प्रथमः अमोघवर्षः
| प्रथमः अमोघवर्षः | |
|---|---|
| Old Kannada inscription (876 AD) of Rashtrakuta King Amoghavarsha I at Veerabhadra temple in Kumsi | |
| शासनकालम् | c. 814 – c. 878 CE (64 years) |
| पूर्ववर्ती | Govinda III |
| उत्तराधिकारी | Krishna II |
| पिता | Govinda III |
| जन्म | 800 CE |
| मृत्युः | 878 CE |
| मतम् | Jainism[१] |
फलकम्:ರಾಷ್ಟ್ರಕೂಟ ಅರಸರುप्रथमः अमोघवर्षः अथवा अमोघवर्षः नृुपतुङ्गः ८१४ तमे वर्षे मुम्मडि गोविन्दस्य नन्तरं राष्ट्रकूटस्य राजा अभवत् । सः " नृुपतुङ्ग " इति नाम्ना अधिकतया प्रसिद्धः अस्ति । यदा सः राजा आसीत् तदा सः केवलं १४ वर्षीयः आसीत् । यद्यपि सः स्वभावतः शान्तिप्रियः, तथापि अनेकेषु दीर्घेषु युद्धेषु प्रवृत्तः अभवत् । सः जैनधर्मस्य रक्षकः आसीत् ।
कालः
उत्तरभारतं जित्वा प्रत्यागतः गोविन्दस्य तृतीयपुत्रः | संजनशिलालेखे उक्तं यत्- गोविन्दस्य जन्म विन्ध्यपर्वतस्य श्रीभवने अभवत्। ८०३ तमे वर्षे मण्णेय शिलालेखे गोविन्दः श्रीभवने आसीत् इति उल्लेखः अस्ति, अतः अमोघवर्षस्य जन्म प्रायः ८०० तमे वर्षे अभवत् इति अभिप्रायः।
राज्यपालना
[सम्पादयतु]८१४ तमे वर्षे गोविन्दस्य मरणं जातमित्यतः अमोघवर्षः यदा उत्तराधिकारी अभवत् तदा तस्य वयः १४ आसीत्। अस्मिन् समये समयसाधकाः चालुक्याः,राष्ट्रकूताः च अमोघवर्षस्य पतनम् इच्छन्तः राज्यस्योपरि आक्रमणं कर्तुं चिन्तितवन्तः। परन्तु बरोडा ताम्रशासनानुसारं(८३५) गुजरात् राज्यस्य राजा बन्डुगारं जीत्वा अमोघवर्षस्य सिंहासनारोहः जातः इति उक्तम्। सन्जान ताम्रशासने पातालमल्ल इति कश्चन वीरभटः शत्रून् निग्रहणं कृत्वा राज्ये शान्ततां सम्पाद्य, अमोघवर्षं स्व वंशानुगत सिंहासनस्योपरि स्थिरम् उपावेशितवान् इति लिखितम्। द्वितीय कृष्णराजस्य ताम्रशासनेषु अमोघवर्षः शत्रून् स्वयमेव निर्मूल्य स्वराज्यं स्थिरीकृतवान् इति उक्तम्। अमोघवर्षः महाप्रतापशालिः। स्वस्य पित्रा विस्तृतराज्यं साहसेन रक्षितवान्। पूर्वचालुक्याः एवं तलकाडु गङानां सह युद्धं क्रुत्वा तेषां राज्यस्य केचनभागान् आक्रमितवान्। विस्तृतराज्यं बन्केश इत्यादि अनेकमाण्दलिकानां सहाय्येन पालयन् देशे शान्तिं रक्षितवान्। लोकोत्पीडया शान्त्यर्थं स्वस्य वामहस्तस्याङुलीं महालक्ष्मै बलिं दत्तवान् इति तस्य सञजान ताम्रशासने लिखितम्। इयं लोकोत्पीडा का इति न ज्ञायते।
साहित्ये योगदानम्
[सम्पादयतु]
नृपतुङः स्वतः कविरासीत् इत्यतः सः विविध कवीनां, पण्डितानां आश्रयदाता च आसीत्। अस्य आश्रये कनन्ड एवं संस्कृतसाहित्यानि प्रवृद्धानि। कन्नडे लभ्यः प्रचीनग्रन्थः कविराजमार्गस्य कर्ता नृपतङ्ग अथवा तस्य आस्थानकविः श्रीविजयः। अमोघवर्षस्य काले केचन युद्धाः जाताः चेदपि सः प्रायः ६२वर्षपर्यन्तदीर्घानुशासने ललितकलानाम् अभिवृद्ध्यर्थम् अनुकूलित शान्तिः तस्य राज्ये आसीत्। अयं कन्नडसाहित्ये उपलभ्यमानग्रन्थेषु अतीप्रचीनग्रन्थ इति कथ्यमान कविराजमार्गम्, प्र्श्नोत्तरमालिका इति संस्कृतग्रन्थान् रचितवान् इति वादोऽस्ति। कविराजमार्गः भामः दडि इत्यादयानां अलङ्कारग्रन्थान् बहुशः अनुसरति। कन्नडालङाकारग्रन्थेषु इदं प्रमाणभूतम्। अमोघवर्षः श्रीविजय इत्यादि विदुषः स्व आस्थाने अश्रयं दत्तवान्। पार्श्वाभ्युदय,अस्य गुरुः पूर्वपुराणान् लिखित जिनसेनाचार्यः। शाकटायन इति जैनव्याकरण शब्दानुशासनमपि एवं तस्य टीकारूप अमोघवृत्तिमपि तस्मिन्नेव समये विरचितवान्। युवराज,कृष्णराजस्य च गुरुः गुणभद्राचार्यः अपि अमोघवर्षस्य भक्तिगौरवैः प्रेरितः उत्तरपुराणं रचितवान्। गणितसारसङ्ग्रहस्य कर्ता वीराचार्य स्वस्य ग्रन्थरचनसमये अमोघवर्षः सार्वभौमः इति उक्तवान्। नृपतुङ्गस्य रचना शास्त्रग्रन्थः। काव्यदोषाः,अलङ्काराः च अत्र वर्णिताः। कन्नडदेशीयाः जनाः "कुरितोदेयुं काव्यप्रयोग परिणतमतिगळ्" अर्थात् "विनापठनेऽपि काव्यप्रयोगे निपुणाः" इति नृपतुङ्गः श्लाघनं कृतवान्।
शासनम्
[सम्पादयतु]तेन मन्याखेत (अधुना मल्खेडा) नगरं निर्माय राष्ट्रकूटानां मुख्यनगरं कृतम् । अरब - लेखकः सुलेमानः अमोघवर्षस्य तुलनां चीन - बगदाद् - कान्स्टन्टिनोपल् - देशानाम् राजाभिः सह क्रुत्वा लिखति| सः हिन्दुधर्मस्य जैनधर्मस्य च समानरूपेण सम्मानं कृतवान् |
उपाधिः
[सम्पादयतु]अमोघवर्षस्य शर्वः, नृपतुङ्गः, अतिशयधवलः, वीरनारायणः, लक्ष्मीवल्लभेन्द्रः, श्रीवल्लभः, मार्तण्डः इत्यादयः उपाधयः आसन् । तस्य शंखदेवी चन्द्रबोल्लब्बे च कन्याद्वयं कृष्णराजः पुत्रः च आसीत् । सः शान्तिप्रियः राजा आसीत्, अतः सः शत्रून् गङ्गां पल्लवं च पराजय्य तेषां सह सम्बन्धं स्थापितवान् । यदा राष्ट्रकूटवंशस्य गोविन्दतृतीयः विजयैः प्रसिद्धः आसीत्, तदा तस्य पुत्रः अमोघवर्षः स्वराज्ये शान्तिं स्थापयित्वा ललितकलानां प्रोत्साहनं कृत्वा कर्णाटकस्य कीर्तिं वर्धितवान् ।
अन्तम्
[सम्पादयतु]अमोघवर्षस्य निधनं क्रि.श .८७८ तमे वर्षे अभवत् |
वंशावली
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ Jaini 2000, p. 339.