नर्मदादेवी (अमरकण्टकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


नर्मदादेवी (अमरकण्टकम्) एतत् पीठं भारतस्य मध्यप्रदेशस्य शहडोलमण्डले अस्ति ।

सम्पर्कः[सम्पादयतु]

समीपस्थं रेलनिस्थानकं ४० कि.मी. दूरे पेन्द्रा इत्यत्र अस्ति । शहडोल-उमारिया-जबल्पुर-रेवा-बिलासपुरनगरेभ्यः बस् यानानां सौकर्यम् अस्ति । समीपस्थं विमाननिस्थानकं २२८ की.मी.दूरे विद्यमानं जबल्पुरं तथा २३० की.मी.दूरे विद्यमानं रायपुरम् ।

वैशिष्ट्यम्[सम्पादयतु]

अस्मिन् स्थाने देव्याः दक्षिणनितम्बः पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी नर्मदादेवी नाम्ना पूज्यते । देव्या सह स्थितः भद्रेशः भद्रसेनः अथवा भैरवः इति च पूज्यते ।