निरुक्तस्य टीकाकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

निरुक्तस्य टीकाकाराः निरुक्तशास्त्रस्य विस्तारे महद्योगदानम् अयच्छन्। साम्प्रतं निरुक्तस्योपरि सर्वाभ्यो विस्तृता सम्पूर्णा च या टीकोपलब्धा भवति सा विद्यते दुर्गाचार्यवृत्तिः । परञ्चास्य विषयस्य नेयं वृत्तिः प्रारम्भिको ग्रन्थः । एतत्तु निश्चितमेव । दुर्गवृत्तौ चतुर्षु स्थलेषु कस्यापि वात्तिककारस्य श्लोकाः उद्धताः सन्ति, प्रसंगोपात्तेन सुस्पष्टं विज्ञायते यत् तद्वातिकमस्मिन्नेव निरुक्ते आसीत् । इति तु पूर्वमपि कथितं यत्-निरुक्तं भाष्यरूपमस्ति । अतोऽस्योपरि वार्तिकस्य रचनाऽयुक्ता नास्ति । निरुक्तवार्तिकस्यास्तित्वमेकेनान्येन ग्रन्थेनापि प्रमाणिता भवति । मण्डन मिश्रेण विरचितस्य 'स्फोटसिद्धि'नामकस्य ग्रन्थस्य गोपालिकाटीकायां' निरुक्त वात्तिकस्य षट् श्लोकाः समुद्धृताः सन्ति । इमे श्लोकाः निरुक्तस्य १।२० इत्यस्य व्याख्यानभूताः सन्ति ।

अस्मात् कारणात् आभ्यां प्रमाणाभ्यामेष निष्कर्षः समायाति यत्-निरुक्त वार्तिकग्रन्थस्यास्तित्वमासीदेव । प्राचीनोऽयं ग्रन्थः इत्यत्रापि न कोऽपि सन्देहः । परञ्चाद्यपर्यन्तमस्य ग्रन्थस्योपलब्धता न विज्ञायते । यद्यस्य ग्रन्थस्योद्धारो भवेत् तदा वेदार्थानशीलनस्येतिहासे एकस्य महत्त्वपूर्णस्य प्रामाणिकस्य च वस्तुनः प्राप्तिर्भवेत् । तर्थव बर्बरस्वामिनष्टीकाया अपि तादृशी स्थितिवर्तते । इमे महानुभावाः स्कन्द स्वामिना पूर्वटीकाकारेषु स्मृताः सन्ति । अपि चैते दुर्गाचार्यादपि प्राचीनतरा इति विद्वांसः कथयन्ति । यावदस्य ग्रन्थस्योपलब्धिर्न भवति तावद् वयं सुनिश्चितरूपेण न कथयितुं समर्थाः यद् बर्बरस्वामिनः पूर्वनिर्दिष्टाद्वातिककाराद्भिन्ना: अभिन्नाः वा।

दुर्गाचार्य:[सम्पादयतु]

निरुक्तस्य प्राचीनोपलब्धष्टीकाकारो दुर्गाचार्य एवास्ति । परञ्चं नायमाद्यष्टीकाकारः इति सुनिश्चितम् । अनेन महता स्ववृत्तौ प्राचीनटीकाकाराणां व्याख्याया अनेकत्रोल्लेखः कृतः । वेदानामिमे कीदृशा: मर्मज्ञा आसन् इति तु दुर्गवृत्तेः साधारणपाठकानप्यनायासेन प्राप्तुं शक्यते। अस्यां वृत्ती निरुक्तस्य तल्लिखितमन्त्राणाञ्चातिविस्तरेण सह व्याख्या प्रस्तुता विद्यते । निरुक्तस्यात्र प्रति शब्दः समुद्धतः । अस्य वृत्तेः आधारमादाय समग्रस्य निरुक्तस्य शाब्दिकस्वरूपं स्थापयितुं क्षमो भविष्यति कश्चिदपि पाठकः । एषां वैदुष्येण सह नम्रताऽपि प्रशंसनीया विद्यते । निरुक्तस्य दुर्घटांशानां व्याख्यावसरे एभि: सुस्पष्टीकृतं यत्-एतादृशानां काठिन्ययुक्ताना मन्त्राणां व्याख्याने विदुषामपि मतिः कुण्ठिता रुद्धा वा जायते । वयन्तु अस्य विषये एतावन्मानं विद्यः । तथाहि तच्छब्दै रेव, यथा--

'ईदृशेषु शब्दार्थन्यायसङ्कटेषु मन्त्रार्थघटनेषु दुरवबोधेषु मतिमतां मतयो न प्रति हन्यन्ते, वयं त्वेतावदत्रावबुध्यामहे इति ७३१ ।।

अपरञ्च एभिः क्वचित्-क्वचित् स्वयमेव नूतनस्य पाठस्य योजना कृता। अनेन स्पष्टं भवति यत्--एभि: निरुक्तस्य व्याख्यायां सूक्ष्मानुसन्धानेन कार्य सम्पादितम् । अस्माकं सौभाग्येनेयं वृत्तिः अद्य समुपलब्धा विद्यते, नो चेत् निरुक्तस्य पद-पदार्थाव गमे मतिस्तिरोहिता भवेत् । परञ्च दुःखस्य विषयोऽयं वर्तते यत्-स्वनामधन्यस्य दुर्गाचार्यस्य विषयेऽस्माकमैतिहासिकं ज्ञानमतिस्वल्पमेवास्ति । इमे महाशयाः कापिष्ठल शाखाध्यायिनो वशिष्ठगोत्रिणः सन्तीति एभिः स्वयमेव निरुक्ते ४।१४ इत्यस्मिन् स्थाने प्रकटितम् । प्रत्येकाध्यायस्य समाप्तौ वृत्तेः पुष्पिकेदशी विद्यते- 'इति जम्बूमार्गाश्रम वासिन आचार्य भगवदुर्गस्य कृती ऋज्वर्थायां निरुक्तवृत्तौ अध्यायः समाप्तः ।

इत्यनेन ज्ञायते यत्-इमे जम्बूमार्गाश्रम-निवासिन आसन् । परञ्च स्थानमिदं कुत्रास्ति इत्यस्य समुचितोत्तरप्रदानमद्यत्वे कठिन मस्ति । डाक्टरलक्ष्मणस्वरूप महोदयास्तु एतत् स्थानं काश्मीर राज्यस्य ( प्रदेशस्य.) सुप्रसिद्ध नगरं 'जम्बू' इत्यामनन्ति । परञ्चतद्विपरीतं श्रीमतो भगवद्दत्तस्य विदुषः एतदनुमानं विद्यते यदेते गुर्जरप्रदेशस्य निवासिनः आसन् । तैमैत्रायणीसंहिताया अधिकमुद्धरणं स्ववृत्ती प्रदत्तमस्ति । प्राचीनकाले संहितेयं गुर्जरप्रदेशे विशेषरूपेण सुप्रसिद्धाऽऽसीदिति । अस्यानुमानस्य अयमेवाधारो विद्यते । - फलतो दुर्गाचार्यस्य कालनिरूपणं साम्प्रतं यथार्थरीत्या नाभूत् ।

अस्याः वृत्तेः सर्वतोऽधिका प्राचीना हस्तलिखिता प्रतिः १४१४ वैक्रमाब्दस्य विद्यते । अतो दुर्गा चार्यस्य कालोऽस्मात्प्राचीनः स्वीकर्तव्यः । ऋग्वेदस्य भाष्यकाराः उद्गीथमहाशयाः दुर्गाचार्यस्य वृत्त्या परिचिताः प्रतीयन्ते । आचार्योद्गीथस्य काल: विक्रमस्य सप्तम शतको विद्यते । परिणामतो दुर्गाचार्यस्य कालः सप्तमशतकादर्वाचीनो नैव स्वीकर्तव्यः । न तावत् स्वीकारयोग्य इति भावः ।

स्कन्दमहेश्वरः किं वा स्फन्दस्वामी[सम्पादयतु]

एतेषां टीका निरुक्तस्यान्यटीकाकारेषु प्रकाशिता विद्यते । सेयं टीका प्राचीना पाण्डित्यविलसिता च विद्यते । इमे स्कन्द स्वामिनस्ते एव सन्ति, यः ऋग्वेदस्योपरि भाष्यं लिखितम् । एते गुर्जरप्रदेशस्य सुविख्यातायाः नगर्याः वलभ्याः निवासिनः आसन् । एषां पितुर्नाम भर्तृध्रुव आसीत् । समयश्च वैक्रमाब्दस्य सप्तमशतकस्योत्तरा? विद्यते । एषामृग्वेदस्य भाष्यं प्रामाणिक मस्ति, सहैव स्वल्पाक्षरे स्थितेऽपि सारगर्भितमस्ति । एतादृर्शविशिष्टविद्वद्भिविरचित निरुक्तटीकाऽपि स्ववैशिष्टयं स्थापयति ।

निरुक्तनिचयः[सम्पादयतु]

अस्य ग्रन्थस्य रचयिता कोऽपि वररुचिर्नामधेयः। ने निरुक्तस्य साक्षाद्वतिनी व्याख्या, अपि तु निरुक्तसिद्धान्तानां प्रतिपादिका शतश्लोकानां स्वतन्त्रा व्याख्या विद्यते । निरुक्तस्यासां टीकानामनुशीलनेन वयं भाषाशास्त्रीयेष्वनेक ज्ञातव्यविषयेषु प्राप्नुमः । निरुक्ते तद्वृत्तिषु च प्रदत्तसङ्केतान् गृहीत्वा मध्ययुगस्य विद्वद्भिर्वेदभाष्यनिबन्धने साफल्यं प्राप्तम् । मध्यकालीनभाष्यकाराः स्वसिद्धान्तानां प्रकटीकरणे एभ्य: ग्रन्थेभ्यः स्फूति = प्रेरणां च प्रापुः । अस्मिन् विषये नास्ति सन्देहा वसरः । एषां ग्रन्थानामैतिहासिक महत्त्वं वेदार्थानुशीलनविषयेऽत्यधिकमस्ति । सायणा चार्यास्तु यास्कस्य दुर्गाचार्यस्य चान्यव्याख्याकाराणाञ्चाधमर्णतां धारयन्ति । तेरेतत्तथ्यं स्पष्टमेव स्वीकृतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=निरुक्तस्य_टीकाकाराः&oldid=474813" इत्यस्माद् प्रतिप्राप्तम्