परिशिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


निरुक्तस्यान्तिमाध्यायद्वयं परिशिष्टमित्युच्यते । दैवतकाण्डे आधिदैविकार्था: निरूपिता: मन्त्राणाम् ।
इह परिशिष्टे आध्यात्मिकार्थस्य प्रतिपादनं, दिग्दर्शनं च कुर्वन्ति । निरुक्ते अन्यत्रापि अथाध्यात्मिक्यमिति वचनै: आध्यात्मिकार्थ: प्रतिपादित: । तथापि अत्र एकस्मिन्नेव मन्त्रे कथमाधिदैविकाध्यात्मिकार्थौ सङ्गच्छेतामिति निर्दिशन्ति ।
अथेमा अतिस्तुतय इत्याचक्षते । अपि वा सम्प्रत्यय एव स्यान्माहाभाग्याद् देवताया: । (निरु.१३.१.)
अर्थात् एकस्यैव देवस्य परमात्मन: ज्ञानं भवति आध्यात्मिकेनार्थेन । अत: एते अतिस्तुतय: = देवाधिदेवस्य स्तुतय: ।
ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधिविश्वे निषेदु: ।
यस्तन्नवेद किं ऋचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ (ऋक्.१.१६४.३९.)
एतस्य मन्त्रस्य अर्थद्वयम् एवं वर्तते ।
आदित्य इति पुत्र: शाकपूणे: । एषर्ग्भवति यदेनमर्चन्ति । तस्य यदन्यमन्त्रेभ्यस्तदक्षरं भवति । रश्मयोऽत्र देवा उच्यन्ते । य एतस्मिन्नधिनिषण्णा इत्यधिदैवतम् ।
अत्र शाकपूणे: पुत्र:, ऋचो नाम आदित्य: इत्यभिप्रैति । ऋच: शब्द: आदित्यं सूचयति । यत: तमर्चन्ति । जडावयवेभ्य: भिन्नस्य आदित्यस्य स्वरूपम् अक्षरम् = नाशरहित: वर्तते । देवा: = रश्मय: आदित्ये अधितिष्ठन्ति । य: आदित्यस्य विज्ञानं न जानाति स: आदित्यस्य शक्त्या किं वा करोति । य शक्तिज्ञानी भवति स: रोगादिरहित: सुखं जीवति ।
अथाध्यात्मम् | शरीरमत्र ऋगुच्यते । यदनेनार्चन्ति । तस्य यदविनाशि धर्म तदक्षरं भवति । इन्द्रियाण्यत्र देवा उच्यन्ते । यान्यस्मिन्नधिनिषण्णानि इत्यात्मप्रवादा: ।
अत्र शरीरं ऋक् शब्देनाभिधीयते । अनेन अर्चयन्तीत्यस्मात् कारणात् । शरीरस्यान्त: स्थित: आत्मा अक्षर: = अविनाशी अस्ति । तस्मिन्नेव देवा: = इन्द्रियाणि स्थितानि । तमात्मानं यो न वेद स: शरीरमात्रेण किं वा करिष्यति । आत्मज्ञानी एव शरीरं साधनं मत्वा मोक्षं प्राप्नोति ।
एवमाध्यात्मिकार्था: प्रतिपादिता: परिशिष्टे यास्काचायेर्ण ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=परिशिष्टम्&oldid=409390" इत्यस्माद् पुनः प्राप्तिः