निवेदिता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


कृपया एषः लेखः भगिनी निवेदिता -लेखेन सह संयोज्यताम् ।


भगिनी निवेदिता
Sœur Nivedita.jpg
भगिनी निवेदिता भारते
जन्म 28 October 1867
County Tyrone, ऐर्लाण्ड्
मृत्युः 13 October 1911(age 43)
डार्जलिङ्ग्, पश्चिमबङ्गालराज्यम्, भारतम्

मार्गरेट् नोबल् ऎर्लण्ड्देशीया युवतिः | स्वामिन्ः विवेकानन्दस्य आध्यात्मिकशक्त्या प्रभाविता एषा स्वदेशतः भारतदेशम् आगत्य अत्रत्यानां जनानां सेवां कृतवती | अतः एतस्यै निवेदिता इति नाम दत्तवन्तः भारतीयाः | ईश्वराय समर्पितात्मा एषा अन्वर्थनाम्नी |बालेभ्यः, तज्जननीभ्यश्च विद्यादानं कृतवती एषा | प्लेग्, क्षामः, जलप्लवः इत्येवंविधाः विपदः यदा यदा सामान्यजनजीवनम् एव व्यस्तमकुर्वन् तदा तदा करुणापूर्णा सेवामूर्तिः एषा महतीं सेवां कृतवती | त्याग-समर्पण-सेवाभावनां सहोदरी निवेदिता शाश्वतिकी प्रतीका | अस्माकं देशः क्लिष्टसमस्यासु डोलायमानस्थितौ आसीत् तस्मिन् समये । पश्चिमदेशीयाः केचन तदा सेवाभावेन साहाय्यं कर्तुम् आगतवन्तः । तेषु कुमारी मार्गरेट् एका । अनन्तरं सा एव 'निवेदिता’ नाम्ना प्रसिद्धिं प्राप्तवती । कष्टे स्थितानां भारतीयानां सेवायै सा ऐर्लण्डतः आगतवती। भारतदेशे इव ऐर्लण्ड्देशेऽपि तस्मिन् समये स्वतन्त्रतायै सङ्ग्रामः प्रचलति स्म । जान् नोबेलः एकस्मिन् क्रैस्तवप्रार्थनामन्दिरे मतप्रबोधकरूपेण कार्यं करोति स्म । तस्य नाडीषु देशभक्तिः पूर्णा आसीत् । भगवान्, देशभक्तिः इति विषयद्वयस्यैव सः प्राधान्यं यच्छति स्म । तस्य पुत्रस्य शाम्यूल् नोबेलस्य विवाहः मेरी हेमिल्टन् इति युवत्या सह जातः । शाम्यूल् अपि पितेव मतप्रबोधक एव । तयोः दम्पत्योः १८६७त्मे वर्षे अक्टोबरमासे २८ दिनाङ्के एका सुन्दरी स्त्रीशिशुः अजायत । तस्याः मार्गरेट् इति नाम कृतवन्तौ | पूर्वजानां सुगुणाः मार्गरेट्शिशुं बाल्ये एव अनुवृत्ताः । पितामहतः सा धैर्यसाहसादीन् देशभक्तेः प्रेरणां च प्राप्तवती । पितृतः निर्धनानां सेवां, तेषु दयाम् अभ्यस्तवती । मातृतः सैन्दर्येण सह विनयादिगुणाः तया लब्धाः । बाल्यतः एव पितामहेन, मातापितृभ्यां च सह गत्वा कुटीरेषु निवसतां निर्धनानां कृते साहाय्यं करोति स्म । तथा बाल्यतः एव सेवाभावः तस्याः? अविनाभावः बन्धः इव अभवत् । एकवारं तस्याः पितुः सखा कश्चन तस्याः गृहमागतवान् । मार्गरेट्व्यवहारेण सः अधिकं सन्तुष्टः । प्रस्थितः सः बालिकां मार्गरेटं 'महोन्नतः भारतदेशः मां आहूतवान् । अहं तत्र गच्छन्नस्मि । मार्गरेट् ! प्रायः भवत्याः सेवा तस्य देशस्य आवश्यकी भवेत् ।’ इत्युक्तवान् । सः च प्रमुखः मतगुरुः आसीत् । सः भारतदेशे बहुभ्यः वत्सरेभ्यः तत् कार्यं कुर्वन्नासीत् मागरिटबालायाः हृदये तस्य बचनानां प्रभावः जातः । तस्याः नयनयोः नूतनी कापि विद्युत् द्योतिता इवाभवत् ।

यदा आह्वानम् आगतम्[सम्पादयतु]

मार्गरेट्पितुः शाम्यूलस्य व्ययः, कार्यमपि अधिकमासीत् । तस्य आयः तु अल्पः एव आसीत् । सः अन्येषामपि साहाय्यं करोति स्म । अधिककार्यकरणेन तस्य स्वास्थ्यहानिः अभवत्, सः रुग्णः जातः । केवलं ३४ वर्षे वयसि एव सः दिवङ्गतः । तस्य मूल्यवत् जीवनं समाप्तम् । मरणात् पूर्वं सः पत्नीं मेरीम् आहूय 'मार्गरेट् कृते यदि भारतदेशतः आह्वानम् आगच्छति तां प्रेषयतु । तस्याः योग्यतयाः अनुगुणम् अनेकानि अद्भुतानि कार्याणि साधयितुं सा शक्नोति’ इत्युक्तवान् । भर्तुः मरणानन्तरं मेरी अपत्यानि स्वीकृत्य जन्मगृहं गतवती। तत्रत्याः सर्वे तस्यां प्रेम दर्शितवन्तः । उत्तमेन अनुशासनेन सा अपत्यानि वर्धयति स्म । तथा कानिचन वर्षाणि अतीतानि । मार्गरेटं, तस्याः अनुजां च मातामह्यादयः विद्याभ्यासार्थं होलीफाक्सकलाशालां प्रेषितवन्तः । तत्र छात्रावासे एते द्वे प्रविष्टवत्यौ । सः छात्रावासः अनुशासनस्य प्रतिरूपम् इव आसीत् । तत्र सहोदरीद्वयं सम्यक् अध्ययनं कुरुतः इति कारणतः तत्रत्याः अध्यापकाः सन्तुष्टाः । एते अधिकतया आद्रियेते स्म । एतयोः विषये तेषां बहु वात्सल्यम् आसीत् । मार्गरेट् सङ्गीतं, चित्रलेखनं च प्रायः बहु इच्छति स्म । जीवशास्त्रे तस्याः आसक्तिः अधिका आसीत् |

उपाध्यायिनी[सम्पादयतु]

१८८४तमे वर्षे मार्गरेट् १७ वर्षीया युवतिः अभवत् । तदा तस्याः विद्याभ्यासोऽपि समाप्तः । तदेव न, केस्विक्पाठशालायां उपाध्यायारूपेण स्थानमपि तया लब्धम् । सा तत् स्थानम् आनन्देन स्वीकृतवती । तस्यां लघुपाठशालायां सा उपाध्यायिनीरूपेण प्रविष्टवती । भविष्यति सर्वज्येष्ठौपाध्याया भवितुम् एषः एकः आरम्भः जातः । शिशूनां पाठबोधनं तथा न सुकरम् । शिशवः गानेषु क्रीडासु च उत्साहं प्रदर्शयन्ति । अतः गानैः क्रीडाभिः च तेषां प्रबोधः करणीयः । मार्गरेट् तत् पन्थाह्वानमिव स्वीकृतवती । शिशूनां सुकरं विद्याबोधनं कर्तुं सा बहून् प्रयोगान् कृतवती। १८९२ वर्षे सा स्वयम् एकं पाठशालाम् आरब्धवती । अल्पकाले एव उत्तमा अध्यापिका इति कीर्तिमपि सा प्राप्तवती । अभियन्ता कश्चन विदेशीयः तस्याः गुणैः सन्तुष्टः । तयोरन्योन्यप्रीतिः जाता । तेन सह तस्याः विवाहोऽपि निश्चितः । किन्तु तस्याः ललाटरेखा अन्यथा आसीत् । सः युवा रुग्णः सन् एव दिवङ्गतः । तस्याः सुकुमारहृदयस्य कठिनः आघातः एव जातः । किन्तु सा सपदि एव समाश्वस्ता पाठशालाकार्येषु प्रविष्टा एतस्मात् दुःखात् बहिरागतवती ।

गुरोः प्राप्तिः[सम्पादयतु]

१८९५ तमे वर्षे तस्याः जीवने सम्पूर्णं परिवर्तनं जातम् । तस्याः सखी मार्गेसनन् कस्यचित् भारतीयसाधोः परिचयं कारयितुं तां गृहम् नीतवती । सः रविवासरः । मार्गरेट् स्वीयानुभवम् अनन्तरम् अवदत् । तस्याः वचनानुसारं तत्र काषायवस्रधारी कश्चन साधुः पद्मासनमुद्रायाम् उपविष्टवान् । रक्तवर्णीयं वस्त्रं स्वकटौ बद्धवान् । ध्यानमुद्रायां काञ्चन मन्त्रान् संस्कृतभाषया उच्चारितवान् । तस्य कण्ठस्वरः अत्यन्तं मधुरः आसीत् । तस्य मुखे आकर्षणीयेन दैवस्वरेण शुद्धया वाचा च तत्रत्याः सर्वे मन्त्रमुग्धाः अभवन् । 'शिव शिव' इति पवित्रोच्चारणेन ते प्रभाविताः । किन्तु मार्गरेट् प्राच्यदेशीयां संस्कृतिं पूर्वमेव किञ्चिज्जानातीति कारणतः तस्य साधोः प्रवचनेषु नूतनता कापि न दृष्टा । किन्तु स्वामिनः अलौकिकं स्वरूपं ताम् आकर्षत् । वर्षद्वयात् पूर्वं १८९३ तमे वर्षे चिकागोनगरे प्रवृत्तस्य सर्वधर्मसम्मेलने आह्वानं विनापि भागं गृहीत्वा स्वीयेन प्रेरणभाषणेन कोटिशः अमेरिकावासिनां हृदयानि जितवान् स्वामिविवेकानन्दः एषः साधुरेव इति विषयं सा ज्ञातवती । स्वामिनः उपदेशेषु कोऽपि नूतनः विषयः नास्तीति मार्गरेट् यद्यपि बहिः वदति स्म, तथापि तस्याः मनस्तु तं वादं नाङ्गीकृतवत् । स्वामिनः प्रवचनानि तस्याः मनसि सञ्चलनम् अजनयन् । तस्याः मनसि परिवर्तनस्यारम्भः अभवत् ।‘केवलं भगवानेव सत्यम्’ इति स्वामिनः वचनं न नूतनं, तथापि प्रभाववत्या रीत्या तेन उक्ते विधाने तु नूतनता आसीत् । 'सर्वोऽपि धर्मः भगवन्तं प्राप्तुं प्रधानः एव मार्गः’ इति स्वामी उक्तवान् । जनानाम् आकर्षणार्थं स्वामिनः प्रभावशालि रूपमात्रं पर्याप्तम् आसीत् । सः भगवतः कृते सर्वं समर्पितवान् । तस्य उपदेशाः केवलं वचनमात्रेण न आसन् | जीवने अनुष्ठानरूपेण दृश्यन्ते स्म | स्वस्य अन्तरात्मनः अनुभवाश्च सत्यरूपश्च आसन् ते । मार्गरेट् शनैः स्वामिनः अनुवर्तिनी जाता । तस्य प्रवचनानि प्रसुप्तं तस्याः आत्मानम् अजागरयन् । ज्ञानरूपप्रकाशे तस्याः मनसः अन्धकारः दूरीभूतः । गुरोः मन्त्राणां प्रभावेण मनसः सन्देहाः सर्वेऽपि नष्टाः, तस्य अनुभावः, ज्ञानं च भारतदेशस्य सेवां कर्तुं प्रैरयताम् इति मार्गरेट् स्वयं लिखितवती । कदाचित् प्रवचनेषु स्वामी "जनानां कृते स्वान् समर्पयतां, भगवत्कार्यं विना अन्यकार्यमकुर्वतां, स्वीयम् किमपि वा अनिच्छताम् ......... एतादृशानां २० महिलानां, २० पुरुषाणाम् आवश्यकता अधुना विश्वे अस्ति ।" इत्युक्तवान् । 'एतादृशाः महिलाः, पुरुषाः भवत्सु केऽपि सन्ति वा ?’ इति स्वामी पृष्टवान् । तस्याः मनः 'अहं सिद्धा’ इत्युक्तवत् । तस्याः सङ्कोचस्वभावः तानि अक्षराणि वक्तुं प्रत्यषेधत् । क्स्मिंश्चित् दिने भारतीयमहिलाः उद्दिश्य चर्चां कुर्वन् स्वामी "अस्माकं देशे बालिका कापि एतावत्पर्यन्तं पाठशालायाः मुखं न दृष्टवती । महिलाः विद्यावत्यः यावत्पर्यन्तं न भवन्ति तावत्पर्यन्तम् अस्माकं देशः प्रगतिं न प्राप्नोति ।" इत्युक्तवान् । तां पश्यन् सः 'अस्माकं देशस्य महिलानाम् अभिवृद्दध्यै, विद्यायै च मम सविधे अनेकाः प्रणालिकाः सन्ति । ताः तासां प्रणालिकानां कार्यान्वितानि कर्तुं भवती मम साहाय्यं करोति वा’ इति पृष्टवान् । स्वविषये स्वामिनः विश्वासेन मार्गरेट् प्रभाविता । किन्तु तादृशं मतत्कार्यं निर्वोढुं योग्यता आत्मनि अस्ति वा इति सन्देहे मग्ना सा । तस्याः विचारं ज्ञात्वा स्वामी 'विश्वं परिवर्तयितुं भवती स्वां सिद्धां करोतु । तदा भवत्या सह केचन आगमिष्यन्ति । आत्मानं जागरयतु’ इत्युक्तवान् । स्वदेह्ं परित्यज्य स्वामिनः देश एव स्वीयः इति भावयन्ती तत्र गन्तव्यम् इति साहसोपेतं निर्णयं स्वीकृतवती मार्गरेट् । स्वदेशतः बहुदूरे स्थितं भारतदेशं गत्वा तत्र सेवां कर्तुं स्वयं सिद्धा अभवत् सा ।

भारतस्य आह्वानम्[सम्पादयतु]

तस्याः इदानीं पठने, पाठने चर्चासु च आसक्तिः नष्टा । स्वामिनः आह्वानमेव तस्याः कर्णयोः प्रतिध्वनति स्म । भारतदेशः एव स्वाम् आह्वयतीति भावितवती सा । केवलं प्राच्याम् एव प्रकाशः अस्तीति तस्याः भाति स्म । सः प्रकाशः एव तां प्राचीं प्रति आकृष्टवान् । 'मार्गरेट् ! भवदीयं स्थानं केवलं भारतदेशे एव | स्वयं यदा सिद्धा भवति तदैव एतत् शक्यते’ इति स्वामिनः वचनानि तस्याः कर्णयोः पदे पदे श्रूयन्ते स्म । किन्तु स्वयंसिद्धता तथा सुकरं कार्यमपि नास्ति खलु ! स्वामी भारतदेशस्य चित्रपटं तस्याः सम्मुखे प्रसारितवान् । निर्धनता, अस्पृश्यता, द्वेषः इत्यादिभिः दुर्लक्षणैः पूर्णः भारतदेशः स्वस्य नेत्राभ्यां द्रष्टव्यः तया इति स्वामी सूचितवान् । अधिकारे स्थितानां अङ्गेलेयानां तस्यां गौरवभावः न भविष्यतीति, भारतीयाः तां सन्देहदृष्ट्या, द्वेषेण च द्रक्ष्यन्तीति सः उक्तवान् । स्वीयजनानेव अस्पृश्यान् मन्यमानाः सन्ति अस्मद्देशीयाः इति स्वामी ताम् उक्तवान् । तादृशदेशमहिलाः पाठयितुं, तासां कृते सेवां कर्तुं तस्यै भारतदेशतः आह्वानम् आगतम् । भारतीयाः महिलाः स्वपुत्रान् विदेशीयमहिला पाठयति इत्येतम् अंशं न अङ्गीकुर्युः | समीपम् आगमनम् अपि न सहेयुः । तादृश्यः सङ्कुचितस्वभावाः ताः । तर्हि किं करणीयम् इति सन्देहावस्थायाम् आसीत् मार्गरेट् । 'भारतीयानां महिलानां कृते विद्याबोधनार्थं भवदृशीं महिलामेव इच्छामः । भारतस्य इदानीम् एकस्याः सिंह्याः आवश्यकता अस्ति’ इति अवदत् गुरुः । 'भारतदेशेन एतावत्पर्यन्तं महोन्नताः महिलाः न निर्मिताः । तादृशी महिला विदेशतः आनेतव्या अस्ति । भावत्यां स्थिता विद्या, शुभकरं चिन्तनम्, पवित्रता, अनुरागः, दृढनिश्चयः -- सर्वेभ्योऽपि विशिष्टतया उष्णं रक्तम् इत्यादिभिः गुणैः युक्तायाः महिलायाः आवश्यकता अधुना भारतस्यास्ति।’ इति सः तस्मिन् पत्रे लिखितवान् आसीत् । 'अत्र आगमनात् पूर्वमेव सम्यग् चिन्तयतु । मम पक्षतः अहम् एतावदाश्वासनं ददामि । भवति भारतस्य कृते कार्यं करोतु, न करोतु - अहं तु भवत्याः पक्षे अस्मि । गजस्य शृङ्गं यथा एकवारम् बहिरागच्छति चेत् पुनः अन्तः गन्तुं न शक्नोति तथैव मानवस्य वचनमपि । तस्य प्रतिस्वीकरणं न भवेत् ।’ इति स्वामी लिखितवान् ।

भारतभूमौ[सम्पादयतु]

मार्गरेट् यस्यां नौकायाम् आगच्छति स्म सा नौका भारदेशस्य कलकत्ता नौकाश्रयं १८९८ जनवरी २८ तमे दिनाङ्के प्राप्नोत् । तस्याः स्वागतार्थं स्वामी विवेकानन्दः स्वयं तत्र गतवान् । मार्गरेट् स्वीयेन मृदुस्वभावेन अत्यल्पदिनेष्वेव कलकत्ताजनैः सह मिलितवती । तत् नगरमेव तस्याः कर्मभूमिः अभवत् । तत्रत्यवङ्गभाषायाः शिक्षणं प्राप्तुं तया अधिकः समयः न स्वीकृतः । वङ्गजनानां विश्वासं प्राप्तुं, तान् प्रभावितान् कर्तुं तया वङ्गसाहित्यस्य अध्ययनं करणीयम् आपतितम् । केषाञ्चन सप्ताहानाम् अनन्तरं स्वामिना ज्ञाते श्रीमती सारा.सि.बुल् कुमारी जोसफीन् मैक् लियोड् इति अमेरिकादेशीये महिलाशिष्ये भारतम् आगतवत्यौ | तासां तिसृणां स्नेहवृद्धिरभवत् । तासां निवास एव आश्रमरूपेण परिवृतः । स्वामी विवेकानन्दः स्वशिष्यैः सह तम् आश्रममागच्छति स्म । तस्यागमनेन स प्रदेशः अलौकिकतेजसा परिपूर्णः भवति स्म । स्वामी अनेकघण्टाः उपदेशप्रदाने लीनो भवति स्म । भारतदेशस्य तस्य इतिहासस्य विषये तस्य भाषाणानि भवन्ति स्म । एवमेव नायकाः, नायिकाः, ऋषिमुनयः, तैः रचिताः ग्रन्थाः वेदपुराणानि, कवयः, देशनिर्माणम् .....एवम् अनेकान् विषयान् स्वेच्छया वदति स्म स्वामी । स्वामिनः वाक्प्रवाहे पतित्वा परवशाः भूत्वा शृण्वन्तः लोकं विस्मरन्ति स्म जनाः । तेषाम् उपदेशानां श्रवणसमये ते स्वामिना उक्ते प्रपञ्चे एव विहरन्ति स्म । स्वामिनः शिष्या मिस् मैकलियोड् "इतोऽपि उत्तममहं कथं भवन्तं सेवेयम् ?" इति पृष्ट्वती । तां समादधत् स्वामी "एतं देशम् इच्छतु, पूजयतु, एषा एव पार्थना.... एषा एव पूजा....एतदेव सर्वम्" इत्युक्तवान् । तानि वचनानि श्रुतवती मार्गरेट् एतानि वाक्यानि स्वस्य कृते एवेति चिन्तितवती।

निवेदिता इति नामकरणम्[सम्पादयतु]

दक्षिणेश्वरस्य स्वामी रामकृष्णपरमहंसः विवेकानन्दस्य गुरुः । सः १८८६ तमे वर्षे दिवङ्गतः । रामकृष्णपरमहंसस्य धर्मपत्नीं शारदादेवीं सर्वे भक्तिभावेन मातरमिव पूजयन्ति स्म । मार्गरेट्कृते, तस्याः सहचारिणीनां कृते कार्यसाधनार्थं माता प्रेरणां दत्त्वा आशिषा अनुगृहीतवती । हिन्दुसंस्कृत्याः बिम्बभूता शारदादेवी अन्यधर्मान्, संस्कृतीः अनुसरन्तीः अस्मादृशीः विदेशीयमहिलाः गाढम् अलिङ्गति वा इति सन्देहः तस्याः मनसि अवर्तत । किन्तु शारदादेवी प्रेमवात्सल्ययोः अपरं स्वरूपमिति सा न जानाति स्म । ताः सर्वाः शारदादेवी अत्यन्तं प्रेम्णा स्वीयबाला इव क्रोडे स्वीकृत्य आलिङ्ग्य आशिषा अनुगृहीतवती । तस्याः जीवने १८९८ मार्च २५ दिनाङ्कः अविस्मरणीयः । तस्मिन् दिने विवेकानन्दः तां भगवते, भारतदेशसेवायै अङ्कितवान् । सः शुक्रवासरः । स्वामी ताः मठं प्रति नीतवान् । तत्र शिवपूजा कथं करणीया इति विवृतवान् । मार्गरेट्द्वारा पूजां कारितवान् । पूजायाः समाप्तेः अनन्तरं स्वामी आशिषा अनुदृह्य तस्याः नाम 'निवेदिता' इति परिवर्तितवान् | निवेदिता नाम 'समर्पिता’ इत्यर्थः । सा तस्मिन् दिने ईश्वराय समर्पिता । तदनन्तरं स्वामी बुद्धभगवतः पादयोः पुष्पाणि अर्पयितुम् आदिष्टवान् । तथा मार्गरेट् निवेदिता जाता । पाश्चात्यसंस्कृतिः भारतीयसंस्कृतिरूपेण परिवृत्ता । तस्मिन् ग्रीष्मावसरे स्वामी हिमाल्यस्थाल्माडां प्रति प्रयातः । तेन सह निवेदिता, केचन शिष्याश्च आसन् । मार्गे सर्वत्र स्वामी शिष्यान् उपदिशति स्म ।

पाठशालायाः प्रारम्भः[सम्पादयतु]

१८९८ नवम्बर् १३ तमे दिनाङ्के एकं लघुभाटककुटीरं स्वीकृत्य निवेदिता पाठशालायाः आरम्भं कृतवती । आकर्षणीयव्यक्तित्वेन सा अचिरकाले एव प्रसिद्धिं प्राप्तवती । तस्याः कण्ठे या रुद्राक्षमाला प्रकाश्ते स्म सा तस्याः साधुस्वभावं प्रकटयति स्म । जनाः ताम् आदरेण वीक्षमाणाः श्रद्धया तां नमस्कुर्वन्ति स्म । पाठशाला तु प्रारब्धा किन्तु छात्राणां प्राप्तौ समस्या जाता । निवेदिता प्रतिगृहं गत्वा बालान्, विशिष्य बालिकाः पाठशालां प्रेषयितुं प्रार्थितवती। किन्तु अज्ञानां भारतीयानां तु बालिकानां पाठशालाप्रेषणं हास्यास्पदं दृश्यते, आश्चर्यं च जनयति स्म । केचन तु निवेदितां तस्मिन् समये एव विमृष्टवन्तश्च । किन्तु स्वकार्ये निमग्ना सा काश्चन बालिकाः संगृहीतवती । तासां कृते पठनं, लेखनं च अभ्यासितवति । तेन सह चित्र-शिल्प-वर्णलेखनादिकलासु परिज्ञानमपि कल्पितवती । स्वीयमृदुस्वभावकारणतः निवेदिता अचिरात् एव सा जनहृदयेषु स्थानं प्राप्तवती । उत्तरकालिकतायां सा "सहोदरी निवेदिता" इति प्रसिद्धिं प्राप्तवती । एकस्मिन् दिने एका महिला निवेदितायाः समीपमागत्य "भगिनि ! त्वरया मम गृहमागच्छतु । मम अन्तिमः पुत्रः श्वसितुं न शक्नोति" इति रुदती उक्तवती । तया निस्सहायया सह निवेदिता प्रस्थिता । किन्तु तयोः गृहगमनाभ्यन्तरे एव सः बालः मृतः । दुःखिता सा माता बालकम् आश्लिष्य नैकाः घ्ण्टाः रुदितवती । अन्ते निवेदितायाः हस्तौ गृहीत्वा सा 'भगिनि ! इदानीं मया किं करणीयम् ? मम पुत्रः कुत्र गतवान् ?" इति अपृच्छत् । निवेदिता तां 'मातः तव बालः कालीमातुः समीपं गतवान् ।’ इत्युक्तवती । एतां घटनां निवेदिता स्वामिने यदा उक्त्वती तदा स्वामी प्रेरणादायकं सन्देशं यच्छन् 'अन्तिमक्षणपर्यन्तं प्रार्थनां करोतु, सौन्दर्यं यथा अर्चयामः तथा विकारमपि पूजयतु’ इत्युक्तवान् । गुरोः सन्देशं सा मनसि स्थापितवती । मरणम् अनिवार्यमिति ज्ञातवती । एषा नूतनानुभूतिः तस्याः मनसि नूतनोत्साहं कल्पितवती ।

कलकत्तायां प्लेग्[सम्पादयतु]

१८९९ मार्चमासे कलकत्तायां प्लेग् व्याधिः वने दावाग्रिरिव चतुर्दिक्षु व्याप्तः । तेन व्याघिना ग्रस्ताः प्रतिदिनं लक्षशः म्रियन्ते स्म । तदा निवेदिता प्रजानां प्राणरक्षणाय सङ्कल्पितवती । सा व्याधिग्रस्तानां सेवायां मग्ना । मलिनप्रान्तानि, मूत्रशालाः स्वच्छीकरोति स्म । शारीरके श्रमे अलसाः वङ्गयुवकाः तस्याः कार्याणि मौनं पश्यन्तः आसन् | महिलाः तस्याः कार्येण लज्जाम् अनुभवन्ति स्म । तस्याः सेवाकार्ये अन्यमहिलाः सहायाः जाताः । कलकत्तामहिलानां कृते शुभ्रता, स्वयं सेवा समाजसेवा इत्यादीनां विषये शिक्षणं दत्तवती | प्लेगव्याधिं निरोद्धुं सामाजिककार्यकर्तृभिः सह सा एकां समितिं निर्मितवती । तस्याः आह्वानानुसारं बहवः जनाः तया प्राप्ताः । ते केवलं मार्गाणां, मलिनप्रान्तानां स्वच्छीकरणमेव न, रोगग्रस्तानां सेवामपि अकुर्वन् । निवेदिता तु रात्रिंदिवं सदा सेवां कृतवती । निद्राभोजनयोः अभावात् सा रुग्णा जाता । तथापि सा अवशिष्टरोगिणां सेवार्थं गृहं गृहं गच्छति स्म । अनेके रुग्णाः तस्याः नयनयोः पुरतः एव प्राणान् त्यजन्ति स्म ।

पश्चिमयात्रा[सम्पादयतु]

निधीनां राहित्येन निवेदितायाः पाठशालाचालनं कष्टकरमभवत् । विद्यार्थिनामागमने एव कष्टमभवत् । तत्र शुल्कग्रहणमिति पदस्यैवावकाशः नासीत् । पाठशालायाः निर्वहणार्थं पश्चिमदेशेभ्यः आर्थिकसाहाय्यं स्वीकरणमुचितमिति निवेदिता चिन्तितवती । अस्मिन् विषये स्वगुरुं विवेकानन्दं सा पृष्टवती । गुरुतः अनुज्ञायाः प्राप्त्यनन्तरं १८९९ तमे वर्षे सा जलमार्गेण यूरोपतः अमेरिकामगच्छत् । स्वस्याः लघुपाठशालायाः कृते अधिकं धनं स्वीकरणीयमिति तस्याः उद्देश्यः । तथैव काश्चन क्रैस्तवसंस्थाः अत्र भिन्नधर्माणां विषये अमेरिकादेशे असत्यान्, अयोग्यान् विषयान् उक्तवन्तः आसन् । अतः तत्रत्यानां जनानां कृते भारतदेशस्य अत्रत्यं महोन्नतसंस्कृतेश्च विषये वक्तव्यमिति निवेदिता चिन्तितवती । स्वामी विवेकानन्दः अमेरिकायां सर्वधर्मसम्मेलने हिन्दूधर्मं, वेदान्तम् अधिकृत्य प्रभाववत् भाषणं दत्तवान् । तदारभ्य केवलम् अमेरिकायामेव न, यूरोपदेशेषु अपि हिन्दूधर्माभिमानिनः वर्धन्ते स्म । अतः क्रैस्तवजनाः हिन्दुधर्मविषये असत्यं कथयन्तः भारतसंस्कृतेः अपमाननं कुर्वन्ति स्म । भारतदेशस्य निर्धनता, निरक्षरतादि उदाहरन्तः एतं देशमधिकृत्य दुष्प्रचारं कुर्वन्ति स्म । किन्तु एतादृशप्रचारः क्रीस्तानाम् आदर्शानां विरुद्ध्ः इति निवेदिता जानाति स्म । अमेरिकाजनानां सम्यक् अवगाहनां कल्पयितुं निवेदिता स्वगुरुरिव विविधप्रान्तान् गतवती । तत्रत्यान् जनान् सम्बोधयन्ती भाषिततवती । सा भारतदेशस्य प्राचीनां संस्कृतिमधिकृत्य तान् बोधितवती । तथैव अद्यतन्याः दुःस्थितेः कारणानि निरूपितवती । सा उत्तमा वक्तत्री । भारतेतिहासः, धर्मः, सभ्यता, संस्कृतिः इत्यादिविषयेषु तस्याः सम्यक् अवगाहनमाप्तम् । स्वीयैः भाषणैः अमेरिकावासिनां मनस्सु भारतदेशविषये एकमाकर्षणीयं चित्रं मुद्रितवती। तावत्पर्यन्तं संभ्रमे स्थितत्वात् ते बाधामनुभूतवन्तः । भारतदेशस्य सत्यस्वरूपं प्रदर्शितवती इति निवेदितायां तेषां गौरवमवर्धत । बहुकालतः विदेशीयपालने स्थितत्वात् भारतदेशः एतादृशदुर्दशायामस्तीति विवरणदाने निवेदिता सफला जाता । किन्तु स्वीयपाठशालायाः कृते अन्यकार्याणां कृते धनार्जनविषये सा अल्पमेव साफल्यमाप्तवती ।

गुरोः अन्तिमयात्रा[सम्पादयतु]

१९०१ निवेदिता भारतदेशम् आगतवती । इदानीं निवेदिता बोसपारालेन् मार्गे विद्यमाने प्रकोष्ठे उषितुमारब्धवती । तदेव तस्याः गृहम्, पाठशाला, यात्रिणां निवासगृहम् । तदैव जर्मनीतः मिस् ह्रीस्टीन् ग्रीन् स्टान्डेल् नमिका युवतिः सेवां कर्तुं भारतदेशम् आगतवती । सा निवेदितया मिलितवती । तस्याः आगमनं निवेदितायाः बहूपयोगि जातम्। निवेदितायाः पाठशाला पुनरारब्धा । तदानीं पाठशालां प्रति न केवलं बालिकाः अपि तु तासां मातरश्च शिक्षणार्थमागच्छन्ति स्म । पाठशाला व्ययार्थं धनप्राप्तिः कष्टाय जातम् । किन्तु निवेदिता, ह्रीस्टीन् च स्वदृढतां न त्यक्तवत्यौ । कथञ्चित् पाठशालां निर्वहतः आस्ताम् । निवेदितायाः जीवने १९०२ अन्धकारवर्षम् । सा स्वीयं गुरुं द्रष्टुं बेलूरु मठं गतवती । सः जून १९ दिनाङ्कः । भाषणसन्दर्भे स्वामी 'महोन्नतः आत्मा मामाह्वयति । मृत्युमालिङ्गितुमहं मम सिद्धतां करोमि' इत्युक्तवान् । जुलै २ दिनाङ्कः एकादशी । सः निवेदितायाः कृते भोजनं सिद्धं कारितवान् । स्वयं परिवेषितवान् । भोजनानन्तरं सः तस्याः हस्तद्वयं प्रक्षाल्य स्वच्छवस्त्रेण मार्जितवान् । तदैव निवेदिता 'स्वामिन् ! मया भवतः सेवाचरणं समुचितम् । किन्तु भवान् तद्विरूद्धं मम सेवां करोति खलु’ इति पृष्टवती । स्वामी उक्तवान् - 'क्रैस्तः स्वयं स्वशिष्याणां पादौ प्रक्षालितवान् । तत्सत्यमेव खलु ।’ इति पृष्टवान् । निवेदिता 'सत्यं किन्तु तस्य जीवनचरमाङ्के तथा कृतवान्’ इति वक्तुं चिन्तितवती । किन्तु वचनानि तस्या कण्ठतः बहिः न निर्गतानि । गुरोः आशीर्वादं प्राप्य निवेदिता गृहं प्रस्थिता । गुरोः तदेव अन्तिमं मेलनमिति सा न ज्ञातवती । क्रैस्तस्य उदाहरणं स्वामिनः जीवने सत्यमभवत् । १९०२ जुलै ३ दिनाङ्के स्वामी महासमाधिं प्राप्तवान् । ४ दिनाङ्के स्वामिनः मरणवार्तां निवेदिता ज्ञातवती । तस्याः मनः भिन्नमिव । ज्योतिः नष्टमिव, सर्वत्र अन्धकारः व्याप्त इव । सा मठं प्रति धावितवती । अश्रु विमुच्य गुरोः श्रद्धाञ्जलिं घटितवती । रात्रौ २ वादनपर्यन्तं गुरोः मृतदेहं व्यजनेन वीजयति स्म । वैदिकमन्त्र्पठनेन शोभायात्रारूपेण स्वामिनः शरीरस्य अन्तिमयात्रा गङ्गनदीं प्राप्तवती । तस्याः नद्याः पार्श्वे एव तस्य प्रार्थिवदेहस्य अन्तिमसंस्काराः अभवन् । 'जय स्वामिन्’, 'जय विवेकानन्द' इति निनादाः उच्चैः अभवन् । अन्तिमसंस्कारे भागग्रहीतारः लक्षशः जनाः कार्यक्रमसमाप्त्यनन्तरं स्वगृहाणि गतवन्तः । किन्तु निवेदिता तु स्वां विस्मृत्य बहुकालं तत्रैव एकान्ते स्थितवती ।

देशस्वातन्त्र्यार्थं संघर्षणम्[सम्पादयतु]

भारतदेशस्वातन्त्र्यार्थं संघर्षणं करणीयमिति स्वामी विवेकानन्दः मरणात् पूर्वम् उक्तवान् आसीत् । अधुना तत् दायित्वं निवेदितायाः उपरि आपतितम् । सिंहिणी इव सा स्थिता । भारतस्वातन्त्र्यसाधनमेव स्वजीवनकार्यम् इति सा स्वीकृतवती । भारतदेशः, ब्रिटनदेशश्च मित्रदेशौ भवितुं शक्नुतः इति आरम्भे निवेदितायाः चिन्तनम् आसीत् । किन्तु सा एका भ्रान्तिः इति भावना जागृता । आङ्ग्लेयाः भारतीयानां रक्तं कथं चूषन्तीति सा पश्यति स्म । तावदेव न ....भारतमातुः अपमानने आङ्ग्लेयाः किञ्चिदपि न बिभ्यतीति सा ज्ञातवती । घटनाद्वयं तस्याः मनोघातुकम् अभवत् । विश्वविख्यातः वैज्ञानिकः जगदीशचन्द्रबसुः निवेदितायाः उत्तममित्रम् आसीत् । तस्य योग्यताकारणेन फ्रान्स् देशः तं कथं सम्मानितवानिति निवेदिता जानाति स्म । किन्तु ब्रिटन् देशेन तस्मै यावत् गौरवं दातव्यं तावत् न दत्तम् । तथैव अन्या सङ्घटना भारतजातीयवादी बिपिन् चन्द्रपालः अमेरिकायाम् एकस्यां सभायां यदा भाषणं ददाति स्म तदा कश्चन सभ्यः तस्य समीपमागत्य "पालमहाशय ! प्रथमं देशस्य स्वातन्त्र्यं सम्पादय । अनन्तरं भाषणं करोतु" इति अपमाननं कृतवान् । एतेन घटनाद्वयेन निवेदितायाः रक्तं ज्वलितम् इव । भारतदेशस्य स्वातन्त्र्यप्राप्तिं विना अत्रत्यान् जनान् मनुष्यानिति नाङ्गीकुर्वन्तीति भावः तस्याः अभवत् । श्वेतजातीयानां मध्ये जाता, प्रवृद्धा च महिला तेषां विरुद्धैः चिन्तनैः, वाग्भिः, कार्यैश्च क्रुद्धा तैः सह युद्धार्थं सिद्धा अभवत् । ततः सा भारतदेशं स्वमातृभूमिं भावितवती । तस्य देशस्य स्वातन्त्र्यमेव स्वजीवनस्य प्रधानलक्ष्यं कृतवती । तत् पवित्रकार्यं सफलीकर्तुं निवेदिता स्वीयानां शक्तिमतां वचनानां, शक्तिमत्याः लेखन्याश्च साहाय्यं स्वीकृतवती । भारतदेशस्वातन्त्र्यसङ्ग्रामार्थं प्रजाः सङ्घटयितुं सा पर्यटनम् आरब्धवती । पाट्ना, लक्नो, वारणासी, मुम्बाई, नागपूर्, मद्रास् इत्यादिषु प्रमुखनगरेषु सा प्रजाः उद्दिश्य भाषितवती । तेन अङ्ग्लेयाः कुपिताः, किन्तु तां ते न रुद्धवन्तः । विशिष्य तया सह मेलितुम् आङ्ग्लप्रमुखाः आसक्तिं प्रदर्शयन्ति स्म । आङ्ग्लदेशस्य भावीप्रधानमन्त्री रेम्से मेक्डोनाल्ड्, लेडीमिन्टो (तस्याः पतिः अनन्तरं भारतदेशस्य वाईस्राई अभवत्) इत्यादयः निवेदितायाः पाठशालाम् आगत्य, भारतीयमहिलानां कृते तस्याः शिक्षणदानं दृष्ट्वा ताम् अभिनन्दितवन्तः । निवेदिता स्वपाठशालां जातीयताकेन्द्रं कृतवती । बंकिंचन्द्रचटर्जीमहोदयेन लिखितं वन्देमातरगीतं पाठशालायां प्रार्थनागीतम् अभवत् । सा खादीवस्त्रम् एव धरति स्म् । तदर्थं सा प्रतिदिनं चरकाद्वारा वयति स्म । तां दृष्ट्वा पाठशालाबालाः सर्वे अपि तत् कार्यम् आरब्धवन्तः । वङ्गदेशे सांस्कृतिकरङ्गे क्रान्तिरपि निवेदितायाः कार्यमेव जातम् । भारतीयसंस्कृतेः, कलानां च विकासं विस्मृत्य कलाकाराः पाश्चात्यकलानुकरण्मेव नूतनत्वमिति भावयन्ति स्म । तान् मानसिकदास्यात् विमोचितवती निवेदिता । भारतीयता एव अस्मदीया इति प्रेरणां दत्तवती । विख्यातान् कलाकारान् प्रोत्साहितवती । तेषां कृते आर्थिकसाहाय्यं कृत्वा भारतदेशस्य अजन्ता, एल्लोरा इत्यादीनां कलाकेन्द्राणां दर्शनार्थं साहाय्यं कृतवती । भारतीयप्राचीनकलातः स्फूर्तिं प्रापयितुं प्रयत्तवती । तेषु रवीन्द्रनाथटागोरः, नन्दलालबोसः, आसिल् हलधर् इत्यादयः आसन् । निवेदितायाः प्रभावयुतेन प्रयत्नेन वङ्ग्कलायाः विकसनमभवत् । भारतीयान् जागरयितुं निवेदिता बहूनि पुस्तकानि रचितवती । तेषां द्वारा वेदानां, पुराणानाम् औन्न्त्यं लोकान् ज्ञापितवती । भारतदेशस्य विभिन्नजातीनां शिल्पकलासु एकता अस्तीति ज्ञापयितुं सा अधिकं प्रयत्नं कृतवती । अमूल्यायाः शिल्पकलायाः विषये भारतीयाः यथा गौरवं भावयेयुः तथा प्रेरितवती । निवेदिता स्वसमयं राजनीतेः नायकानां मेलनार्थं, स्वातन्त्र्यान्दोलनार्थं, बहिरङ्गसभार्थं, पुस्तकानां, लेखानां रचनार्थं च यापितवती । मातुः शारदादेव्याः प्रेरणायाः एकं प्रत्यक्षम् उदाहरणं निवेदिता अभवत् । तथैव रवीन्द्रनाथ टागोर्, गोपालकृष्णगोखले, रमेशचन्द्रदत्, बिपिन् चन्द्रपाल्, अरविन्दघोष् इत्यादीनां नायकानां सा एका मार्गदर्शिनी, सन्मित्रं च जाता ।

अन्तिमयात्रा[सम्पादयतु]

निवेदिता सदा सेवाकार्येषु निमग्रा भवति स्म । प्रतिक्षणं प्रजानां विषये चिन्तयति स्म । विश्रान्तिमेव सा न जानाति स्म । १९०५ वर्षे सा अस्वस्था जाता । तस्याः सहचराः -विशिष्य रामकृष्णाश्रमसाधवः तस्याः सेवां कृतवन्तः । अल्पदिनेषु सा स्वस्था जाता । किन्तु विश्रान्तिः तु न लब्धा । तस्मिन् एव समये अङ्ग्लेयाः वङ्गविभजनं कृतवन्तः । तस्य विरुद्धम् आन्दोलनम् आरब्धम् । तस्मिन्नान्दोलने निवेदिता स्वयं भागं गृहीतवती । अनन्तरवर्षे प्राक्वङ्गप्रान्ते अधिकजलप्लावः सञ्जातः । दुर्भिक्षं जातम् । ग्राम ग्रामं गत्वा क्षामेण, जलप्लावेन पीडितानां साहय्यं कृतवती । पीडितानां साहायार्थं सेवाभावयुक्तानां वङ्गयुवकानां साहाय्यमपि सा स्वीकृतवती । तस्याः स्वास्थ्यम् इतोऽपि दुर्बलं जातम् । किन्तु स्वस्य स्वस्थ्यम् अपि अविगणय्य विश्रान्तिं विना निवेदिता साहाय्य्कार्येषु मग्ना जाता । स्वास्थ्यं सम्पूर्णतया नष्टं यद अभवत् तदा निवेदिता स्वीयाम् अन्तिमाम् इच्छां प्रकटितवती । स्वीयां सम्पदं, धनम् इत्यादि सर्वं बेलूरुमठाय सा अर्पितवती । स्वीयरचनाभिः यत् धनं प्राप्यते स्म तत्सर्वं मठाय एव इति निवेदितवती । तेन निधिना भारतीयमहिलानां शिक्षणं दातव्यमिति तस्याः इच्छा आसीत् । १९०५ अक्टोबर् १३ दिनाङ्के प्रातः कालः । तदा निवेदिता डार्जलिंग् नगरे आसीत् । बहूनां दिनानाम् अनन्तरं तस्मिन् प्रातः काले सूर्यस्य पूर्णबिम्बम् आकाशे प्रत्यक्षम् अभवत् । ते किरणाः निवेदितायाः प्रकोष्ठं प्रविष्टाः । तेषां कारणेन तस्याः नयनानि चलितानि । चिन्तनं विनैव सा 'अरित्रेण रहिता मे जीवननौका इदानीं जले मज्जितुम् इच्छति । किन्तु मम उज्ज्वलभविष्यत्सम्बन्धी प्रकाशः दृश्यते ।’ इत्युक्तवती । तानि एव निवेदितायाः अन्तिमानि वाक्यानि । स्त्यमेवमस्ति यत् सा साधारणी नौः नास्ति, एका शक्तिमती नौः । निवेदितया दृष्टाः सूर्यकिरणाः अन्यैः न दृश्यन्ते । सः एकस्याः अलौकिकशक्तेः परिणामः । सर् जगदीशचन्द्रबोसः भगिन्याः निवेदितायाः स्मृत्यर्थं प्रसिद्धवैज्ञानिकशालां स्थापितवान् । ज्योतिर्मय्याः निवेदितायाः प्रतीकत्वेन तत्र ज्वालां गृहीतवत्याः महीलायाः विग्रहमेकं प्रतिष्ठापितवान् । हिमालयसानुषु तस्याः समाधिः कृतः । तस्मिन् समाधौ 'भारतदेशाय स्वं सर्वस्वं समर्पितवती भगीनी निवेदिता अत्र दीर्घनिद्रायाम् अस्ति ।’ इति लिखितम् अस्ति । सहोदर्या निवेदितया प्रारब्धा पाठशाला अद्य महती संस्था जाता । तत्र सहस्रशः भारतीययुवकाः, महिलाश्च उपयुक्तं शिक्षणं प्राप्नुवन्ति ।

"https://sa.wikipedia.org/w/index.php?title=निवेदिता&oldid=364143" इत्यस्माद् पुनः प्राप्तिः