पञ्चरात्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
पञ्चरात्रम्
रमनुज प्रतिम
रमनुज प्रतिम
पञ्चरात्रम्
कुरुक्षेत्र पन्चरात्रम्
कुरुक्षेत्र पन्चरात्रम्
पञ्चरात्रम्
पन्चरात्रम् चित्रम्
पन्चरात्रम् चित्रम्


पञ्चरात्रम्
विष्नु का पन्चरत्र।
विष्नु का पन्चरत्र।
पञ्चरात्रम्
लक्ष्मि नारयन
लक्ष्मि नारयन
महाभारतकथां स्वीकृत्य विरचितमिदं रूपकं विराटपर्वस्य चित्रम्

कव्यं प्रधानतया द्विविधम् । दृश्यं श्रव्यं चेति । तत्र श्रव्यकाव्यस्य रूपकम् इति नाम । संस्कृतसाहित्ये रूपकस्य प्रधानं स्थानम् अस्ति । तेषु अन्यतमः पञ्चरात्रं।पञ्चरात्रम् तावत् भासकविना विरचितमिति टि.गणपतिशास्त्रिणः अनेकैः साक्ष्याधारैः प्रत्यपादयन् । केचन दोषज्ञाः शास्त्रिमतं नाङ्गीकुर्वन्ति । किन्तु भासनाटकचक्रे विद्यमानानां त्रयोदश नाटकानां कर्ता भासादपरः कविरपि न सिद्धः । अतः विवादान् पार्श्वे कृत्वा साद्यस्के काले बहुभिः अङ्गीक्रियते यत् एतेषां कर्ता भास एव इति ।भासेन आहत्य षड्रूपकाणि विरचितानि। तेषु द्वितीयं भवति पञ्चरात्रं। भासस्य सर्वाणि रूपकाणि एकाङ्काः एव ।किन्तु पञ्चरात्रे तावत् त्रयः अङ्काः सन्ति इति वैशिष्ट्यं अस्य रूपकस्य ।महाभारतकथां स्वीकृत्य विरचितमिदं रूपकं विराटपर्वस्य विषयं प्रदर्शयति। स्त्रीपात्ररहितमपि रूपकमिदं अर्थगाम्भीर्ये, रसोत्पादने, चतुरसम्भाषणे प्रसिद्धम्।

कथासारांशाः[सम्पादयतु]

पाण्डवाः विराटनगरे अज्ञातवासे संवृतः।हस्तिनापुरी मध्ये येकाहयज्ञं प्रारब्धः दुर्योधनः द्रोणाचार्याय गुरुदक्षिणां दातुं गच्छति ।तदा द्रोणाचार्यः दक्षिणात्वेन पाण्डवानां अर्धराज्यं पृच्छति।तदा दुर्योधनः वदति यदि पञ्चरात्र्याभ्यन्तरे पाण्डवानां विषयः ज्ञायते तर्हि तेषां अर्धराज्यं ददामि इति। तदा गोग्रहणनिमित्तक युद्धे पराजितः भीष्मः पाण्डवाः विराटनगरे सन्ति इति कथयति।तत्काले एव युधिष्टिरेण प्रेषितः उत्तरः हस्तिनावतिं आगत्य पाण्डवानाम् विराटवासं कथयति। तदा पञ्चरात्राभ्यन्तरे एव तेषां वासः निश्चितः इति कारणात् दुर्योधनः पाण्डवानां अर्धराज्यं उद्घोषयति।

"https://sa.wikipedia.org/w/index.php?title=पञ्चरात्रम्&oldid=403859" इत्यस्माद् पुनः प्राप्तिः