पाण्डरीनाथाचार्य गलागली
पण्डरिनाथाचार्यगलागली इत्यस्य जन्म बीजापुरमण्डलस्य गलगलिग्रामे १९२२ तमे वर्षे जुलैमासस्य १० दिनाङ्के अभवत् । पिता कूर्माचार्यः माता गङ्गाबाई च । पाण्डरीनाथाचार्यस्य प्राथमिकशिक्षा गलगलिनगरे एव अभवत् । पश्चात् १९४४ तः १९६० पर्यन्तं बागलकोटस्य सक्रि विद्यालये संस्कृतशिक्षकरूपेण कार्यं कृतवान् । १९६१ तमे वर्षे गदुगनगरम् आगत्य तत्र 'वीरनारायणसंस्कृतपाठशाला' इति प्रारब्धवान् तथा च 'मधुरावाणी' 'पञ्चामृत' इति मासिकपत्राणि अपि आरब्धवान् । १९७१ तमे वर्षे गलगलि हुब्बल्लीनगरम् आगत्य 'वेद, पुराणसाहित्यमाला' न्यासस्य स्थापनां कृतवान् । अनेन न्यासेन गलगलि अनेकानि संस्कृतपुराणानि कन्नडभाषायाम् अनुवादितवान् । कन्नडभाषायां संस्कृतभाषायां च बहूनि पुस्तकानि रचितवान् ।
पण्डरिनाथाचार्यगलगलि अनेकान् पुरस्कारान् प्राप्तवान् । पूर्वराष्ट्रपतिः बाबुराजेन्द्रप्रसादः, शङ्करदयालशर्मा पूर्वप्रधानमन्त्री इन्दिरागान्धी च तस्य सम्मानं कृतवन्तः | २ लक्षं तथा प्रशस्ति पत्रयुक्त दाल्मिया प्रशस्ति कर्णसिङ्गेन प्राप्तम् । तेन पेजावर प्रथमपुरस्कारः इत्यनेन १ लक्षं रुप्यकं तथा उत्तरादि मठात् ध्यानप्रमोद प्रशस्ति द्वारा १ लक्षं रुप्यकं प्राप्तम्। सः काञ्ची कामकोटी मठतः स्वर्णपदकं तिरुपतिविश्वविद्यालयात् 'महामहोपाध्याय' उपाधिं च प्राप्तवान् । पेजावर स्वामी इत्यस्मात् 'कविकुलतिलक', भंडाराकेरे स्वामी इत्यस्मात् 'शास्त्र प्रवचन रत्न 'तथा 'पुराणा तीर्थ', मुलुबागिलुमठ इत्यस्मात् 'विद्याधिराज पुरस्कार', बेंङ्गलूरु नागरिकेभ्यः 'विद्वत कुलतिलक', विबुधेशा तीर्थात् 'साहित्यरत्न ', धारवाड धर्म-संस्कृति प्रतिष्टानात् 'संस्कृतिवाहक' इति प्रशस्तिं गलगलिः प्राप्तवान्। [ ]
संस्कृततः कन्नडभाषायां अनुवादिताः ग्रन्थाः : हरिवंशपुराण, विष्णुपुराण, वराहपुराण, वामनपुराण, दक्षपुराण,नारदपुराण,ब्रह्मपुराण,ब्रह्मवैवर्तपुराण,भविष्यपुराण,पद्मपुराण,स्कन्दपुराण ।
संस्कृतभाषायां लिखिताः ग्रन्थाः : रामरसायनम्, कृष्णकण्ठभरणम्, पवनपावन शम्भुलिङ्गेश्वर, पण्डरपुरविठ्ठलशतक, कोल्हापुर महालक्ष्मी शतक, कृष्णवेणी वैभवं, राघवेन्द्रकाव्यपञ्चकम्, भारत सङ्ग्रामस्य इतिहास, लोकमान्यतिलकचरितम्, क्रांतिस्फूलिङ्गाह, तात्याटोपित गान्धीतोपी पर्यन्तम् ।
कन्नडभाषायां लिखिताः ग्रन्थाः : रागविराग, पौराणिक कथासंग्रह, महाभारत दल्लि मिञ्चिद महिलेयरु, गङ्गलाहरी, भामतिकाव्यः।