प्यालेस् आन् व्हील्स्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्यालेस् आन् दि व्हील्स् – धूमशकटयानम् राजस्थानराज्यं प्रवासिनां स्वर्गः इति वदन्ति । रजपूतानाम् इतिहासः तथास्ति । उद्यानानि, दुर्गाणि, देवालयाः, सङ्ग्रहालयाः, सरोवराणि च द्रष्टुं विशेषधूमशकटयानम् अस्ति । तस्य नाम अस्ति ‘प्यालेस् आन् दी व्हील्स्’ । अस्य रचना एव अतिसुन्दरतया कारिता अस्ति । अस्मिन् धूमशकटयाने त्रयोदश वायुनियन्त्रितविभागाः सन्ति । शयनप्रकोष्ठः, शीतकं, कर्मकराणां वसतिव्यवस्था च अत्र अस्ति । सामग्रीरक्षणार्थं प्रत्येकप्रकोष्ठः अस्ति । सर्वविभागेषु सी.सी.टी.वि, सङ्गीतवाहिन्यः, विहारस्थलं, वस्तुसङ्ग्रहस्थानं च अस्ति । धूमशकटयाने एव पत्रप्रेषणव्यवस्था, सुरक्षाव्यवस्था, धनविनिमयकेन्द्रं च व्यवस्थितम् अस्ति । धूमशकटयानस्य विभागानामपि कोटा, जयपुर, उदयपुर इत्यादिनामानि सन्ति । धूमशकटः जयपुर-चित्तौड-उदयपुर- सवायीमाधवपुर- जैसल्मेर-जोधपुर- भरतपुराणां दर्शनं कारयति । सप्तदिनानि यावत् समयः प्रवासाय दर्शनाय च आवश्यकः । रात्रौ प्रवासः दिने स्थलवैभवदर्शनम् एवम् व्यवस्था अस्ति । पूर्वं राजानः महाराजाः यान् धूमशकटविभागान् उपयुक्तवन्तः तान् एव आधुनिककाले नूतननाम्ना सेवार्थम् उपयोगे सन्ति । पूर्वमेव आरक्षणं कर्तुं

  • प्रवासोद्यमकेन्द्रम्,
  • बिकानेर् हौस,
  • न्यूदेल्ली

कार्यालयस्य सम्पर्कः कर्तव्यः भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]