पश्यामि देवांस्तव देव...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पश्यामि देवांस्तव - 11.15 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः

अर्जुन उवाच-

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ १५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पश्यामि देवान् तव देव देहे सर्वान् तथा भूतविशेषसङ्घान् ब्रह्माणम् ईशं कमलासनस्थम् ऋषीन् च सर्वान् उरगान् च दिव्यान् ॥ १५ ॥

अन्वयः[सम्पादयतु]

देव ! तव देहे सर्वान् देवान् तथा भूतविशेषसङ्घान् कमलासनस्थं ब्रह्माणम् ईशं सर्वान् ऋषीन् च दिव्यान् उरगान् च पश्यामि ।

शब्दार्थः[सम्पादयतु]

देव = ईश्वर
तव देहे = तव शरीरे
सर्वान् = सकलान्
देवान् = सुरान्
तथा = तथा
भूतविशेष-सङ्घान् = भूतविशेषसमुदायान्
कमलासनस्थम् = कमलायमानभूमौ मध्ये कर्णिकासदृशे मेरौ स्थितम्
ब्रह्माणम्= चतुर्मुखम्
ईशम् = ईश्वरम्
सर्वान् = सकलान्
ऋषीन् च = मुनीन् च
दिव्यान् = दिवि स्थितान्
उरगान् च = सर्पान् च
पश्यामि = अवलोकयामि ।

अर्थः[सम्पादयतु]

देव ! तव शरीरे सकलान् देवान् तथा स्थावरजङ्गमात्मकभूतविशेषसमुदायान्, कमलकर्णिका-सदृशे भूमध्यस्थिते मेरौ आसीनं ब्रह्माणम्, पार्वतीपतिम् ईश्वरम्, सकलान् ऋषीन् मुनीन्, दिवि स्थितान् सर्पान् च पश्यामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]