नेदुनूरि कृष्णमूर्तिः
अन्नमाचार्यनेदुनूरिकृष्णमूर्तिः (१० अक्टोबर् १९२७ – ८ डिसेम्बर् २०१४) एकः भारतीयकर्नाटकशास्त्रीयसङ्गीतगायकः आसीत् । एतस्मै महोदयाय १९९१ तमे वर्षे मद्रास्-म्यूसिक्-अकाडेमि इत्यस्याः सङ्गीतकलानिधिपुरस्कारः प्रदत्तः ।
आरम्भिकं जीवनम्
[सम्पादयतु]कृष्णमूर्तिः १९२७ तमे वर्षे कोत्तपल्लि, पिठापुरम् तालुक्, गोदावरिमण्डले राममूर्तिपन्थुलु, विजयलक्ष्मी इत्येतयोः दम्पत्योः पुत्ररूपेण जन्म प्राप्तवान् । तदा राज्यं ब्रिटिशभारतस्य भागः आसीत् ।
तस्य पिता पिठापुरं राजस्य एस्टेट्-मध्ये लघुकार्यं करोति स्म । अष्टपदीः, तरङ्गान्, अध्यात्मरामायणस्य कृतिं च गायन्त्याः स्वमातुः प्रभावः तस्य उपरि आसीत् । वर्धमानस्य कृष्णमूर्तिमहोदयस्य उपरि तस्याः महान् प्रभावः आसीत् ।
कृष्णमूर्तिमहोदयः १९४० तमे वर्षे विजयनगरस्थे महाराजसङ्गीतमहाविद्यालये प्रवेशं प्राप्तवान् । ततः द्वारम्-नरसिङ्ग-राव्-नायडु इत्येतेन महोदयेन वयलिन्-वाद्यस्य गायनस्य च प्रारम्भिकप्रशिक्षणं प्राप्तवान् । १९४९ तमे वर्षे कर्नाटकसङ्गीतस्य गायकेन श्रीपादपिनाकपाणिमहोदयेन प्रभावितः सन् तस्य मार्गदर्शने स्वसङ्गीतशैल्याः अभिवर्धनं कृतवान् ।
व्यावसायिकजीवनस्य निर्वहणम्
[सम्पादयतु]कृष्णमूर्तिमहोदयः तिरुपतिक्षेत्रस्य एस.वि.सङ्गीत-नृत्य-महाविद्यालयस्य प्राचार्यरूपेण कार्यं कृतवान्; एम्.आर्.सङ्गीत-नृत्य-सर्वकारीयमहाविद्यालयः, विजियनगरम् ; सर्वकारीयं सङ्गीतनृत्ययोः महाविद्यालयः, सिकन्दराबाद् ; एवञ्च १९८५ तमे वर्षे विजयवाडानगरस्य जि.वि.आर्-सर्वकारीय-सङ्गीत-नृत्य-महाविद्यालयस्य प्राचार्यरूपेण निवृत्तः अभवत् ।
सः ललितकलानाम् अध्यापकः आसीत् एवञ्च श्रीवेङ्कटेश्वरविश्वविद्यालयस्य नागार्जुनविश्वविद्यालयस्य च सङ्गीताध्ययनमण्डल्याः अध्यक्षः आसीत् । टि.टि.डि. इत्यस्य अन्नमाचार्ययोजनायाः कृते (तिरुमल-तिरुपति-देवस्थानम्) यथा अद्य वयं जानीमः तथा ते "अन्नमाचार्य"कृतीनां कृते श्रुतिदाने योगदानं दत्तवान् ।
मद्रासनगरे १९७६ तमे वर्षे कृष्णगानसभा इत्यत्र "नेदुनूरि"महोदयस्य कृते सङ्गीतचूडामणि इति उपाधिः प्रदत्तः ।मद्रासनगरस्य सङ्गीत-अकाडेमि तस्य कृते १९९१ तमे वर्षे सङ्गीतकलानिधि इति अत्यन्तं प्रतिष्ठितपुरस्कारं दत्वा सम्मानितवत् ।
तिरुमल-तिरुपति-देवस्थानम् इत्यस्य किञ्च श्रीकाञ्चीकामकोटिपीठम् इत्यस्य च आस्थानविद्वान् इति तेषां नामकरणं कृतम् ।
मृत्युः
[सम्पादयतु]नेदुनूरि-कृष्णमूर्तिमहोदयः २०१४ तमस्य वर्षस्य डिसेम्बर्-मासस्य अष्टमदिनाङ्के पुप्फुस-अर्बुदरोगस्य चिकित्सावेलायां सप्ताशीतिवर्षीयाः सन्तः विशाखपत्तनम् इति नगरे पञ्चत्वं प्राप्तवान् ।
प्रमुखाः शिष्याः
[सम्पादयतु]- डोमडा-चित्तब्बायि
- गरिमेल्ला-बालकृष्ण-प्रसाद्
- शोभा-राजु
- सरस्वति-विद्यार्थी
- मल्लाडि-ब्रदर्स्
- शारदा सुब्रह्मण्यम्
- शेषुलता विश्वनाथ्
- टि श्रीनिधि
- पद्मावति त्यागराजु
- सुब्बा नरसैय क्रामदति
डिस्कोग्रफि
[सम्पादयतु]- अन्नमय्य-अन्तरङ्ग-तरङ्गम्
- अन्नमय्य-पद-कदम्बम्
- अन्नमय-पद-कमलम्
- अन्नमय्य-पाद-नीराजनम्
- अन्नमय्य-पाद-रावळि
- अन्नमय्य-पद-सम्मोहनम्
- अन्नमय्य-पाद-वसन्तम्
- हरिसमर्पण - पि.एम्.आडियोस् संस्थया विमोचनं कृतम्
- पाहि नारेयण - पि.एम्.आडियोस् संस्थया विमोचनं कृतम्
- गुरु-उपदेशम् - पि.एम्.आडियोस् संस्थया विमोचनं कृतम्
- श्रीहारि रसकृति (टि टि डि विमोचनम्)
- भद्राचल-रामदासु-कीर्तनालु (दशरथि-साटक-कविताभिः सहितम्) (अलिवेलुमङ्ग-सर्वय्य-दानशीलप्रन्यासः)
- राग-सुधा-रसम्
- त्यागराजस्य विरला कृतिः
- नेदुनूरि कृष्णमूर्ति-महोदयेन शास्त्रीयचिकित्सा [१]
- राग-माधुर (श्रव्यम्) - स्वाति साफ्ट् सल्यूशन्स् संस्थाद्वारा विमोचनं कृतम्
- राग-रञ्जनि (DVD) - स्वाति साफ्ट् सल्यूशन्स् संस्थाद्वारा विमोचनं कृतम्