सामग्री पर जाएँ

बम्मेर-पोतन:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पोतनामात्यः इत्यस्मात् पुनर्निर्दिष्टम्)

बम्मेर - पोतन: यः कविः महाकविः, प्रजाकविः च आसीत्। यः कविः विद्वांसः सामान्यजनाः च तस्य रचनाभिः प्रसन्नाः भवेयुः इति प्रकारेण लिखितवान् । सः श्रीमद्भागवतं संस्कृतभाषातः आन्ध्रभाषायां अनुवादं कृतवान् येन तस्य जन्म, मातृभाषा, आन्ध्रीयाः च धन्याः अभवन्। श्रीमदान्ध्रमहाभागवतस्य श्लोकान् यः कश्चित् न श्रुतवान् इति तादृश: आन्ध्रीय: नास्ति इति उक्तिः अतिशयोक्तिर्नभवति।

जन्मविशेषाः

[सम्पादयतु]

वर्तमानस्य जनगमामण्डलस्य बम्मेर नामकग्रामे लक्कमाम्बा तथा केसन: इत्येतयोः गृहे अयं जन्म प्राप्नोत् । [] तस्य अग्रजः तिप्पन: आसीत् । सः शैवकुटुम्बीकः बम्मेरवंशोद्भव: च आसीत् । तस्य गुरुः "इवटूरि - सोमनाथ:” आसीत् । सः षट्सहस्रनियोगी कौण्डिन्यासगोत्रीय: च आसीत् ।

भागवतलेखनम्

[सम्पादयतु]

चित्रपाठ्यम्=పోతన|दक्षिणतः|250x250अणवः|पोताना एकदा गोदावरीनदीस्नानं कृत्वा ध्यानं कुर्वन् भगवान् श्रीरामः प्रादुर्भूय व्यासेन लिखितं संस्कृतभागवतं आन्ध्रभाषायां लिखितुं आज्ञापितवान् इति एकः दृष्टान्तः अस्ति। पोतनस्य भागवतस्य लेखनविषये बहवः कथाः प्रचलन्ति । ‘ अल वैकुण्ठपुरम्बुलो’ इत्यस्य पद्यस्य आरम्भं कृत्वा सम्पन्नं कर्तुं न शक्तवान् तदा भगवता एव शेषं पद्यं सम्पन्नम् इति कथा प्रचलति । यदा ओरुगल्लुप्रान्तस्य राजा सिङ्गाराय- भूपालः तस्मै भागवतं समर्पयितुं पृष्टवान् तदा पोतनः निराकृत्य भगवते रामाय समर्पितवान् । यद्यपि सम्पूर्णं श्रीमदन्ध्रभागवतं पोतनेन रचितम्, कालक्रमेण तेषां नाशः जातः इत्यस्मात् परकाले ५ स्कन्धः (३५२ श्लोकाः) गङ्गन: , षष्ठस्कन्ध: (५३१ श्लोकाः) सिङ्गय:, ११,१२ स्कन्धद्वयं (१८२ श्लोकाः) नारायणः च रचितवान् इति अधिकतया मन्यते ।

अन्ये कृतयः

[सम्पादयतु]
पोतनस्य चित्रम्

यौवनस्य स्वाभाविकचपलतायाः कारणेन पोतन: भोगिनी दण्डकम् रचितवान् । तत्कालीन राजा सर्वज्ञसिंहभूपालस्य सख्याः उपरि रचितम् एतत् दण्डकम् कैश्चित् आन्ध्रभाषायां प्रथमदण्डकम् इति मन्यते । पश्चात् दक्षयज्ञस्य अवसरे शिवस्य पराक्रमस्य वर्णनं कुर्वन् 'वीरभद्रविजयम्' इति काव्यं विरचितवान् । दानशीलम् इति काव्यमपि रचितवान् ।

पोतन: - श्रीनाथश्च

[सम्पादयतु]

पोतनः श्रीनाथकविसार्वभौम: च समकालीनौ बन्धुजनौ च आस्ताम् इति लोकप्रियः सिद्धान्तः अस्ति | किन्तु केचन वदन्ति यत् एषः सिद्धान्तः सत्यः नास्ति इति। तयोः मध्ये घटितानां घटनानां विषये बहवः कथाः प्रचलन्ति ।

काव्य-विश्लेषणम्

[सम्पादयतु]

पोतनस्य रचनासु भक्तिः, माधुर्यं, आन्ध्रत्वं, विद्वता, विनयः च संयोजिताः सन्ति । तेषु माधुर्यं अस्ति इति न अतिशयोक्तिः । सः एकः सद्गुणी व्यक्तिः अस्ति यः भावी-कविभ्यः शुभप्रतिज्ञां कृत्वा स्वस्य लेखनस्य आरम्भं कृतवान् । सी. नारायण रेड्डी इत्यस्य भक्तिकविताचतुरानन: बम्मेर - पोतन: इत्ययं निबन्धः आन्ध्रसाहित्ये पोतन: इत्यस्य विशेषस्थानस्य वर्णनं कृतम् अस्ति ।

डिजिटल संग्रहालय:

[सम्पादयतु]

"बम्मेर - पोतनः डिजिटल संग्रहालयः" वरङ्गलनगरस्य पोतनविज्ञानपीठम् इत्यत्र स्थितः अस्ति . [] तेलङ्गानासर्वकारेण काकतीयनगरविकाससंस्थायाः (KUDA) आध्वर्ये कोटिद्वयरूप्यकेषु अस्य संग्रहालयस्य स्थापना कृता । येन महाकवेः बम्मेर-पोतनस्य ताडग्रन्था: आधुनिकसाङ्केतिकोपयोगेन डिजिटलीकरणं कृत्वा भाविकविजनेभ्यः प्रापयितुं शक्यन्ते।[]

पोतन-स्मृतिवनम्

[सम्पादयतु]

तेलङ्गाना-सर्वकारस्य आश्रयेण बम्मेर-ग्रामे पोतन-स्मारकोद्यानस्य निर्माणं क्रियते | तत्कालीन मुख्यमन्त्री कलवकुण्टल -चन्द्रशेखररावु २०१७ तमस्य वर्षस्य एप्रिल-मासस्य २८ तमे दिनाङ्के बम्मेर- ग्रामे पोतन-स्मारकोद्यानस्य निर्माणस्य आधारशिलाम् अस्थापयत् । [] अत्र पोतनामात्यस्य विशालप्रतिमा, पोतनसङ्ग्रहालयः, नाट्यगृहं, स्मारकोद्यानं, पुस्तकालयः, कल्याणमण्डपं (विवाहभवनं), उद्यानं च स्थापितं भवति । [१] पोतन-समाधिः, पोतन-कृषिक्षेत्रे कूपः च शोभते, अस्मिन् क्षेत्रे नूतनाः मार्गाः अपि निर्मीयन्ते । एतेषां कार्याणां कृते राज्यसर्वकारेण १४ कोटिरूप्यकाणि स्वीकृतानि सन्ति। [२]

सः अतीव महान् कविः आसीत्, अतीव उत्तमाः कृतयः च कृतवान् ।

  • वीरभद्रविजयः
  • भोगिनीदण्डकम्
  • ८ श्रीमदन्ध्रभागवतस्य स्कन्धा:
  • .नारायणशतकञ्चेत्यादयः
  1. "బమ్మెర పోతన". TeluguOne Devotional. 11 February 2020. 
  2. "బమ్మెర పోతన". TeluguOne Devotional. 11 February 2020. 
  3. telugu, NT News (2022-04-17). "పోతనకు.. డిజిటల్‌ పీఠం". Namasthe Telangana (in Telugu). Archived from the original on 2022-04-17. आह्रियत 2022-04-17. 
  4. "బమ్మెర పోతన". TeluguOne Devotional. 11 February 2020. 
"https://sa.wikipedia.org/w/index.php?title=बम्मेर-पोतन:&oldid=497302" इत्यस्माद् प्रतिप्राप्तम्