प्रतिमानाटकम्
प्रतिमानाटकम् भासकविना विरचितमिति टि.गणपतिशास्त्रिणः अनेकैः साक्ष्याधारैः प्रत्यपादयत् । केचन दोषज्ञाः शास्त्रिमतं नाङ्गीकुर्वन्ति । किन्तु भासनाटकचक्रे विद्यमानानां त्रयोदश नाटकानां कर्ता भासादपरः कविरपि न सिद्धः । अतः विवादान् पार्श्वे कृत्वा साद्यस्के काले बहुभिः अङ्गीक्रियते यत् एतेषां कर्ता भास एव इति । एतस्मिन् नाटके सप्ताङ्काः भवन्ति ।रामायणकथाधारेण (रामायणं उपजीव्यकाव्यम् आधृत्य) एतत् प्रतिमानाटकं रचितमस्ति । कविः रामायणस्य कथां किञ्चिद् व्यत्यस्य कथावितानं तनोति । अस्य कवेः काले रामायणस्य सर्वाण्यपि पात्राणि आदर्शप्रायाणि आसन् इति अस्मात् ग्रन्थात् अवगन्तुं शक्यते । यतः स्वस्य नाटके सर्वाणि पात्राणि गुणवन्ति दोषरहितानि च चित्रितानि भासेन । अस्मिन् नाटके कैकेयी अपि गुणवतीति प्रतिपादयितुम् अनेन प्रयत्नः कृतः इति लक्ष्यते । यतः षष्ठेऽङ्के भरतः सुमन्त्रमुखात् रामस्य वनगमनरहस्यं जानाति । तेन च खिन्नमानसः स्वमाता दोषरहितेति विदित्वा मातुः कैकेय्याः क्षमां याचते । अस्य ’प्रतिमानाटकम्’ इति नामकरणे हेतुः तृतीयोङ्कः । अत्रस्थं प्रतिमादृश्यं कवेः प्रतिभायाः साक्षीभवति । अस्मिन्नङ्के विद्यमाना नाटकीयता अत्यन्तं हृद्यङ्गमा वर्तते । कोमलहृदयी भरतः पितरं दशरथं द्रष्टुकामः अयोध्यामागच्छत् । अयोध्यायां दशरथस्य मरणोदन्तः तस्य हृदयविद्रावकः अभवत् । वाल्मीकिरामायणे कैकेयी एव भरताय दशरथस्य मरणवार्तां विवृणोति । किन्तु अत्र तं प्रसङ्गं व्यत्यस्य, भरतः एतां दुष्किंवदन्तीं मन्दं मन्दं यथा जानीयात् तथा कविः प्रतिमागृहस्य कल्पनां योजयति । यस्मिन प्रतिमागृहे सूर्यवंशस्य अतीतानां राज्ञां प्रतिमाः स्थापिताः आसन्, ताः भरतः ऐदम्प्राथम्येन पश्यति । तत्र दिलीपः, अजः, रघुः, तदनन्तरं दशरथः एवं क्रमेण प्रतिमाः विन्यस्ताः आसन् । तत्र अतीतानामेव प्रतिमाः स्थापिता इति देवकुलिकात् ज्ञात्वा भरतः मूर्च्छाक्रान्तः भवति । एवं पितुः मरणं मृतानां प्रतिमादर्शनेन प्रतिमितं भवति भरतस्य मनसि । एतेन नाम सार्थकं भवति ।
अङ्कानुसारं प्रतिमानाटकस्य कथा
[सम्पादयतु]- प्रथमाङ्के- श्रीरामस्य पट्टाभिषेकविचारः, तस्य विघ्नः, रामस्य वनगमनम् च वर्ण्यन्ते ।
- द्वितीयेऽङ्के- दशरथस्य दुःखम्, तस्य मरणं च दृश्यते ।
- तृतीयेऽङ्के- भरतः मातुलगृहात् प्रत्यागमनसमये प्रतिमागृहं प्रविशति । तत्र अधिकृतस्य देवकुलिकस्य मुखात् क्रमेण दशरथस्य मृतिम्, रामस्य वनगमनं च अवगत्य मूर्छितः भवति । प्रतिमादर्शनार्थं तदा तत्रागताः कौसल्यादयः मातरः भरतं स्पृष्ट्वा समादधति । शोकविह्वलः भरतः कैकेयीं न नमति, तां च कठिनतरैः वाक्यैः दूषयति । रामदर्शनार्थं चित्रकूटं गच्छति ।
- चतुर्थाङ्के- भरतः रामं दृष्ट्वा राज्यं प्रतिग्रहीतुं प्रार्थयति । किन्तु यदा रामः भरतस्य प्रार्थनां नाङ्गीकरोति तदा भरतः चतुर्दशवर्षपर्यन्तम् रामपादुकयोः न्यासभूतं कृत्वा, रामराज्यं रक्षितुम् आत्मानं नियुङ्क्ते ।
- पञ्चमाङ्के- परिव्राजकवेषधारी रावणः रामाश्रमम् आगत्य स्वयं श्राद्धकल्पे निष्णातः, इति आत्मानं परिचाययित्वा, "हिमालयस्य सप्तमे शिखरे सुवर्णमृगः समर्प्यते चेत् तत्क्षणादेव पितृणां सद्गतिः भवती"ति रामः वदति । तादृशः मृगोऽपि तत्र गोचरति । रामः तं मृगम् अनुधावति । रावणोऽपि सीतां तदैवापहरति ।
- षष्ठेऽङ्के - भरतः सुमन्त्रमुखात् रामस्य वनगमनस्य रहस्यं ज्ञात्वा, माता दोषरहिता इति ज्ञात्वा कैकेय्यां क्षमां याचते । रावणवधार्थं रामाय साहाय्यार्थं ससैन्यः वनं प्रतिष्ठते ।
- सप्तमेऽङ्के - मध्ये मार्ग एव जयशालिना रामेण सह भरतस्य समागमः भवति । कैकेयी रामं पट्टाधिकारं स्वीकर्तुं सूचयति । अयोध्यायां श्रीरामपट्टाभिषेकः प्रवर्तते ।
प्रतिमायां भासस्य प्रतिभा
[सम्पादयतु]भासस्य शैली सरला सुन्दरा च । श्रुतिमधुरं सम्भाषणम् । पात्राणि नयनमनोहारीणि । नाटकरचनायां सिद्धहस्तो भास इति नातिशयोक्तिः । नाटके पठिते दृष्टे वा कुत्रापि जामिता न भवति । घटनानाम् अनुसरणिः, अनर्थराहित्यम् , करुणरसस्य प्राधान्यम्, कथासंविधानम्, पात्रसृष्टिः, रसप्रतिपादनम्, इत्यादिषु भासेन कालिदासः भवभूतिः शूद्रकश्च सम्मानं समानं स्थानं च भजन्त इत्यत्र न सन्देहः ।