नाटकचक्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नाटकचक्रस्य कर्ता भासः। सः सम्प्रतिविज्ञातनाटककृत्सु प्राचीनतमो मतः । तस्य हि नाटकचक्रे विंशत्यधिकनाटकानि सन्ति । इदं नाटकचक्रं प्रथमतो गणपतिशास्त्रिणा १९६६ मितवैक्रमाब्दे प्रकाशितं प्रमाणितञ्च तेषां भासकर्तृकत्वम् । तत्र त्रयोदशनाटकान्यासन्।

परिचयः[सम्पादयतु]

भासस्य स्थितिकालविषये पण्डिताः सम्प्रत्यपि नैकमत्यं भजन्ते । केचित्तमुदयनसमकालिकं मन्यन्ते, परे तु तं विक्रमसमकालीनमन्ये तं श्रीहर्षसमकालीनमपि । ये हि खलु श्रीहर्षसमकालिकं मन्यन्ते ते हि राजशेखरस्य -

‘कारणं तु कवित्वस्य न सम्पन्नकुलीनता।।

धावकोऽपि हि यद्भासः कवीनामग्निमोऽभवत् ॥'

इति कथनमनुसृत्य धावकभासयोरैक्यं परिकल्प्य श्रीहर्षादेर्भावकादीना मिव धर्न' इंति.मम्मटोक्तिमाधृत्य तथा समर्थयन्ति । किन्तु कल्पनमेतद्वातभवनमेव । यतो हि धावकस्त्वत्र व्यवसायबोधकपदं न त्वभिधानम् । सम्भवति धावकवंशे कश्चिदपरः कविः श्रीहर्षसभायामप्यासीत् । भासं तु श्रीहर्षस्यैव सभाकविर्बाणभट्टः -

‘सूत्रधारकृतारम्भैर्नाटकेर्बहभूमिकैः

सपताकैर्यशो लेभे भासो देवकुलैरिव ॥' (हर्षचरिते )

इति लिटः प्रयोगेण स्मरति येन हि बाणासुदुरप्राग्वतत्वं तस्य व्यज्यते । ये हि खलु भासे विक्रमसमकालिकं मन्यन्ते ते हि हेमचन्द्रस्य -

'सम्प्रति परां काष्ठामारूढेनाऽपि भासेन भूतपूर्वा स्वीयदशा न विस्मृता । यतोऽनेन पूर्वचरितं घटखर्परेणोदकवहनमेव प्रतिज्ञातम् । प्रतिज्ञाञ्चेमामसहमानाः परे कवयः परिहसितुमनसो विक्रमार्क सभ्य मेनं भासं तज्जातिस्मारकघटखर्परनाम्ना व्यजह्वः । क्रमेण च स एव व्यपदेशो भासकवेः सुप्रसिद्धः सम्पन्नः । इति कविहृदयव्याख्यागतं वचनमाधारीकुर्वन्ति कल्पयन्ति चैनं घटखर्परेण सहैक्यमपि । एतदपि कपोलकल्पनमेव प्रतिभाति यतो हि विक्रमस्यैव सभाकविः कालिदासस्तं हि

प्रथितयशसां भाससौमिल्लकविपुत्रादीनाम्' इति कथनेन ( मालविकाग्निमित्रे ) स्वनितान्तपूर्ववतित्वेन स्मरति । सरुद्रगुप्तो हि स्वकीये कृष्णचरिते मुनिकविवर्णनप्रसङ्गे भासं स्मरति । तथा हि -

भासमानमहाकाव्यः कृतविंशतिनाटकः । अनेकाङ्कविधाता च मुनिर्भासोऽभवत्कविः ।। २२ ।। यस्यामन्दरसा वाचः स्पन्दन्त्यानन्दमुच्चकैः । अन्येन केन कविना तुल्यता तस्य वर्तताम् ।। २३ ।। अन्यः कः कर्तुमशकल्कविर्धमर्थकामवित् । यथा वासवदत्ताख्यं यस्य नाटकमुत्तमम् ।। २४ ।।। वाल्मीकिवैभवनिदर्शनमादिकाब्यं रङ्गे निदशितभयं सुरसं चकार ।।

व्यासस्य भारतमभारतया सुदर्श कृत्वा च तत्र विविधाः स्वकथा युयोज ।। २५ ।।

रूपकक्रममस्यैव कवयोऽन्ये ययुर्बुधाः । । अयञ्च नान्वयात्पूर्ण दाक्षीपुत्रपदक्रमम् ॥ २६ ॥

अभिरामाः सुबोधाश्च यस्य वाचो महाकवेः । | रसैरग्नि शमं नियुस्तस्य किं वयैतां यशः ॥ २७॥ इति।

अनेन भासस्य अग्निवर्णसभाकवित्वं सिध्यतीति केचिदामनन्ति तदपि नैव युक्तियुक्त प्रतिभाति । तथा सति भासस्य पतञ्जलेरपि परवतित्वं सिध्यति किन्तु भासस्तु ऐन्द्रव्याकरणानुयायी निश्चयमेव पाणिनिपूर्ववर्ती किंवा तत्समकालिकस्तु भवितुमर्हत्येव । अपरञ्च, यदि नाम भासो हि विक्रमसमकालिकः स्यात्तदा हि कालिदास इव स्वसमकालीनं वा पौराणिक राजानं विहाय किन्निमित्तं निर्मूलवंशीयस्योदयनस्य चरितं चित्रयेत्स्वनाटके। वत्सभूमिह शिशुनागसमये एवं मगधसाम्राज्ये समावेशिताऽऽसीत् ।

वस्तुतस्तु भासो हि उदयनसभाकविरिति कपिलदेवस्य मतमेवं युक्तियुक्तं दृश्यते । उदयनो हि बुद्धसमकालिकः । तदा हि मगधेषु अजातशत्रोः पुत्रस्य दर्शकस्य शासनमासीत् । केचिद्दर्शक बिम्बसारज्येष्ठपुत्रमपि मन्यन्ते । कथनेऽस्मिन् निम्नाङ्किता युक्तिरुपस्थाप्यते ।

भासो हि स्वप्नवासवदत्त प्रतिज्ञायौगन्धरायणे च सहस्रानीकस्य पौत्रं शतानीकपुत्रमुदयनं नायकत्वेन वा विषयत्वेन निबध्नाति । तेनाऽस्योदयनस्थितिकाल एव स्थितिकालस्य पूर्व सीमा। स हि प्रतिमानाटके बार्हस्पत्यमार्थशास्त्रं माहेश्वरं योगशास्त्रं तथैव मेधातिथेन्र्यायशास्त्रं तु स्मरति किन्तु नैव कौटिलीयमर्थशास्त्रं नैव च पातञ्जलं योगशास्त्रं न च वात्स्यायनीयं कामशास्त्रम् । तद्विपरीत कौटिल्यः स्वीयेऽर्थशास्त्रे भासस्य प्रतिज्ञायौगन्धरायणे ग्रथितम् -

'नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।

तत्तस्य मा भून्नरकं स गच्छेद्यो भर्तृपिण्डस्य कृते ने युध्येत्' ।। इति पद्यमक्षरश उद्धरति ।

पतञ्जलिर्हि भगवान् कंसवधं; बॉलिवधञ्च नाटकद्वय स्मरति ये हि भासस्य बालचरितस्य अभिषेकनटिकस्यं च नामान्तरमेव । तेन हि भासस्य कौटिल्यात पतञ्जलेश्च पूर्ववतित्वं सिध्यति । कौटिल्यो हि चन्द्रगुप्तस्य बिन्दुसारस्य प्रधानामात्यः । तेन हि कौटिल्यस्य समयः ३००२१५ मित विक्रमपूर्वकालाब्दान्तरालेऽनुमितः । ( चन्द्रगुप्तस्य २७२-२४१ वि० पू०, बिन्दुसारस्य २४१-२१६ वि० पू० )।

स्वप्नवासवदत्ते उदयनस्य राज्यविवृद्धये प्रयासो वणितस्तथैव प्रतिज्ञा यौगन्धरायणे उदयनस्य पितुः शतानीकस्य पितामहस्य सहस्रानीकश्वोल्लेिखतस्तथैव तस्य हि पारमेष्ठ्यलक्षणञ्च वणतमस्ति । यथा हि -

‘राजा-देवि ! महासेनशब्दमपि न गणयति, किं सम्बन्धमभिलषति ।।

देवी - न गणयति ! कि बालः अपण्डितो वा।

राजा - बालः ! नत्वपण्डितः ।

देवी - किन्तु खल्वेनमुत्सेकयति ।

राजा - उत्सेकयत्येनं प्रकाशराजर्षिनामधेय वेदाक्षरसमवायप्रविष्टों भारतो वंशः दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः । विभ्रमयत्येनं वयस्सहर्ज रूपम, वित्तम्भयत्येनं कथमप्युत्पन्नोऽस्य पौरानुरागः ।'

वर्णनमिदं निश्चितमेव कवेरस्योदयनसभाकवित्वं साधयति। न हि राजान्तराश्रितः कविरमुमित्थं वर्णयेत् । कालिदासेन हि रघूण वंशस्तथा वर्णितस्तत्र तु पौराणिकत्वं स्वाश्रयस्य विक्रमस्य राज्ञस्तदन्वयवतत्वसाधनञ्च तथावर्णने प्रयोजनम्, कामं रघुवंशस्यापूर्णत्वेन तथा साधितं नैव दृश्यते । कालिदासेन हि विक्रमसमकालिकेन प्रथितयशस्कत्वेन सम्मतो भासः उदयनसमकालिक इति नैवाविश्वासभूमिः ।।

भासो हिं कतिपयेषां पाणिनीयव्याकरणासम्मतानां शब्दानां व्यूढोराः इत्यादीनां व्यवहारं करोति । पाणिनिमते तु नित्यंकपो विधानात् ‘व्यूढोरस्कः एव भवति । स्वयं पाणिनिरपि एतादृशान् स्वव्याकरणासिद्धान् शताधिकाञ्छब्दान् प्रयुनक्ति अष्टाध्याय्याम् । अनेनापि भासस्य पाणिनिपूर्ववतत्वं सिध्यति । पाणिनिहि धननन्दस्य समसामयिक आसीदिति कथासरित्सागरसाक्ष्येण ज्ञायते । धननन्दस्य कालः २९२-२७२ मितविक्रमपूर्वं मंतः। भासस्य भाषितभाषाप्रयोगः, भाषासौष्ठवं, सरला किन्तु सरसी शैली, रसपरिपाकश्च, शब्दाडम्बरशून्यता; कथाप्रवाहश्च सर्वे सम्भूयतं हिः पण्डितयुगान्नितान्तपूर्ववर्तनं सूचयन्ति । तस्य भाषितभाषाप्रयोगो यथा -

वरतां त्वतां तावदार्याः । अद्यैव किल शोभनं नक्षत्रम् । (स्वप्न० ) एतदिमिदमेतत् ।-(स्वप्न.) धत्या खलु चक्रवाकवेधूर्यान्योन्यविरहिता न जीवति । होमिति करोत्वत्र भवान् ।(स्वप्न०)

अभिलषणीया वरगुणाः । ( प्रतिज्ञा० ) | दिनान्तवर्णनं यथा -

‘खगावासोपेताः सलिलमवगाडो मुनिजनः

प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुंनिवनम् ।

परिभ्रष्टो दूराद्रथमपि च संक्षिप्तकिरणो

रथं व्यावत्यसौ प्रविशति शनैरस्तशिखरम्' ।।[१]

एतैश्चान्यैः प्रमाणैर्भासस्य हि विक्रंमपूर्व ४५० मितवर्षमभितो भासस्य स्थितिकाल इति । अत्रेदमपि चिन्तनीयं यद्भासः प्रतिज्ञायौगन्धरायणे काशिराजस्यानेकशः स्मरति । काशी हि अजातशत्रोः समये एव स्थायिरूपेण मगधसाम्राज्ये सम्मिलिताऽऽसीत् । अत एवापि तस्याजातशत्रोः पूर्ववर्तित्वं सिध्यति । अवन्तिनरेशस्य प्रद्योतस्य महासेनस्याऽप्ययमेव स्थितिकालः ।

यत्तु वर्नटमहोदया मतविलासाख्येन ग्रन्थेन सह भासरूपकाण सम्बन्ध अवधार्य भासं वैक्रमाष्टमशतकभवं मन्यते यच्च बिण्टरजिस्टेनकोनोप्रभृतयो भासरूपकगतप्राकृतस्वरूपमाधारीकृत्य भासं कालिदासाश्वघोषयोरन्तरालवर्तनमत एव वैक्रमतृतीयशतकाभ्यर्णभवं मन्यन्ते तत्सर्वं दुर्भाग्यमेव काव्य जगतः । तथैव भासस्य चारुदत्तं मृच्छकटिकस्य संक्षेपमात्रं मत्वा महामहो: पाध्यायो रामावतारशर्मा भासं वैक्रमद्वादशशतकोत्तरार्द्धभवं मन्यते तदस्मानाश्चर्ययति ।

तथ्यं तु निहितं गुहायाम् किन्तु पञ्चरात्रस्य महाभारतादावष्यवणतकथा'तु भासं ततोऽपि प्राचीनं सूचयन्ति । एकाधिकभासानां कल्पना तु अन्यैव किन्तु प्रतिज्ञायौगन्धरायण-स्वप्नवासवदत्त-पञ्चरात्रप्रभृतिरूपकाणां प्रणेता भासस्तु कथमपि विक्रमपूर्वतृतीयशतकपश्चाद्वर्तीति न सम्भवति ।

भासस्य सन्ति विशत्यधिकरूपकाणि प्रथितानि । तेषु हि कानिचिन्महाभारताश्रितानि कतिचित्तुं रामायणाश्रितानि ' अथान्यानि तु उदयनचरिताश्रितानि ततोऽन्यानि लोककथाश्रितानि च सन्ति । तथैव सन्ति चे कानिचित्स्वकल्पितवृताश्रितानि च । तेषु हि -

रामायणमूलकेषु प्रतिमानाटकमभिषेकश्च । महाभारतमूलेषु मध्यमव्यायोग-दूतघटोत्कच-कर्णभार-ऊरुभङ्ग-दूतवाक्यांदीनिं । भागवताश्रित बालचरितम् । कल्पितेतिवृत्तं हि दरिद्रचारुदत्तमविमारकञ्च । प्रतिज्ञायौगन्धरायणः स्वप्नवासवदत्ताख्ये उदयनसम्बद्धे । केचित्तु प्रतिज्ञायौगन्धरायणस्वप्नवासवदत्त-अविमारकाणि बृहत्कथामूलकानि मन्यन्ते तत्कपोलकल्पनैव । तद्विपरीतमेतत्सम्भवति यद्बृहत्कथायामेतेभ्य एव कथा सङ्ग्रहीता स्यात् । अर्थतेषां संक्षेपेण परिचयोऽत्रोपस्थाप्यते ।

प्रतिज्ञायौगन्धरायणम्[सम्पादयतु]

प्रतिज्ञायौगन्धरायणं हि भासस्य प्रथम कृति-स्वप्नवासवदत्तस्य पूर्वपीठिका च । अत्र हि वत्सराजस्योदयनस्य वासवदत्ताहरणवृत्तान्तं वर्णितमस्ति । इदं हि चतुर्वङ्केषु विभक्तम् । नायक़ोऽस्य यौगन्धरायणो. वृत्तफलस्वाम्युदयनः । शत्रुवशीभूतस्योदयनस्य मोक्षाय यौगन्धरायणः प्रतिज्ञानीते करोति च स्वप्रतिज्ञां पूर्णामिति ग्रन्थोऽयमन्वर्थनामा । ग्रन्थमेवामुमनुकरोति विशाखदत्तो मुद्राराक्षसे।

स्वप्नवासवदत्तम्[सम्पादयतु]

षष्ठेष्वङ्केषु विभक्तमिदं रूपक भासस्य सर्वोत्कृष्ट कृतिः । आरुणिनाऽपहृतां वत्सभूमिमुदिदधीयौगन्धरायणोहि उदयनमन्त्री मगधेशानुकूलनाय तेन सह सम्बन्धाकाङ्क्षया वासवदत्ता दग्धेति मिथ्या प्रचारेण सर्वान् वञ्चयित्वा उदयनस्य मगधराजपुश्या पद्मावत्या सह परिणयमारचयति । ततश्च मगधेशसाहाय्येन रूमण्वान् आरुणि निपात्य उदयनस्य राज्यं पुनः प्रत्यावर्तयति । काले वासवदत्ता च पुनरात्मानं प्रकटीकरोति । दग्धेति मतां वासवदत्तामुदयनः स्वप्ने पश्यतीत्यस्य ग्रन्थस्य स्वप्नसंस्कृतसाहित्येतिहासः वासवदत्तमिति नामान्वर्थम् । कृतावस्यां भासः सर्वात्मना स्वमवतारयति । अत्र हि तस्य वर्णनानैपुण्यं स्वाभाविकचित्रणं प्रसङ्गानुकूलभाषाप्रयोगः सरसता सरलता चोदाहरणीयाः सर्वत्र । ग्रन्थमेवामुमनुजीवति रत्नावल्यां श्रीहर्षः । तत्र पद्मावतीस्थाने रत्नावली सागरिकारूपेणोपस्थापिता।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. स्वप्न १।१६
"https://sa.wikipedia.org/w/index.php?title=नाटकचक्रम्&oldid=456021" इत्यस्माद् प्रतिप्राप्तम्