न च तस्मान्मनुष्येषु...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन (जनुवरि २०१४) |

- न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
- भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य नवषष्टितमः(६९) श्लोकः ।
पदच्छेदः
[सम्पादयतु]न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥
अन्वयः
[सम्पादयतु]मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।
शब्दार्थः
[सम्पादयतु]- प्रियकृत्तमः = अत्यन्तं प्रियकरः
- प्रियतरः = इष्टतरः
- भुवि = भूमौ
- भविता = भविष्यति ।
अर्थः
[सम्पादयतु]मनुष्येषु तस्मात् प्रियकारी अपरः कोऽपि नास्ति । तस्मात् अन्यः मम प्रियो नापि भविष्यति । सः एव प्रियकारी, सः एव च मम अत्यन्तं प्रियः इति जानीहि ।