नलचम्पूः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
त्रिविक्रमभट्टरचितः
नलचम्पूः उत दमयन्ती कथा  
300px
लेखकः त्रिविक्रमः भट्टः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः सभङ्गश्लेषात्मकशैली

नलचम्पूः ( /ˈnəxəmph/) (हिन्दी: नलचम्पू, आङ्ग्ल: Nalchampoo) इत्याख्यः ग्रन्थः दमयन्तीकथा इति नाम्नापि प्रख्यातः अस्ति । नलचम्पूग्रन्थस्य रचना त्रिविक्रमभट्टेन कृता आसीत् । अद्यावधौ उपलब्धेषु सर्वेषु चम्पूकाव्येषु नलचम्प्वाः अतिप्रसिद्धिः वर्तते । महाभारतस्य वनपर्वणि नलदमयन्त्योः कथायाः सुन्दरम् आख्यानं वर्तते । महाभारतस्य तस्य आख्यानस्य आधारेणैव परवर्तिनः कवयः स्वग्रन्थस्य रचनाञ्चक्रुः । यथा - हर्षः नैषधीयचरितं, लक्ष्मीधरः नलवर्णनकाव्यं, श्रीनिवासः दीक्षितः नैषधानन्दं च अरचयन् । कविवरः श्रीत्रिविक्रमः स्वस्य सभङ्गश्लेषात्मकशैल्यां महाभारतस्य वनपर्वणि उल्लितस्य नलदमयन्त्योः आख्यनम् एव चम्पूकाव्यत्वेन उपास्थापयत् । नलचम्पूः साहित्यिकदृष्ट्या सर्वोत्तमरचना तु अस्त्येव, तेन सह कथानकम् अपि अत्यन्तं लोकप्रियं वर्तते ।

'चम्पू' इत्युक्ते किम् ?[सम्पादयतु]

मुख्यलेखः : चम्पूकाव्यम्

चम्पू इत्ययं शब्दः स्त्रीप्रत्ययान्तः वर्तते । चुरादिगणस्य 'चपि' गत्यर्थकं धातोः 'उ' प्रत्यये सति चम्पयति चम्पतीति वा चम्पूः इत्यर्थकः 'चम्पू' शब्दः निष्पन्नः । परन्तु तेन अर्थेन चम्पू-शब्दस्य वास्तविकः अर्थः न ज्ञायते । गत्याः गमनं, ज्ञानं, प्राप्तिः, मोक्षः इत्येते अर्थाः अपि अङ्गीक्रियन्ते । अतः अत्र मोक्षसमानम् आनन्दं दातुं समर्था श्रव्यकाव्यस्य मिश्रशैली एव चम्पूः इति गृह्यते । हरिदासभट्टाचार्यस्य मतम् अस्ति यत्, "चमत्कृत्य पुनाति सहृदयान् विस्मिताकृत्य प्रसादयति इति चम्पूः" इति । अर्थात् गद्य-पद्ययोः युक्ता काव्यस्य चम्पू इत्याख्या विशिष्टाशैली, या पाठकानां हृदये चमत्कारम् उत्पाद्य विस्मियेन सह पवित्रताम् उत्पादयति ।

द्वादशशताब्दस्य जैनमतानुयायी हेमचन्द्राचार्याख्यः काव्यविद् स्वस्य काव्यानुशासनाख्ये ग्रन्थे उदलिखत् यत्, अङ्कः तथा उच्छवासः च चम्प्वाः अभिन्नाङ्गे स्तः इति । परन्तु कतिपयेषु चम्पूकाव्येषु अङ्कोच्छवासयोः अपेक्षया विभाजकत्वेन अध्यायस्य उपयोगः प्राप्यते । अतः एतावता चम्पूकाव्यस्य कापि स्थिरपरिभाषा न प्राप्यते ।

गद्यपद्यमयं श्रव्यं, सम्बन्धं बहुवर्णितम् । सालङ्कृतैः रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ।।

गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।

अर्थात् गद्यपद्यमिश्रितं, श्रव्यं, वर्णनप्रधानम्, अलङ्कारबहुलं, सरसं, प्रबन्धकाव्यम् एव चम्पूकाव्यत्वेन परिगण्यते । पञ्चतन्त्रसदृशाः रचनाः गद्यपद्यमये सत्यपि चम्पूकाव्यत्वेन न परिगण्यते । यतो हि तादृश्यः रचनाः प्रबन्धकाव्येषु न, अपि तु मुक्तकाव्येषु अन्तर्भवन्ति ।

नलचम्प्वां टीकाः[सम्पादयतु]

नलचम्प्वाम् अनेकैः आचार्यैः टीकाः लिखिताः । तेषु चण्डपाल-गुणविनायकमणि-दामोदरभट्ट-नागदेवसदृशानां कतिपयानां विदुषां टीकाः प्रसिद्धाः सन्ति । त्रयोदशेऽब्दे चण्डपालेन कृता "विषमपदप्रकाश"-टीका अति प्रसिद्धा वर्तते । वर्तमानकाले सुधा-संस्कृत-हिन्दी-टीका अपि प्रसिद्धा वर्तते ।

विभिन्नेषु विषयेषु चम्पूकाव्यानि[सम्पादयतु]

डॉ. छविनाथ त्रिपाठी-महोदयेन लिखितस्य 'चम्पूकाव्य का आलोचनात्मक एवम् ऐतिहासिक अध्ययन'-नामकस्य पुस्तकस्य अनुसारं २४५ प्रकाशिताप्रकाशितानि चम्पूकाव्यानि उपलब्धानि सन्ति । तानि चम्पूकाव्यानि विभिन्नानां विषयाणां, सम्प्रदायानां, मतानां, विषयाणां च अवम्बनं कृत्वा रचितानि सन्ति ।

१. रामायणाधारितानि चम्पूकाव्यानि

२. महाभाराताधारितानि चम्पूकाव्यानि

३. पुराणाधारितानि चम्पूकाव्यानि

४. जीवनवृत्ताधारितानि चम्पूकाव्यानि

५. यात्राप्रबन्धात्मकानि चम्पूकाव्यानि

६. महोत्सवाधारितानि चम्पूकाव्यानि

७. दार्शनिकचम्पूकाव्यानि

८. काल्पनिककथाधारितानि चम्पूकाव्यानि

नलचम्काव्यस्य रचयितुः परिचयः[सम्पादयतु]

त्रिविक्रमभट्टः नलचम्पूकाव्यस्य, मदालसाचम्पूकाव्यस्य च रचयिता । त्रिविक्रमभट्टः सिंहादित्य-नाम्ना अपि प्रसिद्धः वर्तते । उपलब्धेषु चम्पूकाव्येषु नलचम्प्वाः उत दमयन्तीकथायाः साहित्यिकदृष्ट्या प्रप्रथमं, महत्त्वपूर्णं च स्थानम् अस्ति । त्रिविक्रभट्टः प्रौढकविः आसीत् । अतः तस्य रचनायाम् अपि पौढशैल्याः दर्शनं भवति । क्रियापदानां वैविध्यं, शब्दरूपाणां विशिष्टप्रयोगाः तस्य रचनासु दृष्टुं शक्यन्ते ।

नलचम्प्वाः कथानकः[सम्पादयतु]

नलचम्प्वाः कथानकं महाभारताधारितं वर्तते । यद्यपि महाभारतस्य एतत् कथानकं स्वीकृत्य अनेकैः पण्डितैः स्वरचनाः कृताः, तथापि त्रिविक्रमेण भिन्नविचारशैल्या उपस्थापितं नलचम्पूकाव्यं विशिष्टं मन्यते । नलचम्प्वाः यस्मिन् प्रसङ्गे वियोगः भवति, सः प्रसङ्गः अति दुःखदः इति मन्यते । परन्तु त्रिविक्रमभट्टस्य विशिष्टवर्णनशैल्या सः दुःखान्तः अपि सुखान्ते परिणतः ।

प्रथमोच्छवासः[सम्पादयतु]

उच्छवासेऽस्मिन् त्रिविक्रमभट्टः भगवतः शिवस्य, आदिकवीनां वाग्विलासस्य च प्रशंसां करोति । सः जगतः उद्भवस्रोतः कामदेवं, युवतीनां नेत्रविभ्रमं च सर्वोत्कृष्टं परिगणयति । सरस्वतीनद्याः प्रवाहं नमस्कृत्य सः सर्वेभ्यः परामर्शं यच्छति यत्, ब्राह्मणस्य सभायै, दुष्टानां सभायै दूरात् नमस्कारः करणीयः इति [१] । ततः कविः स्वस्य उत्कृष्टवाच्शक्तेः प्रयोगं कृत्वा रामयण-महाभारतयोः कथानां प्रशंसां कुर्वन् वेदव्यासं, वाल्मीकिं च प्रणमति । गुणाढ्यनामकस्य कवेः प्रशंसां कृत्वा त्रिविक्रमः भट्टः शाण्डिल्यवंशस्य, आर्यावर्तदेशस्य च वर्णनं करोति । आर्यावर्तदेशस्य निषधनामकस्य जनपदस्य निषधा-नगरस्य वर्णनं करोति । तस्य नगरस्य तुलनां त्रिलोकैः सह कृत्वा त्रिविक्रमः नगरस्वामिनः नलस्य वर्णनं उपक्रमते । योग्यदण्डयुक्तः जानकीनन्दनः यथा प्रजायै सन्तोषं यच्छति स्म, तथैव नलः अपि प्रजायै सन्तोषं यच्छति इति त्रिविक्रमः कथयति [२] । प्रथमोल्लासस्य ३३ श्लोकतः ४३ श्लोकपर्यन्तं नलस्य वर्णनं कृतवान् त्रिविक्रमः । नलस्य मन्त्रिणः श्रुतशीलस्य वर्णनम् एवं नलस्य व्यावहारिकजीवनस्य वर्णनम् अकरोत् त्रिविक्रमः । ततः वर्षायाः वर्णनं कृत्वा सेनापतेः निवेदनेन राजा नलः आखेटाय वनं प्रविश्य यमदूतवत् वनपशुषु भयोत्पादनस्य वर्णनम् अकरोत् त्रिविक्रमः । राघवः यथा राक्षसेन्द्रं रावणम् अजयत, तथैव चिरकालं यावत् आखेटे पराक्रमं प्रदर्श्य सम्राट् नलः शूकरनायकम् अजयत [३]

आखेटश्रमेण क्लान्तः राजा एकस्य सालवृक्षस्य अधः विश्रामं करोति । तस्मिन्नेव काले एकः दुर्बलः पथिकः भिक्षापात्रं हस्ते धृत्वा राजानम् उपस्थितः भवति । राज्ञः असामान्यं सौन्दर्यं दृष्ट्वा सः पथिकः चिन्तयति यत्, एषः कोऽपि महापुरुषः वर्तते इति । ततः "कामविजयी भवतां कल्याणं भूयात्" इति सः राजानं सम्बोद्ध्य अवदत् [४] । पथिकस्य अभिवादं श्रुत्वा राजा साश्चर्यं शिरः उन्नीय पथिकस्य अभिनन्दनं कुर्वन् प्रश्नम् अकरोत्, "तीर्थयात्रिक ! ‍कुतः आगतः, क्व च गन्तव्यम् ?" इति । ततः सः अग्रे अवदत्, "उपविश । किञ्चित् विश्रम्य कामपि किंवदन्तीं श्रावय" इति । राज्ञः निवेदनेन पथिकः दक्षिणदिशायाः विख्यातदेशस्य विदर्भस्य, तस्य देशस्य एकस्याः युवत्याः च कथाम् आरभत ।

दिक्षणदिशायां स्त्रीपुरुषरत्नैः परिपूर्णं विदर्भाख्यम् एकं राज्यं वर्तते । तत्र शूलपाणिना शिवेन अलङ्कृतः "श्रीशैल"-पर्वतः वर्तते । तस्य पर्वतस्य तले गोदावरी नदी प्रवहति । तस्याः गोदावरीनद्याः तटे पुष्पैः सम्पन्नं सुरासुरपूजितस्य कार्तिकेयस्य मन्दिरं विद्यते । अहं तत्र दर्शनार्थं गतवान् आसम् । ततः यदा अहं प्रत्यागच्छन् आसम्, तदा विश्रान्त्यै अहम् एकस्य वटवृक्षस्य अधः आश्रयं स्व्यकरवम् इति पथिकः अवदत् । सः अग्रे अवदत्, अहं वटवृक्षे विश्रान्तिरतः आसम्, तदैव मया एकम् आश्चर्ययुक्तं दृश्यं दृष्टम् । यस्मिन् वटवृक्षे अहं स्थितः आसम्, तस्मिन् वृक्ष एव यात्रया त्रस्ता एका सुन्दरी राजकुमारी प्रौढसखिभिः सह विश्रान्त्यै अतिष्ठत् । चामराणां वायुना राजकुमार्याः अलकं (curl, बालकी लट) नृत्यं करोति स्म । अर्धनेत्रे निमील्य गन्धर्वाणां कण्ठकन्दराभ्यः निर्गतं मधुरसङ्गीतं ध्यानेन सा शृण्वती आसीत् । सम्प्रति यथा भवान् मां दक्षिणदिशायाः कथां पृच्छति, तथैव सा अपि उत्तरदिशायाः पथिकं किमपि श्रावयितुम् अकथत् । यावत् सा तेन पथिकेन सह चर्चां कुर्वती आसीत्, तावत् अहमपि तत्र स्थित्वा तयोः चर्चां शृण्वन् आसम् । सः पथिकः उत्तरदिशायाः एकस्य सम्राजः प्रशस्तिम् अश्रावयत् । सः उत्तरदिशायाः पथिकः अकथयत्, ते नेत्रे धन्ये स्तः, ये तस्य कामविजयिनः नृपतेः मुखस्य दर्शनेन तृप्ते भवतः । तस्य मुखस्य रचनायाः कारणेन विधेः रचनायाः सङ्कलनं सफलम् अभवत् इति । सः उत्तरदिशायाः पथिकः कस्य वर्णनं कुर्वन् आसीत् इति अहं न जाने परन्तु तत् वर्णनं श्रुत्वा सा अनिन्द्यसुन्दरी पुलकिता अभवत् । आश्चर्यचकितः, निश्चेतः अहमपि तां सुन्दरीं नापृच्छम् यत्, सा का अस्ति, कुतश्च आगवती इति । तस्याः गमनानन्तरम् अपि ग्रहग्रस्तोऽहं दीर्घकालं यावत् मूर्छितावस्थायां तस्मिन् वटवृक्षे निश्चेतः स्थितः आसम् । यथा तस्याः सुन्दरराजकुमार्याः दर्शनेन मम दक्षिणस्य यात्रा सफला अभवत्, तथैव भवतां दर्शनेन अहं कृतकृत्यः अभवम् । कृपया मह्यं अग्रे गन्तुम् आज्ञां यच्छतु इति उक्त्वा पथिकः तूष्णीम् अतिष्ठत् ।

पथिकस्य वचनानि श्रुत्वा राजा चिन्तनमग्नः अभवत् – निश्चयेन सः प्रदेशः स्त्रीरत्नैः परिपूर्णः अस्ति । एषः पथिकोऽपि सत्यवादी अस्ति । यतो हि विधातुः व्यापार एव विचित्ररचनयाः वर्तते । किन्त्वाश्चर्यम् अस्ति यत्, तस्याः सुन्दर्याः रूपवैभवम् इतोऽपि अहं नापश्यम्, तथापि श्रवणेनैव "कान्ता" इति शब्देन परिपूर्णस्य मम मनसः मनोबलम् अनुन्नतं (हतमनोबलता) भवदस्ति [५] । मया नयनरूप्यञ्जल्या तस्याः रूपसुधायाः पौनःपुन्येन पानम् अपि न कृतम् अस्ति । जनानां दुर्लभवस्तुनि यः अनुरागः भवति, सः विना ज्वरेण अस्वस्थतां, विना दुर्गत्या दुःस्थिरतां, विना विषपानेन मूर्छां, भयेन विना कम्पनम्, आत्मसमर्पणेन विना परवशतां, वृद्धावस्थां विना अज्ञानतां च जनयति । एवं सज्जनैः सह अपि दुर्जनवत् व्यवहारकर्त्रे कामदेवाय नमः । एतादृशैः विचारैः ग्रस्तः राजा स्वाभूषणानि अवतार्य तस्मै पथिकाय अयच्छत् [६] । ततः राजा तस्मै पथिकाय गन्तव्यं प्रति यात्रायै अनुमतिम् अयच्छत् । सः स्वयम् अपि व्याधादिभिः स्वराजभवनं प्रति यात्राम् आरभत । परन्तु तस्मिन्नेव काले तस्याः मनसि तस्यै सुन्दर्यै कामाग्निः अज्वलत् । तेन पथिकेन तस्याः सुन्दर्याः विषये यत् वर्णनं कृतम् आसीत्, तद् वर्णनं पथिकः पौनःपुन्येन कुर्वन् अस्ति इति तेन आमार्गं अनुभूतम् [७]

सूक्तयः[सम्पादयतु]

१. अगाधान्तः परिस्पन्दं विबुधानन्दमन्दिराम् ।। ३ ।।

२. करोति कस्य नाह्लादं कथा कान्तेव भारती ।। १३ ।।

३. काचोऽप्युच्चैर्मणीयते ।। ८ ।।

४. कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ।। ६१ ।।

५. ते धन्या न्यपतन्येषां कन्दर्पसदृशे दृशः ।। ५९ ।।

६. नैको रसः कवेः ।। १६ ।।

७. वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम् ।। १८ ।।

८. महनीयाः महोनुभावाः भवन्ति ।। युवजनोन्मादिनी यौवनश्रीः ।। ५७ ।।

९. सर्वं सहाः सूरयः ।। १५ ।।

१०. सौख्यस्यायतनं भवन्ति रसिकाः कन्दर्पशास्त्रं स्त्रियः ।। ५५ ।।

द्वितीयोच्छवासः[सम्पादयतु]

वर्षर्तोः कालः समाप्तः । शरदर्तोः आगमनेन स्वागताय भ्रमराः, हंसाः, मयूराः च गायनम् आरभन्त । राजा यदा समीपवर्तिवने विचरणं कुर्वन् आसीत्, तदा सः किन्नरयुगलयोः शिष्टान् त्रीन् श्लोकान् अशृणोत् [८] । मधुरतानपूरस्य तरङ्गैः रङ्गितान् तान् श्लोकान् श्रुत्वा सः मनोरमम् उद्यानं प्रति चलनम् आरभत । यदा राजा उद्यानं सम्प्रापत्, तदा अत्यन्तकौतुकेन भङ्गश्लेषोक्तिकुशलतया वनपालिका वनविनोदस्य स्थानानि राजानम् अदर्शयत् । सा अवदत्, देव ! देवराजेन्द्रम् अपि आनन्दितं कर्तुं समर्थम् एतत् उद्यानम् अति विशिष्टम् अस्ति । एतस्य कियन्तीः विशेषताः कथयामि ? विकसितेषु पुष्पेषु भ्रमन्तः कृष्णाः भ्रमराः, ध्वनिना सह नृत्यन्तः मयूराः उद्यानस्य सौन्दर्यं वर्धयन्तः सन्ति । एतस्मिन् क्रीडापर्वते मृगसमूहे स्थित्वा किन्नर्यः मधुरगीतानि गायन्ति । तानि गीतानि श्रुत्वा मनः प्रसन्नं भवति । विभिन्नैः उदाहरणैः, उक्तिवैविध्यैश्च वनपालिका उद्यानविषये राजानम् अबोधयत् । वनपालिकायाः उक्तिवैविध्येन प्रसन्नः राजा स्वशरीरस्य आभूषणानि तस्यै पुरस्कारत्वेन अयच्छत् । ततः सर्वर्तुनिवास-आख्ये वने भ्रमणम् आरभत । तस्मिन् एव समये तत्र श्वेतकलमसदृशाः राजहंसाः राजानं परितः इतस्ततः स्वच्छन्दं क्रीडाम् आरभन्त । इतस्ततः धावन्तम् एकं राजहंसं राजा सहसा स्वहस्ते अगृह्णात् । राज्ञः हस्ते स्थितः हंसः स्वस्तिवाचनेन सह राज्ञः स्तुतिम् आरभत । हंसस्य निर्भीकतां, स्वरमाधुर्यं च दृष्ट्वा राजा अचिन्तयत्, निश्चयेन एषः हंसः कस्यचित् देवस्य अवतारः वर्तते इति । अतः सः हंसस्य स्वागतं कृत्वा कुशलक्षेमम् अपृच्छत् । तस्मिन्नेव काले राज्ञः हस्ते स्थितं हंसं दृष्ट्वा तस्य पत्नी हंसी राजानम् उद्दिश्य मधुरस्वरेण अवदत्, हे देव ! मुक्ताहारस्य सदृशौ उज्वलपक्षौ यस्य स्तः, वृक्षेषु एकान्ते निवासकर्तारं, निरपराधं तं हंसं भवान् किमर्थं स्वहस्तपाशे अबध्नात् ? हंसपत्न्याः प्रश्नस्य उत्तरं यच्छन् राजा श्लिष्टोक्तीनाम् उपयोगम् अकरोत् । राजा विभिन्नोदाहरणैः हंसीम् अकथयत् यत्, हंसः किमर्थं बध्यते ? राज्ञः अतितर्केण त्रस्ता हंसी राजानं "हे पक्षिविलासिन्" इति सम्बोधयति । तेन हंस्याः क्रोधः सहसा प्रत्यक्षः अभवत् । हंस्याः क्रोधं दृष्ट्वा हंसः राजानम् अकथयत्, हे चतुरश्रेष्ठ ! हे धूर्तनिभचर्चाकुशल [९] ! चतुरताचार्य ! मम पत्नीं क्रुद्धां मा करोतु । यदा हंसः राज्ञा सह चर्चां कुर्वन् आसीत्, तदैव आकाशवाणी अभवत्, "हे राजन् ! हे राजीवपत्राक्ष ! एनं हंसं शीघ्रं हि विमुच्यताम् । दमयन्त्याः हृदि भवन्तं प्रति आकर्षणं जनयितुम् एषः हंसः दूतत्वेन भवतां साहाय्यं करिष्यति" इति [१०] । आकाशवाणीं श्रुत्वा राजा एकस्य वृक्षस्य अधः अतिष्ठत् । ततः हंसम् अकथयत्, "हे मित्र ! सज्जनानां मित्रता तु सप्तचरणं यावत् सह चलनेनैव भवति [११] । मैत्र्यै आवश्यकाः सत्पुरुषसदृशाः सर्वेऽपि गुणाः भवति विद्यमानाः सन्ति । अतः भवान् निःशङ्कं कथयतु यत्, का सा दमयन्ती ? " इति । दमयन्त्याः नाम श्रुत्वा राज्ञः मनसि उत्कण्ठायुक्तजिज्ञासानां समुद्रः आसीत् । राज्ञः मनःस्थितिं ज्ञात्वा हंसः सौन्दर्यलतायाः दमयन्त्याः वर्णनम् आरभत ।

दक्षिणदिशायां विदर्भमण्डलस्य अलङ्कारत्वेन प्रसिद्धं कुण्डिन-नामकं नगरं वर्तते । तस्य नगरस्य सीमायां गङ्गायाः उपहासं कुर्वती पुण्यसलिला पयोष्णी, वरदा-नदी प्रवहति । तस्य नगरस्य राजा भीमः वर्तते । तस्य पटराज्ञी प्रियङ्गुमञ्जरी अतिरूपवती अस्ति । चतुसॄषु दिक्षु तस्याः सौन्दर्यस्य ख्यातिः वर्तते । परन्तु तयोः एकम् अपि अपत्यं नासीत् । एकदा तौ दम्पती वरदा-नद्याः पवित्रतटे विहारं कुर्वन्तौ आस्ताम् । तस्मिन्नेव काले तौ दम्पती पृष्ठभागे स्वपुत्रं संस्थाप्य वहन्तीं वानरीम् अपश्यत् । तां वानरीं दृष्ट्वा तयोः दम्पत्योः मानसपटले स्वस्य सन्तानहीनत्वस्य संस्मरणम् उदभवत् । तौ दम्पती सन्तानप्राप्त्यै अम्बिकापतेः महेश्वरस्य आराधनायाः विचारम् अकुरुताम् । तस्मिन्नेव काले भगवान् सूर्यः पश्चिमदिग्रूपिणीं नायिकां चुम्बनं कर्तुं पश्चिमदिशां प्रति प्रस्थानं कुर्वन् आसीत् । तेन कामदेवस्य मित्रस्य चन्द्रमसः आह्लादकारिणः किरणाः चतुसॄषु दिक्षु व्याप्ताः अभूवन् । भगवतः शिवस्य चरणयुगलयोः ध्यानं कुर्वती राज्ञी प्रियङ्गुमञ्जरी पवित्रकुशशय्यां गाढनिद्रायाः अधीना अभवत् ।

सूक्तयः[सम्पादयतु]

१. इह स्थितः सर्वजगज्जयया धनुः भ्रमं पुष्पशरः करोति ।। ५ ।।

२. कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ।। २२ ।।

३. केदारेषु विनिःस्पृहाः ।। २ ।।

४. कुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ।। ३४ ।।

५. सान्द्राचन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ।। ३६ ।।

६. संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः ।। २१ ।।

७. शुभ्रान् विभ्रमकारिणः शशिकरान् पश्यन्न को मुह्यति ।। ३७ ।।

तृतीयोच्छवासः[सम्पादयतु]

उषःकाले राज्ञी प्रियङ्गुमञ्जरी स्वप्नम् अपश्यत् । स्वप्ने भगवान् शिवः भवान्या सह चन्द्रमण्डलात् अवतीर्य अवदत्, "प्रियङ्गुमञ्जरि ! एतां मञ्जरीं स्वीकुरु । मा भैषीः । मम आज्ञया प्रातःकाले दमनक-नामकः महामुनिः आगमिष्यति । स एव त्वयि अनुग्रहं करिष्यति" इति । अपि च महादेवः सुगन्धयुक्तां पारिजातमञ्जरीम् अपि तस्यै अयच्छत् । राज्ञी अपि स्वप्ने तां सहर्षम् अङ्ग्यकरोत् । तस्मिन्नेव काले मङ्गलवाद्यानां ध्वननम् आरब्धम् । मङ्गलवाद्यानां ध्वनिं शृण्वती राज्ञी जागरिता अभवत् । ततः सूर्यनमस्कारं कृत्वा नित्यकार्येषु व्यस्ता अभवत् । अपरत्र मङ्गलवाद्यानां ध्वनिं शृण्वन् राजा अपि नित्यकार्यं समाप्य राज्ञ्याः प्रकोष्टं प्रविष्टः । राज्ञी तु महादेवस्य वचनेन अतिप्रसन्ना आसीत् । राजा राज्ञीं प्रसन्नतायाः कारणम् अपृच्छत् । राज्ञ्याः महादेवस्य वचनसम्बद्धस्य स्वप्नस्य वृत्तान्तं श्रृत्वा राजा अपि समानस्वप्नस्य विषये अकथयत् । ततः तौ दम्पती राजपुरोहितं समानस्वप्नस्य फलम् अपृच्छताम् । राजपुरोहितेन समानस्वप्नस्य फलम् उक्तं, ततः राज्ञः बहुधा प्रशंसा कृता । तस्मिन्नेव काले एकस्य तेजस्विनः मुनेः अर्कमण्डलात् अवतरणम् अभवत् । राजा मुनये नमसकरोत् । मुनिः अवदत्, "चिरञ्जीविन् ! अहं शिवस्य आज्ञया अत्र उपस्थितः । भवान् शीघ्रं हि सागरजलतरङ्गमालायै अलङ्कृतां, सर्वप्रशंसनीयाम्, असामान्यां कन्यां प्राप्स्यति" इति ।

पुत्रार्थिनी प्रियङ्गुमञ्जरी कन्यायाः वरदानं श्रुत्वा अतीव दुःखिता अभवत् । ततः सा श्लेषात्मकैः वचनैः मुनिं कटुवचनानि अकथयत् । परन्तु कर्मानुसारम् एव फलप्राप्तिः भवति [१२] इति मुनिः अबोधयत् । मुनेः वचनं श्रुत्वा अपराधभावम् अनुभवन्ती राज्ञी मुनये स्वालङ्काराणि दातुम् उद्युक्ता अभवत् । परन्तु मम कृते एतत् सर्वं व्यर्थम् अस्ति इति उक्त्वा मुनिः अन्तर्हितः अभवत् । कालक्रमेण राज्ञी प्रियङ्गुमञ्जरी गर्भम् अधरत । गर्भस्थस्य शिशोः लावण्यं राज्ञ्याः मुखमण्डले अपि दृश्यमानम् अभवत् । ततः सा एकां कन्याम् अजनयत् । दमनकमुनेः वरदानेन पुत्रीरत्नस्य प्राप्तिः अभवत् इति विचिन्त्य राजा तस्याः नामकरणं "दमयन्ती" इति अकरोत् । शैशवोचिताः बालक्रीडाः कुर्वती सा बालिका जनकौ आश्चर्यमग्नौ अकरोत् । स्वल्पेकाले एव सा वीणावादने, शलाकालेखने, प्रबन्धालोचने, चिकित्साविज्ञाने च प्रवीणा अभवत् । यौवनकाले तस्याः सौन्दर्यं स्वर्णमयिशिलावत् उल्लसितम् अभवत् [१३]

दमयन्त्याः योवनस्य स्वल्पं वर्णनं श्रुत्वा राजा नलः प्रसन्नचित्तेन हंसम् अपृच्छत्, "हे पक्षिराज ‍! तस्याः यौवनस्य वृत्तान्तं पुनः कथ्यताम्" इति । राज्ञः वचनं श्रुत्वा हंसः प्रत्यवदत्, "हे राजन् ! यस्याः सर्वाणि अङ्गानि देवमयानि सन्ति, तस्याः वर्णनम् अहमेकाकी पक्षी कथं कर्तुं शक्नोमि ? तस्याः कटाक्षयुक्ता कमनीया दृष्टिः, कोमलौ हस्तचरणौ, अमृतसमानं कान्तियुक्तं हास्यं, अरुणवर्णीयौ ओष्ठौ, कान्तमन्तः दन्ताः, अतिकृष्णाः केशाः, व्युत्पन्ना वाणी, गौरवर्णा कान्तिः, विशालौ स्तनौ, विस्तृता जघनस्थली, सुगन्धितः निःश्वासः, सुगन्धयुक्तः श्वेदः, शोभासम्पन्नं शरीरं वर्तते । यः मनुष्यः तां प्राप्स्यति, सः पुण्यपुरुषः, भगवतः शिवस्य चरणकमलयोः आराधकः च प्रणामतुल्यः वर्तते" [१४] इति । दमयन्त्याः यौवनस्य उक्तं वर्णनं कृत्वा हंसः मौनी अभवत् ।

सूक्तयः[सम्पादयतु]

१. केनेन्दुः शिशिरीकृतः ।। १४ ।।

२. चित्ते वाचि क्रियायां च साधूनामेकरूपता ।। १५ ।।

३. प्रायः प्राणिनामीशः शम्भुरेव शुभाशुभकर्मालोक्य तुलाधर इव तुलितं फलमुपकल्पयति ।।

४. श्लाघ्यः शिल्पपरिश्रमः ।। २६ ।।

चतुर्थोच्छवासः[सम्पादयतु]

हंसात् दमयन्त्याः वर्णनं श्रुत्वा राजा नलः साश्चर्यं चिन्तामग्नः अभवत् । तेन अनुमानं कृतं यत्, पुरा सः पथिकः यस्याः कन्यायाः विषये कथयन् आसीत्, एषा दमयन्ती सा एवास्ति इति । मम श्रवणेन्द्रियं पौनःपुन्येन तस्याः वार्तारूपिसुधायाः पानं कर्तुं लालायितम् अस्ति । सम्प्रति कामदेवः अपि स्वधनुर्भिः स्वेच्छया स्वकार्यं करोति । परन्तु अहं विचलितः न भविष्यामि । यतः धैर्यम् एव तेजस्विपुरुषाणां धनं भवति [१५] । ततः स्मितवदनेन राजा अवदत्, "भवतु । यत् श्रवणीयम् आसीत्, तत् अहं अशृणवम् । अधुना नित्यक्रियायाः समयः अपि अभवत् । अतः वयं समायोचिते कार्ये संल्लग्नौ भवामः । भवान् मनोरमे क्रीडासरोवरे विहारं करोतु । हे वनपालिके ! यदा हंसराजः कमलक्रीडायाः निवृत्तः भवति, तदा तं मम समीपम् आनयतु" इति राजा आदिशत् ।

राज्ञः गमनान्तरं हंसः स्वसमुदायेन सह विदर्भदेशस्य अलङ्कारत्वेन प्रसिद्धं कुण्डिन-नगरम् अगच्छत् । ततः हंसः नगरस्य राजभवनस्य कन्यान्तःपुरस्य उद्यानयुक्ते सरोवरे विहारं प्रारभत । हंससमूहस्य आगमनस्य समाचारान् कौतुहलयुक्ताः कन्यान्तःपुरस्य कन्याः शीघ्रं हि दमयन्त्यै अयच्छन् । हंसं ग्रहीतुं दमयन्ती ताभ्यः आदेशम् अयच्छत् । सा स्वयम् अपि हंसं ग्रहीतुं सरोवरं प्रापत् । चञ्चलकङ्कणस्य मनोरमध्वनियुक्तमणिबन्धयुक्ताभ्यां हस्ताभ्यां दमयन्ती हंसम् अगृह्णत् । दमयन्त्या गृहीतः हंसः अलौकिकसौन्दर्यस्य स्वामिन्यै दमयन्त्यै दीर्घायुषः आशीर्वचनम् अयच्छत् । द्रष्टव्यस्वरूपिणं, विशालनयनस्वामिनं राजानं नलं पतित्वेन प्राप्नुयात् इत्यपि आशीर्वचनम् अयच्छत् ।

हंसस्य संस्कृतवाणीं श्रुत्वा साश्चर्यं दमयन्ती चिन्तनमग्ना अभवत् । कदाचित् एषः नलः स एव अस्ति, यस्य विषये गौरमहोत्सवं गमनकाले पथिकः वर्णनम् अकरोत् इत्यचिन्तयत् दमयन्ती । ततः दमयन्ती कोऽयं नलः इति प्रश्नम् अकरोत् । हंसः उदतरत्, निषध-देशस्य राजा वीरसेनः पुत्रकामनया अम्बिकापतेः उपासनाम् अकरोत् । कालान्तरे राज्ञ्याः गर्भात् सूर्यमण्डलसदृशस्य कान्तिमतः पुत्ररत्नस्य जन्म अभवत् । सूतकदिनेषु व्यतीतेषु सत्सु ब्राह्मणाः "नलः" इति तस्य नामकरणम् अकुर्वन् । क्रमशः चूडाकरणादिसंस्कारेषु सम्पन्नेषु सः अनायासम् एव समस्तविद्यायां पारङ्गतः अभवत् । राजपुत्रस्य समान एव शीलादिगुणैर्युक्तः सालङ्कायनस्य पुत्रः श्रुतशीलः तस्य मन्त्री, मित्रं चास्ति ।

एकदा राजा वीरसेनः मन्त्रिणा सालङ्कायनेन सह राज्यसभायाम् आसीत् । तस्मिन्नेव काले नलः सभां गत्वा पित्रे प्रणामम् अकरोत्, परन्तु सालङ्कायनाय प्रणामं नाकरोत् । राजपुत्रस्य अविनयं दृष्ट्वा सालङ्कायनः प्रेम्णा कठोरवचनानि अकथयत् । हे राजकुमार ! राजहंसो भूत्वापि अहङ्कारविमूढात्मा मा भवतु । सुविषममेधवर्त्याम्, अस्थिरविद्युतवत् विलासरूपितरुणावस्थायां सम्प्राप्य विनयं मा विस्मरतु । जडतां त्यक्त्वा स्वभावेन मधुरो भवतु । स्त्रीणां, श्रियः च विश्वासं मा करोतु [१६] । आयुष्मन् ! लोभः न करणीयः । वार्धक्ये प्राप्ते सति गुणेभ्यः द्वेषः न करणीयः । वत्स ! इत्थं स्वच्छन्दत्वं मनसि मा पालयतु । वीरसेनः अपि सालङ्कायनस्य समर्थनम् अकरोत् ।

राजा वीरसेनः शुभमूहूर्तस्य ब्राह्मणैः सह चर्चां कृत्वा अनुकूले समये नलस्य राज्याभिषेकम् अकरोत् । सालङ्कायनेन नलः कनकदण्डयुक्तं राजछत्रम् अधारयत् । सर्वैः आशीर्वचनानि प्रदत्तानि । किञ्चित् समये व्यतीते सति एकदा राजा युवराजं नलम् अकथयत्, आयुष्मन् ! पत्नीरहितः अहं वानप्रस्थाश्रमं प्रविष्टः । अहं वनं प्रति प्रस्थानं करोमि । राज्यं त्यक्त्वा यदा राजा अगच्छत्, तदा प्रजाः करुणक्रन्दनम् अकुर्वन् । युवराजः नलः अपि अतिविलापम् अकरोत् ।

नलस्य विषये वृत्तान्तं श्रुत्वा दमयन्ती अचिन्तयत्, अहो ! महानुभावः स्नेही, सुहृदयी च प्रतीयते । अतः सर्वथा प्रीतिपात्रः भवेदेव इति । ततः सा पुनः प्रश्नम् अकरोत्, हे राजहंस ! पश्चात् किमभवत् ? इति । राजहंसः प्रत्युदतरत्, हे सुन्दरोदरि ! सः पितृविरहं विस्मर्तुं स्वसेवकवृन्दैः सह भगवतः शिवस्य चरणकलयोः ध्यानं कुर्वन् एव स्वदिनानि यापयन् अस्ति ।

सूक्तयः[सम्पादयतु]

१. अनार्यसङ्गका स्त्री श्रीश्च कं न प्रतारयति ।।

२. अविनीतोऽग्निरिव दहति ।।

३. अविभवः पुरुषः मेष इव कम्बलस्योपयोगं गच्छति ।।

४. तृप्यते केन वानन्दकन्दे कान्ताकथानके ।। २ ।।

५. धैर्यं धामवतां धनम् ।। ३ ।।

६. मुखरतां न शंसन्ति साधवः ।।

पञ्चमोच्छासः[सम्पादयतु]

यदा राजहंसः निषधराजस्य वर्णनं कृत्वा मौनः अभवत्, तदा दमयन्त्याः हृदये कथाश्रवणेन स्वाभाविकानुरागः समुदभवत् । दमयन्त्याः मन्मथव्यथां दृष्ट्वा परिहासशीला-नामिका सखी कटाक्षं कुर्वती राजहंसम् अकथयत्, महानुभाव ! भवान् यां कथाम् अकथयत्, तया अस्माकं तृप्तिः एव न भवति । कृपया पुनः एतां कथां श्रावयतु इति । राजहंसः प्रत्युदतरत्, सुन्दरि ! सर्वासां स्त्रीणां हृदयप्रासादे प्रतिष्ठितस्य नलस्य अहं कियन्तीः प्रशंसाः करोमि [१७] ? संसारेऽस्मिन् द्वे एव रत्नौ समुत्पनौ स्तः । पुरुषरत्नेषु नलः, नारीरत्नेषु दमयन्ती च । अतः हे कुरङ्गशावकनयने ! त्वं तस्मै पृथ्वीपतये योग्या असि इति अहम् अवदम् ।

भवतु । अधुना अहं गच्छामि । तव कल्याणं भूयात् । त्वं कमपि योग्यं दूतं तत्र प्रेषयसि चेत्, उचितम् । गन्तुम् उद्यतं हंसं परिहासशीला अवदत्, हे महानुभाव ! यथा एतस्याः हृदि भवान् अनुरागालापेन प्रेमाङ्कुरणम् अकरोत्, तथैव भवता तस्य हृदि उत्सुकता जननीया । सख्याः वचनं श्रुत्वा दमयन्ती अवदत्, सखि ! अकारणमेव बन्धवे किमर्थं निवेदनं करणीयम् ? हे कल्याणबन्धो, मित्र ! पुनः आगच्छतु । स्वस्याः प्रियमुक्तावल्याः हारं निष्कास्य हंसस्य कण्ठे संस्थाप्य दयमन्ती अवदत्, एषा हारलता भवतः प्रियाय (नलाय) उपहारम् अस्ति । तथा एषा माला मम स्मृत्या सूत्रधारत्वेन कार्यं करिष्यति इति । हंसः हास्येन सह अवदत्, एतया मालया तस्य समक्षं तव वर्णनस्य यं भारं त्वं मह्यं दास्यसि, सः सहर्षम् अहम् अङ्गीकरोमि । हंसस्य गमने सति दमयन्ती नलस्य चिन्तने भोजनं, क्रीडां, शयनम् इत्यादि सर्वं विस्मृतवती ।

सः राजहंसः समूहेन सह निषध-नगरम् अगच्छत् । क्रीडातडागे हंसानां पुनरागमनस्य समाचारान् वनपालिका राजानम् अकथयत् । राज्ञः आदेशं प्राप्तवती वनपालिका हंसेन सह राजप्रासादं प्रविष्टा । ततः हंसः दमयन्त्या दत्तां मुक्तावलीं राज्ञे समर्पयति । दीर्घकालं यावत् हंसराजानौ वार्तालापम् अकुरुताम् । ततः हंसः स्वसमूहेन सह राजप्रासादात् प्रस्थानम् अकरोत् । परन्तु राज्ञः स्थितिः अति कष्टकरा अभवत् । रसाः तस्मै पीडां यच्छन्ति स्म, वृश्चिकेन दंशितः स्यात्, तथा राजा सर्वदा असह्यपीडाम् अनुभवति स्म । नृपः कुत्रापि किञ्चिदपि शान्तिं न प्राप्नोति स्म । अपरत्र यदाप्रभृति (जब से) हंसः दमयन्तीं नलस्य विषये अकथयत्, तदाप्रभृति (तब से) दमयन्ती अपि कामव्यथया पीडिता आसीत् । नृत्यादि दमयन्त्यै न रोचते स्म । कर्पूरजलसिञ्चितैः कमलदलैः निर्मिता शय्या अपि दमयन्त्यै निद्रासुखं दातुम् असमर्था आसीत् [१८] । उभौ अन्योन्यस्य गुणचिन्तने एव रतौ आस्ताम् ।

विदर्भराजः दमयन्त्याः तरुणावस्थां दृष्ट्वा तस्याः स्वयंवरस्य निर्णयं करोति । मन्त्रिभिः सह परामर्शं कृत्वा सः सर्वेभ्यः राजभ्यः सूचनां दातुं चतुसॄषु दिक्षु ब्राह्मणान् दूतत्वेन प्रेषयति । स्वयं दमयन्ती एकस्मै वृद्धब्राह्मणाय सूचनां यच्छति यत्, निषधाधिपतिं नलम् अपि स्वयंवरे उपस्थातुं प्रेरयतु इति । भीमसेनस्य निमन्त्रणं सम्प्राप्य राजा नलः स्वयंवरं गन्तुम् उद्युक्तः अभवत् । अनेके गिरिग्रामान्, सरितः, वनानि उल्लङ्घ्य राजा नलः विदर्भदेशं प्रापत् । विन्ध्याचलस्य रमणीयतां दृष्ट्वा नर्मदानद्याः मनोरमतटे सः विश्रान्तिं स्वीकरोति ।

यत्र सेनायाः विश्रान्तिस्थलम् आसीत्, ततः श्रुतशीलः किञ्चित् दूरे आकाशात् अवतरन्तं पुरुषम् अपश्यत् । सः नलं समाचारम् अश्रावयत् यत्, इन्द्रादयः लोकपालाः आगच्छन्तः सन्ति इति । ततः पूर्वदिशातः देवराजेन्द्रस्य आगमनम् अभवत् । विदर्भराजस्य पुत्र्याः दमयन्त्याः स्वयंवरप्रसङ्गे उपस्थातुं गच्छन्तः स्मः इति इन्द्रस्य आदेशेन कुबेरः नलम् अकथयत् । इन्द्रः नलम् अकथयत्, त्वं कार्योचिते कथने चतुरः असि । अतः त्वम् अस्माकं दूतत्वेन तत्र गच्छ । त्वम् अन्तःपुरस्य एकान्ते विदर्भराजस्य दुहितायाः समीपे गन्तुं शक्ष्यसि । यतो हि कोऽपि त्वं द्रष्टुं न शक्ष्यति इति उक्त्वा इन्द्रः नलं दूतो भवितुम् आदिशति । इन्द्रस्य कथनं श्रुत्वा नलस्तु धर्मसङ्कटम् अन्वभवत् । एकत्र व्याघ्रः अस्ति, अपरत्र तटी (खाई); एकत्र दावानलः अस्ति, अपरत्र लुण्ठकाः, एकत्र सर्पः अस्ति, अपरत्र कूपः [१९] इति विचाराः तस्य मनसि पौनःपुन्येन समुदभवन् । अन्ततो गत्वा भयग्रस्तः नलः देवतानां दूतत्वेन गन्तुं सज्जः अभवत् । पश्चात् देवाः ततः प्रस्थानम् अकुर्वन् ।

देवानां गमनानन्तरम् इन्द्रनलयोः संवादम् उद्दिश्य श्रुतशीलः नलम् अकथयत्, अहं जनामि यत्, अधुना भवतां शरीरं, मनश्च चिन्तायाः दावानले ज्वलती स्तः । परन्तु भवान् निश्चिन्तः भवतु । दमयन्ती देवानां वरणं न करिष्यति । सा सर्वथा भवति एव आसक्ता अस्ति । भवान् स्वप्रयत्ने शिथिलः मा भवतु इति ।

एवं सान्त्वनां प्राप्य राजा मनश्शान्त्यै एकान्ते विहाराय निरगच्छत् । विहारं कुर्वन् राजा नलः सरोवरे स्नानं कुर्वतीः किरातकामिनीः अपश्यत् । सः तासां क्रीडाकौतुकम् आनन्देन पश्यन् आसीत् । परन्तु श्रुतशीलः नलस्य मनःस्थितिं ज्ञात्वा तस्य ध्यानम् अन्यत्र आकर्षयत् । ततः तस्मात् स्थानात् रेवातटे राजानं नीत्वा अगच्छत् । तत्र दीर्घकालं यावत् चिन्तनं कृत्वा सन्ध्याकालानन्तरं राजा स्वशिविरं प्रत्यगच्छत् । एवं सन्तापेन ग्रस्तः राजा सन्ध्यावन्दनादि नित्यकार्यं विस्मृतवान् । परन्तु किन्नरमिथुनगानं श्रुत्वा राजा आह्निकसन्ध्यावन्दाय तत्परः अभवत् । ततः सन्ध्यावन्दनानन्तरं शिवस्य चरणयुगलयोः मधुरवीणायाः पञ्चस्वरेण गीतं श्रुत्वा तत्रैव रात्रौ न्यवसत् [२०] । रजनिमवनिनाथः सान्ध्यकर्मावसाने, हरचरणसरोजद्वन्द्वसेवां विधाय ।

सूक्तिः[सम्पादयतु]

१. अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ।। ६६ ।।

२. केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय ।। ५ ।।

३. को वान्योऽपि विलीयते न सरसः सीमन्तिनीसङ्गमे ।। ५९ ।।

४. छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ।। ६७ ।।

५. तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहः ।।

६. नह्येकतलेन तालिका वाद्यते ।।

७. बलीयान् परतो विधिः प्रमाणम् ।।

८. विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति ।।

९. हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डिताऽपि ।। ५० ।।

१०. हृद्यं किमुद्वेगिनम् ।। १७ ।।

षष्ठोच्छवासः[सम्पादयतु]

प्रातःकाले वैतालिकः राजानं जागरयितुं स्तुतिपाठम् अकरोत् । ततः जागृतः राजा भुवनभास्कराय प्रणम्य नित्यकार्येषु व्यस्तः अभवत् । नित्यकार्येषु समाप्तेषु सत्सु नारायणस्य स्तुतिं कृत्वा स्वसैनिकैः सह प्रस्थानम् अकरोत् । नर्मदानदीम् उल्लङ्घ्य सः विन्ध्यटवी-नामकं स्थलं प्रापत् । राजा एतस्मिन् स्थले एव वृक्षच्छायायां विश्रामस्थं पथिकम् अपश्यत् । पथिकः यदा राजानम् पश्यत्, तदा मनोहरशब्दैः राज्ञे आशीर्वादान् अयच्छत् ।

सम्मुखं या नदी प्रवति, तस्याः परिचयं राजा पथिकम् अपृच्छत् । पुष्कराक्ष-आख्यः सः पथिकः यमुनानद्याः वर्णनं कुर्वन् अवदत्, एतस्याः नद्याः जलपानं कृत्वा जनाः अमृतस्य स्वादम् अपि विस्मरन्ति । पुष्कराक्षः अवदत्, विशालाक्षी दमयन्ती मां भवते समाचारं दातुं प्रैषयत् । येन मार्गेण भवान् तत्र गच्छति, तं मार्गं प्रति पश्यन्ती सा गवाक्षे स्थित्वा भवतां प्रतीक्षां करिष्यति [२१] । इतः किञ्चित् दूरे एव सर्ज-अर्जून-निचुलैः (वृक्षैः) आच्छादितः चञ्चलचकोराणां, मयूराणां, हंसानां च कोलाहलयुक्तायाः पयोष्णीनद्याः तटे स्थितस्य किन्नरयुगलस्य समीपं भवान् प्राप्स्यति । तत् युगलं दमयन्त्याः आदेशेन एव तत्र स्थितम् अस्ति । एवम् उक्त्वा सः पथिकः राज्ञे दमयन्त्या लिखिताम् एकां भूर्जपत्रिकां यच्छति ।

भूर्जपत्रिकां दृष्ट्वा राज्ञः हृदि रोमाञ्चः समुदभवत् । समीपवर्ती अनुचरः पथिकस्य हस्तात् भूर्जपत्रिकां नीत्वा राज्ञः हस्ते संस्थापयति । राजा तां भूर्जपत्रिकाम् उद्घाट्य पठनम् आरभत ।

हे निषधराज ! नलो (जलं) भूत्वापि भवान् मम कृते अनलः (वह्निः) अस्ति । अबलानां चित्तं बलात् कर्षयति इति भवत्सदृशस्य महापुरुषस्य कृते अयोग्यम् अस्ति । भाग्यम् अपि दुर्बलान् एव सन्तापयति । न जाने कदा कुण्डिन-नगरस्य भूमिः भवतां चरणकमलयोः अलङ्कृता भवष्यति ?

प्रणयपत्रस्य सुधाधारायां राज्ञः नलस्य मनः मोदते स्म । सः सस्मितम् अवदत्, पुष्कराक्ष ! एषा राजपुत्री सर्वथा प्रशंसीया अस्ति । ततः राजा उत्कण्ठितमनसा पुष्कराक्षं दमयन्त्याः सम्बद्धान् अनेकान् प्रश्नान् अपृच्छत् । पुष्कराक्षस्य उत्तराणि नलस्य मनसि अधिकाम् उत्कण्ठां जनयन्ति स्म । ततः राजा ससैन्यम् अग्रे प्रस्थितवान् ।

मार्गे एकस्य पर्वतस्य शिलासन्धेः मध्ये स्थित्वा एका किन्नरी स्वप्रियतमाय गीतं गायन्ती आसीत् । राजा ताम् अपश्यत् । पुष्कराक्षः अग्रे गत्वा तां किन्नरीम् अकथयत्, सुन्दरक ! द्रष्टुं न शक्नोति किं ? महाराजः नलः तव नेत्रयोः सम्मुखम् एवास्ति इति । तस्य युगलस्य नाम क्रमेण सुन्दरक, वागुरिका च आसीत् । ततः तत् युगलं राजानं प्राणमत् ।

सुन्दरकः नामाङ्कितम् अङ्गुलीयकं, सुन्दरं रक्तवस्त्रं च निष्कास्य राज्ञे अयच्छत् । राजा सस्नेहं तत् स्वीकृत्य अवदत्, सुन्दरक ! अहं देव्याः नाम्ना मुद्रितः, आच्छातिः च अस्मि । एषा मुद्रिका, एतत् वस्त्रयुगलं च पुनरुक्तमात्रम् (पुनः कथनम्) अस्ति [२२] । दमयन्त्याः सन्देश एव मम आभूषणम् अस्ति । पश्चात् तेषु दमयन्त्याः विषये चिरकालं यावत् चर्चा अभवत् । तस्मिन् स्थले एव रात्रिनिवासं कृत्वा प्रातःकाले नित्यविधिं समाप्य राजा अग्रे प्रस्थानम् अकरोत् ।

विन्ध्याटव्याः अग्रे गच्छन् राजा मनोरमदृश्यानि दृष्ट्वा व्यग्रस्वरेण कुण्डिन-नगरं कियद्दूरे अस्ति इति पुष्कराक्षं अपृच्छत् । राज्ञः व्यग्रमनः शान्तं कुर्वन् सः उदतरत्, देव ! वयं प्राप्ताः । वरदातटे महाराष्ट्रदेशस्य भूमिः एषा । अत्रैव दक्षिणस्य सरस्वती विदर्भा नदी प्रभवति । कामदेवस्य उद्यानवत् उद्यानैः, परिपक्वकृषिक्षेत्रैः, कमलवनैः सुशोभितम् एतदेव कुण्डिन-नगरम् अस्ति । मत्तैः कलहंसैः युक्तयोः उभयोः नद्योः (वरदा-विदर्भा-नद्योः) सङ्गमतटे राजा सैन्यबलेन सह विश्रामं स्व्यकरोत् । विशालसैन्यबलस्य चरणधूलिकाः कुण्डिन-नगरवासिभ्यः राज्ञः नलस्य आगमनस्य सूचनाम् अयच्छन् ।

शिविरेषु सैन्यबलस्य, परिजनानां व्यवस्थिते जाते सति कुण्डिन-नगरस्य समीपस्थः एकः दण्डपाशिकः उच्चस्वरेण निषधराजस्य आगमनस्य घोषणाम् अकरोत् । सः घोषयति स्म यत्, निषधदेशस्य सम्राट् आगतवान् अस्ति । सर्वेऽपि चन्दनजलेन राजमार्गं क्षालयन्तु । सर्वे विभूषिताभूषणैः मङ्गलगानेन सह महाराजस्य नलस्य दर्शनं कृत्वा कृतार्थाः भवन्तु इति ।

सूक्तयः[सम्पादयतु]

१. उन्मादयति यूनो मनो युवतीनां यौवनश्रीः ।।

२. कुलवधूनां सेवको लोक एषः ।। ५४ ।।

३. निपतति किल दुर्बलेषु दैवम् ।। २० ।।

४. हृदयं ग्राम्या हरन्ति स्त्रियः ।। ७० ।।

सप्तमोच्छवासः[सम्पादयतु]

राजा नलः यदा नगरं प्रविष्टवान्, तदा नागरिकैः सौहार्दपूर्णं स्वागतं कृतम् । ततः नगरे निषधराजस्य प्रवेशस्य समाचारान् श्रुत्वा भीमसेनः दौवारिकाय आदेशम् अयच्छत् यत्, निषधराजम् अत्र आनयतु इति । येन मार्गेण नलः प्रासादं प्रति गच्छन् आसीत्, तेन मार्गेणैव विदर्भराजः नलस्य स्वागताय अग्रे अगच्छत् । विदर्भराजः मार्गे नलं दृष्ट्वा सहर्षम् आलिङ्गनम् अकरोत् । कुशलप्रश्नानन्तरं विदर्भराजः नलम् अकथयत्, अस्माकं पुण्यप्रतापैः एव भवताम् अत्र आगमनम् अभवत् । ततः आतिथ्यं कृत्वा विदर्भराजः स्वप्रासादं प्रत्यगच्छत् । ततः दमयन्त्या प्रेषिताः नार्यः नलाय पुरस्कारान् दत्त्वा स्वागतम् अकुर्वन् । पुष्कराक्षाय, किन्नरयुगलाय च नलः पुरस्कारं दत्त्वा दमयन्त्याः समीपं प्रैषयत् । नलः दमयन्त्यै उपहारं दातुं पर्वतक-नामकं सेवकम् अपि तैः सह प्रैषयत् ।

प्रतिहारिभ्यः अनुमतिं प्राप्य पर्वतकः अतिथिकक्षं प्रविष्टः । सः प्रासादस्य प्रशंसाम् अकरोत् । ततः दमयन्त्याः वर्णनं कुर्वन् सः अवदत्, महाराज ! तस्याः बालायाः निर्माणे विधात्रा स्वस्य समस्तकौशलस्य उपयोगः कृतः अस्ति [२३] । अहं भवतां दूतत्वेन उपस्थितः इति ज्ञात्वा सा मम सत्कारम् अकरोत् । ततः भवता दत्तः उपहारः मया तस्यै प्रदत्तः । वार्तालापकाले पुष्कराक्षेण दमयन्ती सूचिता यत्, देवि ! यद्यपि महाराजः नलः भवत्याम् अति स्निह्यति, तथापि सः इन्द्रदिदेवानां दूतत्वेन अत्र उपस्थितः अस्ति । भवती इन्द्रादिलोकपालेषु केनापि सह विवाहं करोतु इति वक्तुं सः अत्रागतः अस्ति इति । यदा पुष्कराक्षस्य कथनम् अहं समर्थितवान्, तदा राजकुमारी अतीव व्यग्रा अभवत् । चिन्तामग्ना सा कामपि चेष्टां कर्तुम् असमर्था अभवत् । स्वस्याः चञ्चलनेत्राभ्यां सा अति कष्टेन मह्यम् अत्र आगन्तुम् अनुमतिम् अयच्छत् ।

यदा पर्वतकः राज्ञा सह चर्चां कुर्वन् आसीत्, तदा अवसरपाठकः सन्ध्याकालस्य घोषणाम् अकरोत् । दमयन्त्याः स्थितिं ज्ञात्वा विह्वलमनः राजा पद्भ्यामेव सन्ध्यादिकर्मभ्यः नदीसङ्गमं प्रति अगच्छत् । सन्ध्यादिसमाप्य गहनचिन्तायां मग्नः राजा अचिन्तयत्, अलङ्घनीयवाणीयुक्तानाम् इन्द्रादिलोकपालानाम् आदेशस्य उल्लङ्घनम् अहं कर्तुं न शक्नोमि । एवं चिन्तयन् सः दमयन्त्याः प्रासादस्य समीपं प्राप्तः । ततः इन्द्रस्य वरदानेन नलः अदृश्यः सन् कन्यान्तःपुरं प्रविष्टः । दमयन्त्याः सखीनां गायनं शृण्वन् राजा ध्वनेः दिशायाम् अग्रे अगच्छत् । सः दमयन्त्याः प्रासादं प्राप्य पुनः दृश्यमानः अभवत् । कन्यान्तःपुरे नलस्य उपस्थित्या दमयन्ती, तस्याः सख्यः च निर्निमेषं राजानं पश्यत्यः स्वमपि विस्मृतवत्यः । नलं दृष्ट्वा दमयन्ती अचिन्तयत्, पार्वत्याः आराधनं कृचवती कापि रमणी धन्या एव स्वभुजायाः कण्ठहारं कृत्वा एतस्य युवकस्य आलिङ्गनं करिष्यति इति । हे ब्रह्मन् ! एतादृशं पुरुषं रचयित्वा भवतां परिश्रमः अपि सफलः अभवत् । हे पृथ्वीमातः ! भवती अपि धन्या अस्ति यत्, एतादृशः नरः भवत्याः पतिः अस्ति [२४] । दमयन्त्याः मुखं पश्यन् राजा नलः किन्नरीम् अवदत्, हे विहङ्गवागुरिके ! अभ्यागतस्य अतिथेः स्वागतवार्तया शिष्टाचारं न आचरति एतादृशम् आचरणं कथं तव स्वामिन्याः ? सा प्रत्युदतरत्, लज्जामुखया स्वामिन्या भवतां चरणयुगलयोः स्वनेत्रोत्पलानि समर्प्य कम्पनयुक्तेन हस्तकङ्कणध्वनिना भवतां स्वागतं कृतम् अस्ति । तथा च यस्य द्वारे स्तनयुगलरूपिणौ मङ्गलकलशौ स्तः, तादृशे स्वस्याः हृदयरूपिगृहे सा भवतां प्रवेशम् अकारयत् । एतया दत्तायां पर्यङ्किकायां भवान् आसीनः भवतु इति । ततः नलदमयन्त्यौ पर्यङ्किकायाम् अतिष्ठताम् । अन्येषां मुखात् अन्योन्यस्य विषये श्रुतवन्तौ भवन्तौ अधुना अन्योन्यस्य दर्शनस्य आनन्दानुभवं प्राप्नुताम् । उत्सुकतायाः कारणने स्तब्धौ एवं लज्जितौ तौ (दमयन्तीनलौ) सङ्कोचेन अन्योन्यं प्रति द्रष्टे सति तयोः हृदये सर्वेऽपि रसाः प्रकटिताः अभूवन् । सखीनाम् आग्रहेण अर्घं दातुम् उद्युक्तां दमयन्तीं नलः सस्मितम् अर्घं स्वीकर्तुं निराकरोत् । ततः सः इन्द्रादिदेवानाम् आदेशस्य विषये सप्रसङ्गं दमयन्तीम् अकथयत् ।

दमयन्ती सस्मितं प्रियम्बिका-नामिकया सख्या सह चर्चायां व्यस्ता अभवत् । ततः नलः दमयन्तीम् अकथयत्, हे मदिराक्षि ! भवती मृत्युलोकस्य सीमितसुखस्य अधिकारिणी नास्ति । अर्थात् भवती नितरां स्वर्गसुखस्य अधिकारिणी इति अभिप्रायेण नलः दमयन्तीं पौनःपुन्येन अबोधयत् । ततः पर्यङ्किकायाः उत्तिष्ठन् राजा नलः गन्तुम् उद्युक्तः अभवत् । द्वित्राणि पदानि सह चलित्वा नलः दमयन्तीम् अकथयत्, अलम्, अधिकं कष्ठं मास्तु, सानन्दं तिष्ठतु इति । ततः स्वनिवासस्थानम् अगच्छत् ।

राजा स्वनिवासस्थानं गत्वा पुष्पसदृशायां कोमलशय्यायाम् उपरि स्थित्वा गहनचिन्तायां मग्नः अभवत् । तस्याः मृगनयन्याः नवमिलनावसरे हर्षेण रोमाञ्चितं, शीघ्रतया विकसितम्, उत्कष्ठया उत्थापितं, शृङ्गारेण आलस्ययुक्तं, भयेन चञ्चलनेत्रं, लज्जया शुभ्रकपोलयोः गलितेन स्वेदजलेन युक्तं मुखम् अहं पुनः कदाचित् द्रष्टुं शक्ष्यामि [२५] ? सा मृगनयनी दृष्ट्याः न अपसरति । एषा रात्रिः अपि पूर्णतां न गच्छति, न च निद्रा अपि आयाति । कामः अपि पीडितेषु एव प्रहारं करोति । बहुवारं विनाशकानि वस्तूनि अपि सम्मुखम् आगच्छन्ति [२६]

एवम् दमयन्त्याः विचारैः, धर्माधर्मयोः वितर्कैः सह एव दीर्घकालः अश्रुपूर्णनेत्राभ्यां नलः जडवत् अतिष्ठत् । ततः भगवतः शिवस्य चरणयुगलयोः चिन्तनं कृत्वा नृपतिः नेत्रम् उन्मिल्य रात्रिम् अयापयत् ।

सूक्तयः[सम्पादयतु]

१. अनालोचनगोश्चायमनुरागोऽङ्गनाजनस्य ।।

२. कार्येण कारणविशेषगुणोऽनुमेयः ।। २२ ।।

३. दग्धोविधिर्विधत्ते न सर्वं गुणसुन्दरं जनं कमपि ।। २१ ।।

४. न खलु गुण-विशेषः प्रेमबन्धप्रयोगे ।। ४७ ।।

५. न खलु पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते ।। ४६ ।।

६. नानाभङ्गिभिरन्द्रजालसदृशं दैवं हि चित्रीयते ।। ६ ।।

७. वीणायां वाद्यमानायां वेदोद्गारो न रोचते ।। ४६ ।।

८. शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ।। २० ।।

९. स्मरपस्मारोऽयं भ्रमयति दृशं घूर्णयति च ।। १७ ।।

नलचम्प्वाः पात्राणि[सम्पादयतु]

पात्रम् परिचयः
पुरुषपात्राणि
नलः नायकः, निषधदेशाधिपतिः च
वीरसेनः नायकस्य नलस्य पिता
सालङ्कायनः वीरसेनस्य मन्त्री
श्रुतशीलः नलस्य मन्त्री, मित्रं च, सालङ्कायनस्य पुत्रः
मौहूर्तिकः वीरसेनस्य ज्योतिषी
पथिकः उत्तरप्रदेशीयः
पथिकः दक्षिणप्रदेशीयः
पर्वतकः नलस्य सेवकः
प्रतीहारः नलस्य सेवकः
प्रस्तावपाठकः नलस्य सेवकः
मृगया-वनपालकः नलस्य सेवकः
वैचालिकः नलस्य सेवकः
बाहुकः नलस्य सेनापतिः
भद्रभूतिः दौवारिकः
भीमः कुण्डिनाधिपतिः, दमयन्त्याः पिता
पुरोधा भीमस्य पुरोहितः
पुष्कराक्षः दमयन्त्याः दूतः
सुन्दरकः दमयन्त्याः किन्नरः
सोमशर्मा स्वयंवरस्य निमन्त्रणाय उत्तरदिशायाः दायित्वं प्राप्तः ब्राह्मणः
हंसः नलस्य दूतः
इन्द्र-कुबेर-यम-वरुण दमयन्तीवरणेच्छुकाः लोकपालदेवताः
पुरुषः लोकपालानाम् अनुचरः
ब्रह्मर्षिः नलस्य अभिषकार्थम् आगतः ऋषिः
मुनिः पयोष्णीतटस्य तपस्वी
अवसरपाठकः भीम-नलयोः सेवकः
स्त्रीपात्राणि
दमयन्ती नायिका, कुण्डिननरेशस्य पुत्री
प्रियङ्गुमञ्जरी दमयन्त्याः माता
वाक्कोलिका, कलिका दमयन्त्याः सखी
चकोरी, चङ्गी दमयन्त्याः सखी
चन्दना, चन्द्रप्रभा दमयन्त्याः सखी
चन्दवदना, चन्दी दमयन्त्याः सखी
चम्पा दमयन्त्याः सखी
मालती दमयन्त्याः सखी
नन्दनी दमयन्त्याः सखी
परिहासशीला दमयन्त्याः सखी
प्रियम्वादिका दमयन्त्याः सखी
लवङ्गी दमयन्त्याः सखी
गौरी दमयन्त्याः सखी
सुन्दरी दमयन्त्याः सखी
विहङ्गवागुरिका दमयन्त्याः किन्नरी
मज्जन-कामिन्यः भीमस्य सेविका
किरात-कामिन्यः नर्मदातटवासिनी
गोपी विदर्भातीरचारिणी
रूपवती नलस्य माता
लवङ्गिका नलस्य सरोवर-रक्षिका
सारसिका नलस्य वनपालिका
हंसी हंसस्य पत्नी

सम्बद्धाः लेखाः[सम्पादयतु]

त्रिविक्रमः भट्टः

चम्पूकाव्यम्

महाभारतम्

नलः

दमयन्ती

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा । ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ।। उ. १, श्लो. ७ ।।
  2. राघव इवालघुदण्डभङ्गरञ्जितजनकः । पृ. ३३ नलचम्पूः, चौखम्बा सूरभारती ग्रन्थमाला
  3. नाथं प्रोथियूथस्य जित्वा ।। उ. १, श्लो. ५१ ।।
  4. स्वस्ति स्वकान्तिनिर्जितमकरध्वजाय तुभ्यम् । पृ. ७७ नलचम्पूः, चौखम्बा सूरभारती ग्रन्थमाला
  5. किन्त्वाश्चर्यमदृष्ट्यरूपविभवोप्याकर्ण्यमाना सती, कान्तेत्युन्नतचतसोऽपि कुरुते नाम्नैव निम्नं मनः ।। उ. १, श्लो. ६१ ।।
  6. इत्वधारयन्नवतार्य सर्वाङ्गेभ्यो भूषणानि तस्मै सदयमदात् ।। पृ. ९१ ।।
  7. पुनरपि तदभिज्ञान्पृच्छतः पान्थसार्थान्, प्रतिपथमथ यूनो यान्ति तस्य क्रमेण । हरचरणरोजद्वन्द्वमुद्रङ्कमौलेर्मदनमदनिवासा वासराः प्रावृषेण्याः ।। उ. १, श्लो. ६४ ।।
  8. धन्याः शरदि प्रोल्लसच्चित्रशालिकान् । प्रसादान् स्त्रीसखाः पौराः केदारांश्चकृषीवलाः ।। उ. २, श्लो. १ ।। नमिताः फलभारेण न मिताः शालिमञ्जरी । केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः ।। उ. २, श्लो. २ ।। प्रावृषं शरदं चापि बहुशाकाशहारिणीम् । विलोक्य नोत्सुकः कः स्यान्नरो नीरजसङ्गताम् ।। उ. २, श्लो. ३ ।।
  9. धूर्तालापपण्डित इति ।
  10. राजन्राजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने ।। उ. २, श्लो. २३ ।।
  11. भद्र साप्तपदीनं सख्यम् ।
  12. यद्यावद्यादृशं येन कृतं कर्म शुभाशुभम् । तत्तावत्तादृशं तस्य फलमीशः प्रयच्छति ।। उ. ३, श्लो. १७ ।।
  13. आबध्नत्परिवेषमण्डमलं वक्त्रेन्दुबिम्बाद्बहिः, कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सप्रतीवोल्बणं, लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ।। ३२ ।।
  14. सुतारा दृष्टिः, सकामाः कटाक्षाः, सुकुमाराश्चरणपाणिपल्लवाः, सुधाकान्तिः स्मितम्, अरुणो दन्तच्छदः, भास्वन्तो दन्ताः, सुकृष्णाः केशाः, प्रबुद्धा वाणी, गौरी कान्तिः, गुरुः स्तनभागाः, पृथ्वी जघनस्थली, सुरभिर्निःश्वासः, सुगन्धवाहः प्रस्वेदः, सश्रीकः सकलाङ्गभोः ।
  15. मण्डलीकृतकोदण्डः कामः कामं विचेष्टताम् । न व्यथिष्ये स्थितः स्थैर्यं धैर्ये धामवतां धनम् ।। उ. ४, श्लो. ३ ।।
  16. मा गाः स्त्रियाः श्रियो वा विश्वासम् ।
  17. भवति यदि सहस्रं वाक्पटूनां मुखानां, निरुपममवधानं जीवितं चापि दीर्घम् । कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं, सकलगुणविचारः शक्यते वा न वेति ।। उ. ५, श्लो. १ ।।
  18. कर्पूराम्बूनिषेकभाजि सरसैरम्भोजिनीनां दलैः, आस्तीर्णेऽपि विवर्त्तमानवपुषोः स्रस्तस्रजि स्रस्तरे । मन्दोन्मेषदृशोः किमन्यदभवत्सा काप्यवस्था तयोः, यस्यां चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ।। २१ ।।
  19. इतो व्याघ्र इतस्तटी, इतो दवाग्निरितो दस्यवः, इतो दुष्टदन्दशूक इतोऽप्यन्धकूपः ।
  20. मृदकलितविपञ्चीपञ्चमप्रायगीत-श्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ।। उ. ५, श्लो. ७७ ।।
  21. स्थित्वा त्वदागमनमार्गमुखे गवाक्षे वार्ताविशेषमधिगन्तुमिहायताक्ष्या । सम्प्रेषितो निषधनाथ तथास्मि यस्याः क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ।। उ. ६, श्लो. १८ ।।
  22. सुन्दरक ! तस्याः सन्देश एवास्माकं कर्णपूरः, परिकरोऽयं मणिकर्णावतंसः, तस्याः सुगृहीतेन नाम्नैव वयं मुद्रिताः प्रपञ्चोऽयमङ्गुलीमुद्रालङ्कारः, तदनुरागिणैव वयमाच्छादिताः पुनरुक्माच्छादनयगलमपरम् ।
  23. लावण्यपुण्यपरमाणदलं तदन्यत्, अन्यः स चापि निपुण खलु कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्टः, कोर्येण कारणविशेषगुणोऽनुमेयः ।। उ. ७, श्लोक. २२ ।।
  24. धन्या काप्युपराधितान्द्रितनया यस्यास्त्वमाह्लादयन्, मुक्ताहार इव प्रसारितभुजः कण्ठे विलोठिष्यसि ।
  25. हर्षादुत्पुलकं विकासि रभसादुत्तानितुं कौतुकाः, शृङ्गारादलसं, भायत्तरलदृङ् नम्रं च लज्जाभरात् । तस्यास्तन्नवसङ्गमे मृगदृशो दृश्येत भूयोऽपि किं, किञ्चित्काञ्चनगौरगण्डगलितस्वेदाम्बुरम्यं मुखम् ।। उ. ७, श्लोक. ४८ ।।
  26. अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखी भवन्त्यपायाः ।। उ. ७, श्लोक. ४९ ।।

अधिकवाचनाय[सम्पादयतु]

नलचम्पूः

नलचम्पू हिन्द्याम्

नलचम्प्वाः उल्लेखः

सम्पूर्णं पुस्तकम्

"https://sa.wikipedia.org/w/index.php?title=नलचम्पूः&oldid=436298" इत्यस्माद् पुनः प्राप्तिः