नैषधीयचरितम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नैषधीयचरित इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


महाकविना श्रीहर्षेण नैषधीयचरितमहाकाव्ये नलदमयन्त्याः स्नेहकथायाः चित्ताकर्षकं वर्णनं द्वाविंशतिसर्गेषु समाहितम् । सौन्दर्यातिशयसमन्विता विदर्भराजतनया भैमी नैषधीयचरितमहाकाव्यस्य प्रधानभूता नायिका विद्यते । तस्यामादर्शनायिकायाः सर्वे गुणाः समाविष्टाः सन्ति । समासेन तान् गुणानाधारीकृत्य वयमत्र किञ्चिद्विचारयामः । अनन्यसुन्दरी – कुण्डिनपुर्या अधिपतेः भूपतेः भीमसेनस्यात्मजा दमयन्ती त्रिलोकललनाललामभूता अतीव कमनीया वर्तते । तस्याः कमनीयकमवेक्ष्य त्रिभुवने को नाम जनः मुग्धो न भवति । चन्द्रमसः सारभागं समाकृष्य दमयन्त्याः सौन्दर्यातिशयविनिर्माणं वेधसा विहितामित्येवंरुपेण कल्पते महाकविः श्रीहर्षः । यथा –

हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
कृतमध्यविलं विलोक्यते धृतगम्भीरखनीखनीलिमा ॥

एवं भैम्याः विभिन्नाङ्गानां सैन्दर्यातिशयस्य वर्णनं विदधन् तस्याः कुचद्वयस्य समुपवर्णनं कियच्चित्ताकर्षकमित्यत्र सचेतस एव प्रमाणम् । निदर्शनार्थं यथा ।

अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।'
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ।।

अन्यच्च –

कलशे निजहेतुदण्डजः किमु अक्रभ्रमकारितागुणः ।
स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥

उच्चकुलप्रसूता – त्रिभुवनललनाललामभूता भैमी महोच्चकुले सञाता विद्यते । तस्यां विनयशीलतायाः धैर्यस्य, गाम्भीर्यस्य चादुभुतं सम्मिश्रणं दृश्यते । त्रपा तस्याः मण्डनं, धैर्यं धनं, शालीनता च प्रयसीरिवासीत् ।

अनुरागवती – त्रिभुवनाऽङ्गनाऽऽदर्शभूता भैमीरियं स्वपितुरन्तिके वन्दीजनैः नरपतेः नलस्य कीर्तिगानं श्रावं श्रावं राज्ञि नलेऽनुरक्ता सञ्जाता । हिरण्मयो हंसः यदा दमयन्त्या उपवने समुपेत्य तस्या अन्तिके नैषधस्य गुणगानं विधाय भौम्याः हृदगताशयं वेदितुमभिलषति, तदा त्रिपान्विता भैमी शालीनतायाः परां कोटिं सन्दर्शयति ब्रूते –

मनस्तु यं नोज्झ्ति जातु यातु मनोरथः कण्ठपथं कथं सः ?
का नाम बाला द्विजराजपाणिग्रहाऽभिलाषं कथयेदभिज्ञा ?

अन्यच्च –

इतिरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमि ।
चेतो नलङ्कामयते मदीयं नाऽन्यत्र कुत्राऽपि च साऽभिलाषम् ॥

इदमस्ति किञ्चन महाकाव्यम् । अस्य लेखकः अस्ति श्रीहर्षः । संस्कृतसाहित्ये पञ्च महाकाव्यानि इति यानि प्रसिद्धानि सन्ति तेषु अन्यतममस्ति इदं महाकाव्यम् ।

रचनायाः प्रेरणा[सम्पादयतु]

कान्यकुब्जे एका सहृदयसमुद्वेजिका घटना सम्भूता। जयचन्द्रस्य राज्ञः पुत्री संयोगिता स्वयंवराह सञ्जाता । सा खलु पृथ्वीराजे काङ्क्षितवती किन्तु तेन सह कृतवैरो जयचन्द्रस्तं न केवलं स्वयंवरे अनाहूतवानपि तु तस्य लोहमयी मूर्तिं निर्माय्य द्वारपालस्थले स्थापितवान् । संयोगिताऽपि तस्यामेव मूर्तौ स्वयंवरमालां निहितवती । दत्तपूर्वसङ्केतः संयोगितया अत एव तत्र छद्मवेषेण उपस्थितः पृथ्वीराजोऽपि तामादाय देहली प्रति निवृतः । तन्निमित्तं पृथ्वीराजजयचन्द्रयोर्महानाहवः संवृत्तो यत्र जयचन्द्रो नितरां पराजितः।

घटनयाऽनया सहृदयत्वेन प्रभावितः कविदमयन्तीनलप्रेमसम्बद्धां प्राचीनां कथामादाय नैषधीयचरिताख्यमहाकाव्यप्रणयनाय प्रवृत्तः किन्तु तदपूर्णं विहायैव निधनं गतो वा मुहम्मदविमर्देऽवशिष्टभागः प्रणष्टो वा कान्यकुब्जे गहडवाल-वंशराज्यच्युत्या निराशीकृतः कविर्जीवन्नपि अग्रे नैव प्रणीतवान् वा यत्किञ्चिदपि स्यात्, सम्प्रति महाकाव्यस्यास्य द्वाविंशतिः सर्गाः लभ्यन्ते । केचित्तु दमयन्तीनलयोः सुखसङ्गमेन समापितमिमं ग्रन्थं पूर्णं मन्यन्ते। परे तु ग्रन्थमिमं षष्टिसर्गेषु विस्तृतं मत्वाऽवशिष्टांशोपलब्धावाशावन्तोऽपि सन्ति । हरविजयकलेवरं दृष्ट्वैतत्सम्भावयितुमपि शक्यते । स्याद्यद्वा तद्वा । महाकाव्यस्यास्य समुपलब्धभाग एवालं विचक्षणानां परीक्षणाय बुद्धेः । कथ्यतेऽपि नैषधं विद्वदौषधमिति ।

कथावस्तु[सम्पादयतु]

नलश्रीवर्णनादारब्धमिदं महाकाव्यं नलदमयन्त्योः सुखसङ्गमं प्राप्य विश्राम्यति । लीलया दमयन्तीस्मृतिद्वयमानमनोविनोदाय निष्कटेषु विहारार्थं गतो नलः एकं स्वर्णमयं हंसं पश्यति गृह्णाति च तम् । हंसः स्वामवस्थां विनिवेद्य तं मोचनाय प्रार्थयते प्रतिजानीते च दमयन्ती सन्देशश्रावणेन तदुपकारमोचनाय । हंसस्यावस्था यथा -

मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी।

गतिस्तयोरेष जनस्तमर्दयन्नहो विधे त्वां करुणा रुणद्धि नो ।। इति ।

राज्ञा सदयं मोचितो हंसस्तत्प्रत्युपकाराय भोजनगरीं गत्वा दमयन्त्यै तत्प्रेमविवरणं श्रावयति । तेन दमयन्त्यां पूर्वराग उत्पद्यते । काले दमयन्त्याः स्वयंवरसभा आयुज्यते विदर्भेण । तत्र दमयन्त्यामाशक्ता नलरूपं धृत्वा तत्रागच्छन्ति चत्वारो दिक्पालाः । पश्चाच्च ते दमयन्त्या नलं प्रति समर्पणभावं दृष्ट्वा प्रसन्नाः देवाः स्वानि स्वानि रूपाण्येव गृह्णन्ति । ततश्च सुखेन दमयन्ती नलं स्वयंवरस्रजा विभूषयति । परिणयानन्तरं जातेर्ष्यूः कलिर्नलं प्रविश्य तं विरूपयति । पश्चाच्च लब्धस्वरूपेण नलेन सह दमयन्त्याः सुखसङ्गमो भवति काव्यस्य द्वाविंशतिसर्गसमाप्तिश्च ।

विश्लेषणम्[सम्पादयतु]

नैयायिकस्याऽपि कवेरस्य सरला सरला च वर्णनाचातुरी प्रशंस्या विद्वन्मनोविनोदनक्षमा च दृश्यते । स स्वयमेव कथयति -

साहित्ये सुकुमारवस्तूनि दृढन्यायग्रहग्रन्थिले, तर्के वा मम संविधातरि समं लीलायते भारती।

शय्या वाऽस्तु मृदुत्तरच्छदवती दर्भाङ्कुरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम्।। इति ।

ग्रन्थस्यास्य प्रतिसर्गमेव कवेरस्य विस्तृतं प्रौढञ्च ज्ञाननिधिं सूचयति। तत्रापि विशेषतः सप्तदशसर्गं तस्य दर्शनप्रावीण्यं व्याकरणनिष्णातत्वं प्रमाणयति।

यद्यपि प्रकरणविशेषे श्रीहर्षे तत्पूर्ववर्तिनां प्रभावस्पष्टमेव दृश्यते, यथा इन्दुमतीस्वयंवरस्य दमयन्तीस्वयंवरे, तथापि तस्य मौलिकी पद्धति न केनाऽप्यपलपितुं शक्यते । कथ्यते कालिदासस्य उपमाच्छटा भारवेरर्थगाम्भीर्यवैलक्षण्यं दण्डिनः कोमलकमनीयपदावली च सन्ति माघे किन्तु - 'उदिते नैषधे काव्ये क्व माघः क्व च भारविः'

पूर्ववर्तिकव्यपेक्षयाऽस्य नारीस्वरूपचित्रणं सजीवं विद्यते । तथैव चतुर्थसर्गगतं विप्रलम्भशृङ्गारवर्णनमपि सर्वानतिशेते । समालोचका आमनन्ति यत् श्रीहर्षो हि संस्कृतसाहित्यस्य वरेण्यकविष्वन्यतमः। तस्य हि पाण्डित्यं, प्रस्तुतियोग्यता, व्युत्पत्तिश्च सर्वानेव कवीनतिशेते। नैषधीयचरितं बृहत्त्रयीषु सर्वोत्कृष्टा कृतिः मन्यते। अस्य भाषासौन्दर्यं भावसौष्ठवञ्च कमेव सहृदयं न मोहयति सम्भूय । अस्य रसविलासः, करुणस्य द्रवीभावः, चिन्तनस्य विशालता, भावनामुदात्तताः कल्पना प्राचुर्यञ्चास्य कवेरनन्यसाधारणत्वं जनयन्ति। सत्यमेव कविः स्वयमेव कथयति -

निपीय यस्य क्षितिरक्षिणः कथा तथाद्रियन्ते न बुधाः सुधामपि ।

नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्वलः ।।

वस्तुतः काव्यस्यास्याध्ययनानन्तरं न कोऽपि काव्यान्तरं तथाद्रियते । एवमेव करुणस्य द्रवीभावो यथा -

मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी ।

गतिस्तयोरेषजनस्तमर्दयन्न हो विधे त्वां करुणा रुणद्धि नो।।[१]

अयोगशृङ्गारस्य च्छटा यथा -

इदमनङ्गशरावलिपन्नगक्षतविसारिवियोगविषावशा।

शशिकलेव खरांशुकरार्दिता करुणनीरनिधौ निदधौ न कम् ।।[२]

सम्भोगशृङ्गारप्रवाहो यथा -

वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् ।

एककश्चिरमरोधि बलिया तल्पयन्त्रणनिरन्तरालया।।[३]

उत्प्रेक्षाया वैलक्षण्यं यथा -

हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा।

कृतमध्यबिलं विलोक्यते धृतगम्भीररवनीखनीलिम्॥[४]

व्यङ्ग्योत्कर्षो यथा -

उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मनः।

अपवर्गे तृतीयेति भणतः पाणिनेरपि॥[५]

दोषप्रदर्शनम्[सम्पादयतु]

सत्यपि नैषधीयचरितस्य सर्वोत्कृष्टमहाकाव्यत्वे समालोचकास्तत्रापि काश्चित्त्रुटीस्तु लभन्त एव यतो हि ते जात्यैव छिद्रान्वेषकाः । नैषधीयचरिते अप्रचलितशब्दानां प्रयोगः, भाषायां जटिलता, शास्त्रीयसन्दर्भाधिक्येन काव्यस्य दुरूहता, कल्पनायाः क्लिष्टता, सौन्दर्यस्यातिशयवर्णनं, वर्णनौचित्यस्यानिर्वाहश्चेति प्रभृतयः सन्त्यनेके पक्षाः, ये खलु तैः श्रीहर्षस्य त्रुटित्वेनेङ्गिताः । सम्भवन्त्यपि ते यत्र कुत्र किन्तु श्रीहर्षकृतौ भावपक्षापेक्षया कलापक्षस्य प्राधान्यं तु सर्वेषामेव सहृदयानां मानसं खेदयति ।

टीकाः[सम्पादयतु]

ग्रन्थमिदमधिकृत्य सन्ति पञ्चविंशत्यधिकाष्टीकाः । तासु विद्याधरस्य साहित्यविद्याधरी, आनन्दस्य टीका, मल्लिनाथस्य जीवातुः, नारायणस्य नारायणी वा नैषधप्रकाशः इति प्राचीनाः, शेषराजशर्मणश्चन्द्रकला नवीनासु प्रसिद्धा ।

ग्रन्थविवरणम्[सम्पादयतु]

अस्मिन् २२ सर्गाः सन्ति । अन्ते ग्रन्थस्यसमाप्तिः न निर्दिष्टा इति कारणतः इदम् असम्पूर्णं स्यात् इति संशयः उत्पद्यते । नैषधं विद्वदौषधम् इति उक्त्यनुसारं काव्यमिदं कठिनमस्ति । अस्मिन् निषधराजः नलः विदर्भस्य राजकन्या दमयन्ती इत्यनयोः विवाहः, हंसस्य दौत्यं, प्रतिसन्देशप्राप्तिः, नलस्य वरणं, दमयन्त्याः विरहः, राजकुमारस्य वर्णनं, दमयन्तीवर्णनं, दमयन्तीस्वयंवरः, नलस्य राज्यशासनम् इत्यादयः विषयाः चातुर्येण वर्णिताः सन्ति ।

  1. १।१३५
  2. २।३३
  3. १८/४३
  4. २/२५
  5. १७/७०
"https://sa.wikipedia.org/w/index.php?title=नैषधीयचरितम्&oldid=444341" इत्यस्माद् पुनः प्राप्तिः