पूर्वफल्गुनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पूर्व फाल्गुनी इत्यस्मात् पुनर्निर्दिष्टम्)

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पूर्वफल्गुनीनक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पूर्वफल्गुनीनक्षत्रं भवति एकादशमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

पूर्वफल्गुनीनक्षत्रम्

आकृतिः[सम्पादयतु]

पूर्व-उत्तर नेत्रद्वयोः - नेत्राकृतौ विद्यमाने द्वे नक्षत्रे ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

मो टा टी टू - पूर्वफल्गुनीनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

श्रेष्ठो देवानां भगवो भगासि तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् ।
अस्मभ्यं क्षत्रमजरं सुवीर्यं गोमदश्वमत् सन्नुदेह ॥
भगो ह दाता भग इत्प्रदाता भगो देवीः फल्गुनीराविवेश ।
भगस्येत्तं प्रसवं गमेम यत्र देवैः सङ्घमादं मदेम ॥

वैदिकसाहित्ये पूर्वफल्गुनीनक्षत्रस्य स्वामी भगदेवता । फल्गुनी नक्षत्रं भगो देवता यजुर्वेदस्य ३४-३६, ३४-३८ - मन्त्रेषु भगस्य अर्थः भजनीयः, परमात्मा, विद्वान्, ऐश्वर्यं, सूर्यश्च इति उक्तमस्ति । तैत्तरीयब्राह्मणस्य कथनानुसारं फल्गुनीनक्षत्रस्य स्वामी भगदेवः सर्वेषां हितकारी अस्ति । हे भगदेव, भवान् देवेषु श्रेष्ठः, दाता, प्रदाता, फल्गुन्यां प्रविष्टश्च अस्ति । अतः वयं भवतः माहात्म्यं जानीमः । भवान् क्षत्रत्व-अमरत्व-बलैः अस्मान् अनुगृह्णातु । अपि च अस्मान् गोमान् अश्वमान् विधेहि । वयं देवैः सह जीवेम, तदीयम् आदेशं मन्यामहे, फल्गुनी अस्मासु प्रसन्ना भवतु ।

आश्रिताः पदार्थाः[सम्पादयतु]

प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि ।
कर्पासलवणमक्षिकातैलानि कुमारकाश्चापि ॥

नटा ये नृत्यन्ति । युवतयः स्त्रियः । सुभगाः सर्वजनवल्लभाः । गान्धर्वा गेयप्रवीणाः । शिल्पिनश्चित्रकारप्रभृतयः । पण्यं यत्किञ्चिद्विक्रयद्रव्यं क्रेयं वा । कर्पासः प्रसिद्धः । लवणं सैन्धवम् । माक्षिकं क्षौद्रम् । तैलं तिलतैलम् । एतानि । तथा कुमारका बालकाः । एते सर्व एव प्राक्फल्गुनीषु पूर्वफल्गुन्याम् ।

स्वरूपम्[सम्पादयतु]

शिल्पप्रहरणबन्धनदारुणचित्रकापटं कर्म ।
नटनद्रुमासवाद्यं भाग्ये कुड्यप्रहरणं च ॥

पूर्वफाल्गुनीनक्षत्रे शिल्पकर्म, प्रहारः, बन्धनं, भयङ्करकर्म, वस्त्रेषु चित्रकरणम्, अभिनेतृसम्बद्धं कार्यं, वृक्षसम्बद्धं, शस्त्रसम्बद्धं समग्रं कार्याणि अत्र कर्तुं शक्यन्ते ।

उग्रसंज्ञकनक्षत्राणि[सम्पादयतु]

उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु । योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥ अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वफल्गुनी&oldid=395577" इत्यस्माद् प्रतिप्राप्तम्