नैघण्टुककाण्डम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

निरुक्तस्य भूमिकानन्तरं नैघण्टुककाण्डं विरचितं यास्केन । यस्मिन् काण्डे एकार्थकानेकशब्दानां (Synonyms) सङ्ग्रह: वर्तते । निघण्टो: प्रथमाध्यायत्रये पठिता: शब्दा: निरुक्तस्य नैघण्टुककाण्डे निर्वचिता: ।

एतावन्त: समानकर्मणो धातव: ........ एतावन्त्यस्य सत्वस्य नामधेयानि । (निरु.१.२०.)

इतीमान्येकविंशति: पृथिवीनामधेयान्यनुक्रान्तानि । (निरु.२.१.८.)

हिरण्यनामान्युत्तराणि पञ्चदश । (निरु.२.३.१०.) इत्यादिवाक्यै: समानार्थकशब्दानां सङ्ग्रहं निर्दिशति ।

प्रथमतया शब्दस्य निर्वचनं कृत्वा तदनन्तरं तेषामितरार्थान्, प्रयोगान् वा दर्शयति । तदुत्तरं वेदमन्त्रस्योदाहरणं दत्त्वा तस्य मन्त्रस्य व्याख्यानञ्च करोति । यथा गौ: शब्दस्य व्याख्याने - गौरिति पृथिव्या नामधेयम्, यद्दूरं गता भवति, यच्चस्यां भूतानि गच्छन्ति । - इति निर्वचनं कृतम् ।

अथापि पशुनाम इह भवति एतस्मादेव । अथापि अस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति । - गो शब्दस्य इतरार्थं प्रयोगं च प्रदर्शयति । गौ: इति पशो: नाम अपि भवति । तथैव तद्धितप्रयोगस्यार्थमपि गौ: इति शब्देनैव उच्यते । तदा गो: उत्पन्नमपि गौ: शब्देनैव निर्दिश्यते ।

वेदमन्त्रस्य उदाहरणं प्रयच्छति - गोभि: श्रीणीत मत्सरम् (ऋक्.९.४६.४.) इति पयस: । अत्र गोभि: शब्देन पयस: = क्षीरस्य निदेर्शनं वर्तते | तृप्तिकारकं सोमरसं पयसा पचेत् इति मन्त्रस्यार्थ: । तदुत्तरम् अस्य मन्त्रस्य व्याख्यानं करोति - मत्सर: सोमो मन्दते: तृप्तिकर्मण: । मत्सर इति लोभनाम ......... पय: पिबतेर्वा प्यायतेर्वा ।

वेदार्थज्ञानेच्छुकै: एते सूक्ष्मविचारा: ज्ञातव्या: । अन्यथा वेदानाम् अपार्थ: भवेत् ।

एवं नैघण्टुककाण्डे समानार्थकशब्दा: निर्वचिता: । निरुक्तोक्तनिर्वचनं विहाय अन्येऽपि अर्था: प्रयोगा: शब्दस्य भवेयु: । निरुक्तस्य मार्गदर्शनेन तेषां ग्रहणमस्माभि: करणीयम् । एवमन्येषामपि सत्वानां सन्देहा: विद्यन्ते । तानि चेत् समानकर्माणि समाननिर्वचनानि । नानाकर्माणि चेन्नानानिर्वचनानि यथार्थं निर्वक्तव्यानि ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=नैघण्टुककाण्डम्&oldid=409372" इत्यस्माद् पुनः प्राप्तिः