नित्यानन्दशर्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



कविपरिचयः[सम्पादयतु]

नित्यानन्दशर्मा (Nityananda Sharma) १९४६ तमे विक्रमसंवत्सरे दाधीचब्राह्माणस्य माधव-कवीन्द्रस्य पुत्रत्वेन जोधपुरनगरे जनीं लेभे । अयं लाहौरनगरे ओरियन्टल-कॉलेजे अधीतवान् । तत्पश्चादनेन काव्यमालायाः सम्पादनकार्यं कृतम् । जोधपुरनरेशस्य प्रेरणया अनेन जोधपुरे नोबलस्कुल नामके सामन्तीयविद्यालये संस्कृताध्यापनं कृतम् । ततः सेवानिवृत्तिं प्राप्य राजकीयपुस्तकालये आजीवनम् अध्यक्षपदे कार्यं कृतवान् ।

काव्यरचना[सम्पादयतु]

नित्यानन्दशर्माणः प्रमुखाः तिस्रः काव्यरचनाः सन्ति रामचरिताब्धिरलं पुण्यश्रिचरितं हनुमद्दूतं चेति ।

रामचरिताब्धिरलम्[सम्पादयतु]

अस्मिन् चतुर्दशसर्गात्मके महाकव्ये रामायणकथा वर्णिता। अस्य श्लोकानामाद्याक्षराणि वाल्मीकीयरामायणस्य प्रथमाध्यागतैः अक्षरैः साम्यमावहन्ति । अस्मिन् शास्त्रकाव्ये रामकथामाध्यमेन प्रायेण सर्वेषाम् अलङ्काराणाम् उदाहरणानि प्रस्तुतानि ।

पुण्यश्रिचरितम्[सम्पादयतु]

अस्मिन् महाकावये १८ सर्गाः सन्ति । अत्र पुण्यश्रीनाम्याः जैनसन्ध्याः जीवनचरितं वर्णितम् ।

काव्यशैली[सम्पादयतु]

नित्यानन्दशर्मणा वैदर्भारीतिः अवलम्बिता । कविः प्रकृतिचित्रणे परमनिपुणः । प्रकृतेः आलम्बनोद्दीपनयोः उभयोरपि रुपयोः चित्ताकर्षकचित्राण्येतेन प्रस्तुतानि । अस्य काव्येषु वर्णनस्य स्वाभाविकता विशदता च हृदयमाकर्षतः । अस्य वर्णनचातुरी परममनोहरा । यथा-

पिष्टातकैरिव पलाशसुमैः प्रपृर्णं
तत्प्राङ्गणं युवजनाय सुरोचतेऽध्य ।
सर्वे स्तुवन्ति पिकवद्दिन उच्चवंश –
वंशीं गिरिधर्मति नृत्याति तेऽन्तरात्मा । (राम ०९/३४ )

अस्य अलङ्कारयोजना प्रयत्नसन्ध्या न भावानुकूलाः अलङ्कारा काव्ये स्वतः समाविष्टा । अर्थान्तरन्यासस्य स्वाभाविकः प्रयोगो यथा –

प्रस्थितो हिमवतः स गौतमः
कृत्यमेतदवसाय योगतः
तीर्णसिन्ध्विव मनो न्यवर्तत
नांशतोऽप्यसुकरं हि योगिनाम् ।

मालोपमायाः सौन्दर्यं यथा -

तत्क्षणे समजनि प्रभाश्मतो
मेघतस्तडिदिव प्रसृत्वरी ।
वंशतो मनिरिवोच्चकासती
गुप्तपावकशिखाऽरणेरिव ।।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नित्यानन्दशर्मा&oldid=419233" इत्यस्माद् पुनः प्राप्तिः