोति यदा स अभीष्टं प्राप्नोति । यावत् मानवस्य इच्छानां पूर्तिः न भवति तावत् स अप्रसन्नो भूत्वा पापाचरणं दुष्कर्माणि च करोति । अनेन कारणेन प्राचीनकाले आचार्यैः पापानां निवारणार्थं प्रायश्चित्तकर्माणि विहितानि ।

प्रायश्चित्तशब्दस्य उल्लेखाः[सम्पादयतु]

प्रायश्चित्तशब्दः अतीवप्राचीनकालात् आरभ्य प्रचलितो विद्यते इति समवलोक्यते । वेदेषु श्रौतसूत्रेषु, उपनिषत्सु, धर्मशास्त्रेषु, सर्वत्रैव प्रायश्चित्तशब्दः व्यवहृतः स एव प्रायश्चित्तशब्दः कुत्रचित् प्रायश्चिति - शब्देनापि अभिधीयते । यथा -

एष वै प्रजापतिः सर्वं करोति योऽश्वमेधेन यजते,
सर्व एव भवति सर्वस्य वा एषा प्रायश्चितिः सर्वस्य भेषजम इति ।

  • कौषीतकिब्राह्मणेऽपि प्रायश्चित्तशब्दः प्रयुक्तः ।
  • आश्वलायनश्रौतसूत्रे विध्यपराधे प्रायश्चित्तम् इति कथनात् विध्यतिक्रमः पापं तदर्थ च प्रायश्चित्तविधानं कृतम् इति दृश्यते । दोषपरिहारार्थं ज्ञानात् अज्ञानात् वा विध्यपराधकृते भगवतः नारायणस्य जपहोमादिभिः पापं नश्यति तत् च प्रायश्चित्तनाम्ना सांख्यायनश्रौतसूत्रे प्रतिपादितम् । यथा- विध्यपराधे प्रायश्चित्तं दोषविघातार्थं विधीयतेऽनाज्ञातो विशेषे ध्यानं नारायणस्य तज्जपेज्याहोमाश्च हननार्थमिति ।
  • जैमिनीयसूत्रभाष्यकारेण शबरेण प्रायश्चित्तस्य प्रकारद्वयं प्रदर्शितम् । यथा प्रथमतः यज्ञानुष्ठाने प्रमादवशात् शास्त्रविहितविधानामननुष्ठानं तथा यज्ञाकरणदिनां पतनं कुप्रभावकारकमिति कथितम् । द्वितीयतः शास्त्रविहितस्य अकरणं तथा निषिद्धस्य आचरणं पापोत्पत्तिकारकम् । अतः उपर्युक्तानां पापानां निराकरणार्थं यत् क्रियते तत् प्रायश्चित्तम् इति कथ्यते । यदि कश्चन शूकरः मेषः वा यज्ञवेद्यां मध्ये धावेत् अग्निहोत्रहोमार्थं गोदोहनकाले दुग्धं भूमौ अभिधायते तथा यदि दुग्धपात्रं विनष्टं भवति, होमे प्रारब्धे सति यदि अग्निः निर्वापितो भवति तर्हि एतासु स्थितिषु कर्त्ता आत्मनि पापसत्तां परिकल्प्य प्रायश्चित्तानुष्ठानं कुर्यादिति एतेभ्यः वैदिकानुष्ठानेभ्यः ज्ञायते ।

व्युत्पत्तिः अर्थश्च[सम्पादयतु]

प्रायश्चित्तम् इति पदस्य व्युत्पत्तिः अर्थश्च - प्रायः सर्वैः धर्मशास्त्रकारैः पापेभ्यः विमुक्तये प्रायश्चित्तस्य विधानं कृतम् । वैदिकसाहित्ये प्रायश्चितिः प्रायश्चित्तञ्च इति द्वयोः पदयोः व्यवहारोऽस्ति । अथर्ववेदे शतपथब्राह्मणे पारस्करगृह्यसूत्रे च प्रायश्चितिः इति पदं प्रयुक्तम् । तैत्तिरीयसंहितायामपि प्रायश्चिति इति शब्दस्य उल्लेखोऽस्ति परं तत्र पदमिदं पापार्थकं नास्ति ।
आप्टेमहोदयेन प्रायश्चित्तशब्दस्य अर्थः कृतः - 'परिशोधः पापनिष्कृतिः क्षतिपूर्तिः, पापनिस्तारः धार्मिकसाधना इत्यादयः । गौतमधर्मसूत्रस्य हरदत्तटीकायां प्रायश्चित्तशब्दस्य व्युत्पत्तिः प्रायेण चित्तेन च क्रियते , यस्यार्थाः तपसः निश्चयेन सह संसर्गः --

प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते ।
तपोनिश्चयसंयोगात्प्रायश्चित्तमिति स्मृतम् ॥

मिताक्षराकारेण प्रायश्चित्तशब्दश्चायं पापक्षयार्थे नैमित्तिके कर्मविशेषे रूढः इति प्रतिपादितम् । परन्तु याज्ञवल्क्यस्मृतेः मिताक्षराटीकायाः बालभट्टीटीकायां कथितं यत् प्रायशब्दस्य अर्थः पापं चित्तशब्दस्य अर्थः विशोधनं पापनिवर्त्तनक्षम् - धर्मविशेषे योगरूढोऽयं शब्द इति । प्रायश्चित्तमयूखकारेण श्रीमता नीलकण्ठभट्टेन अपि प्रायश्चित्तशब्दस्य अर्थः इत्थं प्रतिपादितम् यथा - 'विहिताननुष्ठाननिन्दितसेवननिमित्तं विहितं कर्म प्रायश्चित्तम्' अस्मिन् विषये हेमाद्रिणा प्रायो विनाशः चित्तं सन्धानं विनष्टस्य सन्धानम् इति विभागयोगेन प्रायश्चित्तशब्दः पापक्षयार्थे नैमित्तिके कर्मविशेषे वर्तते इति उक्तम् ।

मनुमतानुसारेण यदि कश्चन प्रायश्चित्तं न करोति तदा तस्य सामाजिकबहिष्कारः करणीय याज्ञवल्क्यस्य मते मनुष्येन आत्मशुद्ध्यर्थं प्रायश्चित्तकर्म करणीयम् यतो हि स ईदृशं कर्म करोति चेत्तर्हि तस्य अन्तरात्मा लोकश्च उभौ प्रसन्नौ भवतः -

एनस्विभिरनिर्णिक्तैर्नाथे किंचित्सहाचरेत् ।
तस्मात्तेनेह कर्त्तव्यं प्रायश्चित्तं विशुद्धये ॥

याज्ञवल्क्यस्मृतिकारेण एकस्मिन् स्थले शूद्रवर्णायापि प्रायश्चित्तस्य विधानं क्रियते - 'शूद्रोऽधिकारहीनोऽपि कालेनानेन शुद्ध्यति । 'बौधायनसूत्रकारस्य मतानुसारेण जप-तप-होम-दान-उपवासादयः पवित्रा उपायाः सन्ति यैः विशुद्धो भूत्वा मनुष्यः पुनः समाजे प्रवेशं कर्तुं शक्नोति । प्रायेण सर्वे धर्मशास्त्रकाराः पापकर्मणि प्रायश्चित्तकर्मणां विधानं कुर्वन्ति । प्रस्तुन्ते शोधपत्रे त्रयाणां पापानां प्रायश्चित्तविधानविषये विचारः क्रियते -

१ ब्रह्महत्या
२ सुरापानम्
३ स्तेनम्

ब्रह्महत्यायाः प्रायश्चित्तम्[सम्पादयतु]

धर्मशास्त्रकाराः विप्रहत्यां महापातकपापस्यान्तर्गते मन्यते । तैत्तिरीयसंहितायां ब्रह्महत्या महापापः इति स्वीक्रियते - 'ब्रह्महत्यामुपागृह्यत्। 'आपस्तम्बकारेण ब्रह्मघातकः अभिशस्तः कथ्यते । हरदत्तमहोदयेन अभिशस्तः शब्दस्यार्थः 'ब्राह्मणमहापातकी' कथ्यते । गौतमधर्मसूत्रकारानुसारेण यदि कोऽपि जनः ज्ञात्वाऽपि ब्राह्मणस्य हननं करोति तर्हि सः भोजनं परित्यज्य दुर्बलशरीरवान् भूत्वा त्रिवारं यदि अग्नौ कूर्दति तर्हि सः ब्रह्महत्यायाः पापात् मुक्तः भवति । आपस्तम्ब- बौधायनयोः मतानुसारेण यः कोऽपि ब्रह्महत्यां करोति तेन वने एकान्ते पर्णकुटीं रचयित्वा वाणीं संयम्य शिरः कुण्डे स्थाप्य वस्त्रं धारयित्वा हस्ते धातुपात्रं गृहीत्वा उच्चचारणं कुर्वता सप्तषु भिक्षाचरणं करणीयम् । भिक्षायाः अभावे उपवासः करणीयः । अनेन प्रकारेण द्वादशवर्षाणि यावत् प्रायश्चित्तानन्तरं मनुष्यः पुनः समाजे प्रवेशार्हो भवति ।

मनुनाऽपि एतत् स्वीक्रियते --

ब्रह्महा द्वादशसमाः कुटिं कृत्वा वने वसेत् ।
भैक्षाश्यात्मविशुद्धयर्थे कृत्वा शशिरोध्वजम् ॥

सर्वेषां धर्मसूत्रकाराणां मते ज्ञातवान् ब्रह्महत्याकारीमनुष्यः यदि क्षत्रियोऽस्ति तर्हि युद्धभूमौ स्थित्वा अन्यैः यौद्धाभिः तं ब्रह्महत्याकरं ज्ञात्वा तस्य हननं करणीयम् । मनुस्मृतिकारोऽपि धर्मसूत्रकाराणां मतं मन्यते परन्तु याज्ञवल्क्यस्य मते सः ब्रह्महत्याकरः युद्धभूमौ आहतत्वेऽपि ब्रह्महत्यायाः पापात् विमुक्तो भवति ।

सुरापानस्य प्रायश्चित्तम्[सम्पादयतु]

सुरापानं महापातकम् इति सर्वैः स्वीकारितम् । सर्वप्रथमम् ऋग्वेदे 'सुरा' शब्दस्य उल्लेखो प्राप्तो भवति । तत्र सुरापानं द्यूतवत् पापं कथ्यते । तैत्तिरीयसंहितायां शतपथब्राह्मणे च सोमसुरयोः अन्तरं स्पष्टीकर्तुं कथ्यते यत् सोमः सत्यम् अस्ति परं सुराम् अनृतं पापम् अन्धकारश्च कथ्यते - 'सत्य वै श्रीः ज्योतिः सोमोऽनृतं पाप्मातमः सुरा । 'धर्मसूत्रकारानुसारं यदि कोऽपि जनः प्रथमवारमपि मद्यपानं करोति तर्हि तस्य देहावसाने एव प्रायश्चित्तं भवति । गौतममतानुसारं तस्य मुखे शलाका पातनीया -
'सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्येत् ।'
मनुस्मृतिकारोऽपि एतन् मतं स्वीकरोति । याज्ञवल्क्यमतानुसारेण मद्यपानेन सह जलं , घृतं गोमूत्रं, दुग्धं च इत्येतेषु कस्यचिद् एकस्य बहुमात्रायां पानं करणीयं, यदि तस्य मृत्युर्भवति तर्हि तस्य शुद्धिर्भवति । मद्यपानविषये महर्षिगौतमस्य मतम् अस्ति यत् यदि मनुष्यः अज्ञानवशात् सुरापानं करोति तर्हि तेन त्रीणि दिनानि यावद् उष्णदुग्धस्य, घृतस्य, जलस्य उष्णवायोश्च सेवनं करणीयम् । तस्मात् तप्तकृच्छ्रंकृत्वा तस्य उपनयनसंस्कारः भवति -- 'अमत्या पाने पयो घृतमुदकं वायुं पक्तियहं तप्तानि सकृच्छ्रस्ततोऽस्य संस्कारः ।' बौधायनधर्मसूत्रकारानुसारेण मासत्रयं यावत् कृच्छ्र उपवासे कृते पुनः तस्य उपनयनसंस्कारः भवति । तथा अस्मिन् विषये मनुः वदति यत् यदि कोऽपि जनः अज्ञानतया सुरापानं करोति तर्हि पुनः संस्कारेण एव तस्य शुद्धिः भवति -- ' अज्ञानाद्वारूणीं पीत्वा संस्कारेणैव शुद्धयति । '

स्तेनस्य प्रायश्चित्तम्[सम्पादयतु]

प्राचीनकालात् अद्यतनयुगे अपि चौर्यम् एकं कुकर्म मन्यते । अतः धर्मसूत्रकारानुसारेण चौराय प्रायश्चित्तस्य विधानं क्रियते । गौतममतानुसारेण स्वामिनः अनुमतिं विना वस्तूनां ग्रहणं स्तेनकार्यं मन्यते, यथा अग्नये ईंधनम्, लतानां वृक्षाणां च पुष्पाणि इत्यादयः --

गोग्न्यर्थे तृणमेधान्वीरूद्वनस्पतीनां च पुष्पाणि ।
स्ववदाददीत फलानि चापरिवृतानाम् ।।

आपस्तम्बकारस्य मते आपातकालावस्थायां अपरस्य सम्पत्तेः हरणं कुर्वन् स्तेनः कथ्यते । परन्तु अल्पमात्रायां पुष्पं घासं च गृहीतुं शक्यते । किन्तु मनुः एतद्विषये दण्डस्य विधानं करोति । धर्मसूत्रकारयोः गौतमआपस्तम्बयोः मते यदि चौरः स्वकेशान् उद्घाटयित्वा स्कन्धयोः मूशलं स्थापयित्वा राज्ञः पार्श्वे गत्वा तं स्वचौरकर्मावगतं कारयेत् तर्हि नृपः तेन मूशलेन चौरस्योपरि प्रहारं करोति तेन प्रहारेण च यदि तस्य चौरस्य मृत्युर्भवति तर्हि स पापात् मुक्तो भवति । मनुः अपि एतत् मतं स्वीकरोति । प्रायः धर्मसूत्रकारः मन्यते यत् यदि नृपः चौरं चेतयित्वा अर्थात् क्षमां कृत्वा परित्यजति तर्हि राजा पापं गृह्णाति । अन्यत्र आपस्तम्बकारः कथयति यत् चौरः स्वशरीरं अग्नौ पातयेत् अथवा कठोरतपसा अल्पभोजनेन च निजजीवनं समापयेत् । अस्य विकल्पे एकवर्षं यावत् कृच्छ्रव्रतमपि कर्तुं शक्नोति । परन्तु मनुस्मृतिकारेण चौर्यकरणे द्विजाय पुरातनानि वस्त्राणि धारयित्वा ब्रह्महत्यायै विहितं प्रायश्चित्तं विधीयते --

तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ।।

अतः वयं कथयितुं शक्नुमः यत् बहुभिः प्रकारैः प्रायश्चित्तिविधयः क्रियन्ते । प्रायश्चित्तिनिमित्तस्य यादृशं स्वरूपं विद्यते तदनुसारं प्रायश्चित्तिविधिः अनुष्ठीयते । वैदिककाले शासनव्यवस्था सुचारूतया परिचलेदित्येतदर्थं सम्पूर्णपापानां निवारणार्थं जनाः प्रायश्चित्तं कुर्वन्ति स्म । तस्मिन् काले प्रायश्चित्तस्य मुख्योद्देश्यः आसीत् पापात् मुक्तिः तथा अनेन प्रजारक्षणं तथा शासनव्यवस्थायाः सञ्चालनम् । अतः धर्मसूत्रकालीन प्रायश्चित्तानाम् आदुनिकसन्दर्भे अति उपयोगिता वर्तते । यदि एतद्विधानं जनाः पालयेयुः तदा लोकतन्त्रात्मकव्यवस्था भेदभावरहिता भविष्यति । आधुनिककाले मनुष्याः सुरापाने स्व तथा स्वपरिवारस्य विनाशं कुर्वन्ति, इति महापापम् अस्ति इति धर्मसूत्र एव कथ्यते । तथा प्रायश्चित्तमाध्यमेन पापात् मुक्तिः भवति । अतः मानवप्रवृत्तीनां विचारं कृत्वैव प्रायश्चित्तिः निर्दिष्टा । यदि प्रायश्चित्त्यात्मकः विधिः क्रियते तर्हि अनिष्टं दूरीभवति इति निश्चयः तत्र विद्यते । तेन मानसिकी शुद्धिः अपि भवति । यदि दोषः भवेत् तर्हि मनः अशान्तं भवति परे प्रायश्चित्तिविधिना मनः शान्तं भवति । अतः प्रायश्चित्तविधानानाम् अस्माकं जीवने महत्वपूर्णं स्थानम् अस्ति ।