प्रथमाविभक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – २.३.४६ नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्रातिपदिकार्थमात्रे, लिङ्गमात्राद्याधिक्ये, सड्ख्यामात्रे च प्रथमा स्यात् । प्रवृत्तिनिमित्तं व्यक्तिश्च प्रातिपदिकार्थः । उदाहरणम् -वृक्ष इति प्रातिपदिकस्य वृक्षत्वविशिष्टः वृक्षः इत्यर्थः । अत्र वृक्षत्वं प्रवृत्तिनिमित्तम् । वृक्षः व्यक्तिः । एतादृशे प्रातिपदिकार्थे प्रथमा स्यात् ।

  • गौः गोष्ठम् आगच्छति । (गौः गोष्ठम् आगच्छति )

अत्र गो इति प्रातिपदिकस्य अर्थः गोत्वविशिष्टः गौः इति । अत्र गोशब्दात् प्रथमा ।

  • छात्रेण श्लोकः पठ्यते (छात्रेण श्लोकः पठ्यते)

अत्र श्लोक इति प्रातिपदिकस्य अर्थः श्लोकत्वविशिष्टश्लोकः इति । अतः श्लोकशब्दात् प्रथमा ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रथमाविभक्तिः&oldid=409436" इत्यस्माद् प्रतिप्राप्तम्