महत्त्वपूर्णसंस्करणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पाठचिकित्सा (क्रिटिकल एडिशन) इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

कस्यचित् ग्रन्थस्य उपलब्धानां सर्वासां प्रतिकृतीनाम् आलोचनेन शुद्धप्रतिकृतेः निर्माणं नाम महत्त्वपूर्णसंस्करणम् उत पाठचिकित्सा। बहोः कालात्संस्कृतलेखनं प्रचलितम् । विशालं संस्कृतसाहित्यं भूर्जपत्रेषु कर्पटपत्रेषु च लिखितम् । मुद्रण कलाज्ञानस्याभावात् । तदा जना एव हस्तेन मूलग्रन्थस्य प्रतिकृतिमकुर्वन् । एवं द्रव्येण कायस्थाः, धर्मिकाः शिष्याः अध्येतारो, भिक्षुका एते जना हस्तलिखितानि पुस्तकानि पुनर्लिखन्ति स्म । एवं प्रकारेण बहवः अपपाठास्तेषां प्रमादाल्लेखने आविशन्ति । तेभ्योऽशुद्धेभ्यः पुनः प्रतिकृतावधिका एव दोषा उत्तरपुस्तके । अनेन मूलग्रन्थः क्रमशो, दुर्बोधो भवत्यशुद्धत्वात् । ततः पुनस्तस्योपलब्धानां सर्वेषा पुस्तकानां परस्परमेलनं कृत्वा शुद्धा प्रतिकृतिः कल्पयितव्या येन मूलग्रन्थज्ञानं भवेत् । इदं कार्यं पाठचिकित्सया सम्पद्यते ।

पाठचिकित्साशास्त्रस्य लक्षणम्[सम्पादयतु]

उपलब्धसाधनानां साहाय्येन ग्रन्थस्य मूला प्राचीनतमा वा परं प्रामाणिकतमा संहिता येन शास्त्रेण निश्चियते तत् पाठचिकित्साशास्त्रम् ।

उपलब्धसाधनानि[सम्पादयतु]

उपलब्धसाधनानि द्विविधानि।मुख्यानि गौणानि च।

मुख्यानि[सम्पादयतु]

१) ग्रन्थस्य हस्तलिखितपुस्तकानि २) मुद्रित पुस्तकानि 

गौणानि[सम्पादयतु]

१) टीका

२) अनुवादः

३) सारः

४) परिच्छेदः

५) उध्दरणानि ।

६) उत्कीर्णलेखाः।

७) मौखिकी परम्परा

पाठचिकित्सा - अनवसरः[सम्पादयतु]

यदि –

१) ग्रन्थकृता स्वहस्तेन लिखितं पुस्तकमुपलभ्यते ।

२) एकमेव पुस्तकमुपलभ्यते । तत्रापि अशुद्धिसंशोधनं कर्तुं शक्यमावश्यकं  च ।

पाठान्तर सम्भवः[सम्पादयतु]

पाठान्तरस्य हेतुद्वयं सम्भवति-

१ अहेतुतः[सम्पादयतु]

१) लेखकप्रमादात् २) पाठकप्रमादात् ३) मुद्रकप्रमादात्

२ हेतुतः [सम्पादयतु]

१) आधुनिकीकरणार्थम्

२) स्वरचनासमावेशार्थम्

३) अर्थसौकर्यार्थम् ।

४) लेखकेन सम्पादकेनैव परिष्करणार्थम्

पाठचिकित्साक्रमः[सम्पादयतु]

चतुर्षु पादेष्वेतत्कार्यं सम्पद्यते ।

१) सङ्कलनम् ।

२) वंशवृक्षनिर्मितिः

३) मूलसंहितानिर्मितिः ।

४) ग्रन्थकारस्याभिमत-पुस्तकनिर्मितिः ।

प्रथमपादः[सम्पादयतु]

अ) यानि यानि पुस्तकान्युपलब्धानि तानि सङ्गृह्यन्ते ।

आ) कर्पटपत्रेषु दण्डरेखानां(।) तथा भूरेखानां(-)साहाय्येन चतुष्कोणा आलिख्यन्ते ।

इ)उपलब्धेषु पुस्तकेषु प्रतिपुस्तकं किमपि (ट, ठ इत्यादिकं) बोधचिह्नं दीयते ।

एकं पुस्तकमाधारं मत्वा तत्स्थः श्लोकः श्लोकार्धः वा चरणं वा लिख्यते।तदर्थं   ‘प्रतिचतुष्कोणमेकमक्षरम् ’ इति सरणिः अवलमब्यते। तस्य बोधचिह्नं आदौ अन्ते वा दीयते ।

उ) तदधः सर्वपुस्तकस्थः स एव पादस्तथैव लिख्यते सबोधचिह्नम् ।

ऊ) लेखने पुस्तकानां यः क्रमः आदौ निश्चीयते स एवानुपाल्यते

उदाहरणम् –

द्वितीयः पादः[सम्पादयतु]

अत्र सङ्कलनाधारेण वंशवृक्षः कल्प्यते। यदि २० पुस्तकान्युपलब्धानि तर्हि तेषामुदाहरणमात्रमेको वंशवृक्ष एवं भवेत्।

ट- पुस्तकस्य वंशजानि पुस्तकानि –ट१ ट२

ठ- पुस्तकस्य वंशजानि पुस्तकानि –ठ१ ठ२ ठ३

ड- पुस्तकस्य वंशजानि पुस्तकानि – ड१ ड२

ढ-पुस्तकस्य वंशजानि पुस्तकानि – ढ१ ढ२ ढ३

ण-पुस्तकस्य वंशजानि पुस्तकानि –ण१ ण२

ण२ पुस्तकस्य वंशजानि पुस्तकानि- ण२.१, ण२.२, ण२.३

वंशवृक्षस्य लाभाः - ।

१) विचार्याणां पुस्तकानां  सङ्ख्यापरिच्छेदः सम्भवति।तेन कार्ये लाघवं जायते प्रकृते सर्वेषाम् २० पुस्तकानां विचारः अनावश्यकः। टठडढणपुस्तकानामेव अन्यानि पुस्तकानि वंशजानि इति सिद्धे टठडढणपुस्तकानामेव विमर्शः कार्यः।

२) उपलब्ध-पुस्तकानां प्रामाण्ये तारतम्यज्ञानं भवति।प्रकृते ण२.३ इत्यस्य अपेक्षया ण-पुस्तकस्य प्रामाण्यम् अधिकम्।

३) अपपाठा मृगयितुं शक्यन्ते ।

तृतीयपादः[सम्पादयतु]

अधुना तुलनारभ्यते

१) अपपाठाः कथं जायन्ते ।

२) सन्दर्भो व्याकरणं छन्दः इत्यादीनि तत्वानि विचार्य शुद्धः पाठः कः ? एतयोः प्रश्नयोराधारेण पाठाः निर्धार्यन्ते ।

३) यत्रैवं निर्धारणमशक्यं तत्र एकः कश्चित्पाठः स्वीक्रियते । तत्र च संशयप्रकटनार्थं सर्पेरेखा (  )  दीयते ।

४) अन्ये पाठाः पृष्ठतले भवन्ति।

यथोपर्युक्तोदाहरणे -   

ट---आ-यु-र्वे-दो-प-दे-शे-षु-वि-धे-यः-प-र-मा-द-रः-

ठ---आ-यु-र्वे-दो-प-दे-शे-षु-वि-धा-यः-प-र-मा-द-रः-

ड---आ-यु-र्वे-दो-प-दे-शे-षु-वि-धा-य-प-र-मा-द-रः-

ढ---आ-यु-र्वे-द-स्यो-प-दे-शे-षु-वि-धे-य-प-र-मा-द-रः

ण---आ-यु-र्वे-द-स्यो-प-दे-शे-वि-धे-यः-प-र-मा-द-रः-

ठ - पाठः   अपपाठः , व्याकरणदोषात् ।विधायः इति व्याकरणदृष्ट्या असाधु पदम्।

ड -  पाठः   अपपाठः, सन्दर्भात् । यतो हि एतद् वचनं नाम पूर्णसूत्रस्य उत्तरार्धः। अस्य पूर्वार्धः एवमस्ति -

आयुः कामयमानेन धर्मार्थसुखसाधनम् ।

पूर्वार्धे क्रियावाचकं पदं नास्ति।अतः तत्पदमुत्तरार्धेऽपेक्ष्यते । तच्च ’ड’ पाठे नास्ति अतः सोऽपपाठः ।

ढ - पाठः - अपपाठः --- छन्दोभङ्गदोषात् ।अनुष्टुभ् छन्दः इदम्। प्रतिपादम् ८ अक्षराणि आवश्यकानि।अत्र तु ९ भवन्ति।अतः छन्दोभङ्गदोषः अत्र स्पष्टः।

अवशिष्टौ ट - ण पाठौ  शुध्दौ । तयोः एकतरस्य निश्चयो न भवतीति कश्चित्पाठः स्वीकर्तव्यः । तत्र संशयार्थं सर्परेखा देया।अवशिष्टः पाठः प्रुष्ठतले देयः ।

चतुर्थः पादः[सम्पादयतु]

    यद्यपि एतावता यत्नेन मूलग्रन्थः सिध्दस्तथापि तत्रापि अशुद्धयः सन्त्येव । अतो नायं ग्रन्थकाराभिमतः । तत्र  संशोधनेन ( तुलनाधुना समाप्ता ) शुद्धं पुस्तकं निर्मीयते । अनावश्यकसंशोधनमत्र वर्जितव्यम् । संशोधको ग्रन्थकारेण सह चेतसा यद्येकीभवितुं समर्थस्तर्हीदं कार्य साधु सम्पद्यते । एवं पुस्तकं ’संशोधित पुस्तकम् ’ ( क्रिटिकल एडिशन) इति कथ्यते ।

मुद्रितविषये[सम्पादयतु]

१) लेखकस्य स्वहस्तलिखिते पुस्तके उपलब्धेऽपि मुद्रितस्य प्रामाण्यं न नश्यति ।

२) उत्तरावृत्तौ दोषाः सम्भवन्ति । अतः पूर्वावृत्तिः प्रमाणम् ।

३) उत्तरावृत्तौ दोषाः यदि शोधितास्तर्हि सैव प्रमाणम् ।

३) उत्तरावृत्तौ सम्पादकेन लेखकेन वा परिष्करणं कृतं चेत् उभे आवृत्ती प्रमाणम् ।

पादवर्जनम्[सम्पादयतु]

चतुर्थपादवर्जनम्[सम्पादयतु]

संशोधकः यदि मन्यते यद् -

१) अनावश्यकमेतद् । अथवा

२) न मेऽधिकारोऽत्र ।  

तर्हि सः  पादमिमं वर्जयति। तत्पुस्तकं पुनारचिता प्राचीनतमा संहिता इति कथ्यते।

तृतीयपादांशवर्जनम्[सम्पादयतु]

वंशवृक्षे निर्मिते सति तुलनाकार्यम् एकस्यामेव शाखायां क्रियते। ततो मूलसिध्दिः । अत इदं पुस्तकं शाखाविशिष्टं पुनारचितं प्राचीनतमं पुस्तकम् इति उच्यते।

तृतीयपादवर्जनम्[सम्पादयतु]

वंशवृक्षे निर्मिते तुलनाकार्यं नैव क्रियते । तेषु प्राचीनतमम् उपलब्ध-पुस्तकमाधरत्वेन स्वीकृत्येतरपुस्तकस्थाः पाठभेदाः पृष्ठतले दीयन्ते।तत्र छन्दोदृष्ट्या व्याकरणदृष्ट्या वा योग्यायोग्यं न विचार्यते।

द्वितीय पादवर्जनम्[सम्पादयतु]

केवलं सङ्कलनकृत्वा एकं पुस्तकमधिक्रियते । अन्य सर्वे पाठाः पृष्ठतले ।अत्र वंशवृक्षः न निर्मीयते।

संस्कृते पाठचिकित्सा-कार्यम् ।[सम्पादयतु]

१) शाकुन्तलम् । - पिशेल महोदयः ।

२) महाभारतम् । - भाण्डारकरप्राच्यविद्यासंशोधन मन्दिरम् ।

३) रामायणम् । - ओरिएण्टल इन्स्टिट्युट औफ बडोदा ।