प्रबुद्धरौहिणेयम्
प्रबुद्धरौहिणेयम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | रामचन्द्रः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
प्रबुद्धरौहिणेयस्य षडङ्कस्य प्रकरणस्य रचयिता रामचन्द्रो जैनमुनिर्वादिदेवस्य जयप्रभसूरेः शिष्यो द्वादश्याः शताब्द्याश्चरमे भागे जन्मना भुवमलङ्कुर्वाणः स्वातन्त्र्यप्रेमस्थेमानं स्तुवन् कालकूटचतुष्टयीं परिभाषते स्म -
अन्यासक्ते जने स्नेहः पारवश्यमथार्थिता।
अदातुश्च प्रियालापः कालकूटचतुष्टयी।।[१]
विण्टरनित्स-महाभागः अस्याविर्भावकालं ११८५ ख्रीष्टाब्दं निर्धारयति।
कथावस्तु
[सम्पादयतु]पाटच्चरो लोहखुरो मरणकाले स्वपुत्रं रौहिणेयमुपदिष्टवान् - महावीर-वाणी मा ते कर्णयोः पतेदिति कुलव्रतं त्वयानुसरणीयम् । ततः परं स कुलाचारध्वंसिनीं जिनवाणीं प्रति बद्धवैरो बभूव । रौहिणेयः पितरि मृते कदाचिद् वसन्तोत्सवदत्तोल्लासान् नागरान् स्व-स्वप्रेयसी-कण्ठनिषक्त-बाहून् मकरन्दोद्याने सविलासानालोक्य भूयिष्ठां सुन्दरीं कामपि स्वार्थं हर्तुमचिन्तयत् -
वणिग् वेश्या कविर्भट्टस्तस्करः कितवो द्विजः।
यत्नापूर्वोऽर्थलाभो न, मन्यन्ते तदहर्वृथा।।[२]
अथासावात्मानमन्तर्धाय कस्यापि धनिकस्य सदने मदनवतीं नामाङ्गनां रम्यतमां पति-सौभाग्यफलया चारुतया बद्धासूयां निरवग्रह-सौभाग्यसमुन्नयनपरेणोपपतिना सहालपन्तीं कल्लोलिनीमिव सागरं विहाय नदेन संगम्यमानामपश्यत् । शीतले कदलीगृहे कामविलासं निर्वोढूकामौ तौ कृतनिश्चयक्रमे सस्पृहं वियुज्य पुष्पावचयाय मदनशयनप्रयोजनकाय पृथक्-पृथक् दिशौ गतौ। एकाकिनी मदनवती मदनाभिष्वङ्गतरङ्गिताङ्गीं पुष्पाण्यवचिन्वानां वर्णयति -
पुष्पार्थं प्रहिते भुजेऽनिलचलन्नोलाङ्गिकाविष्कृतः
सल्लावण्यलसत्प्रभापरिधिभिर्दोर्मूलकूर्लकषः।
ईषन्मेघ-विमुक्त-विस्फुरदुरु ज्योत्स्ना-भर-भ्राजित-
व्योमाभोग-मृगाङ्क-मण्डल-कलां रोहत्यमुष्याः स्तनः।।[३]
ततः कियद् दूरंगते भुजङ्गे रौहिणेयः सखायं शबरमादिष्टवान् -
व्याजेनोपपतिमस्यास्तत्रैव विलम्बय, यावदहमेनां हरामीति। पश्चात्तां स्कन्धेनोद्वाह्य पलायते स्म ।
निवृत्य जारो भूयस्तामन्विष्यन्नलभमानः शबरेण प्रोक्तः – परिजनपरिवृतः क्रुद्धः कोऽपि निकट एव लतान्तरे मन्त्रयत इति । असौ मदनवत्या यदि पतिर्भवेत्तर्हि मारयेदेव मामिति सुतरां भीतो जारः पलायते स्म । मदनवती रौहिणेयेन स्वीकृता। पुनः रमणीकामो रौहिणेयः शबरद्वितीयः श्रेष्ठिगृहस्य समीपे गत्वा नवदम्पती गृहप्रवेशमुहूर्तं प्रतिपालयन्तौ परिजनं च सोत्साहमुत्सवलग्नमदर्शत् । प्राक् तावच्छवरो मध्ये परिजनमनृत्यत् । तावदेव रौहिणेय कपटस्त्रीवेशः समागतः -
कुसुम-मुकुटोपशोभिता पट्टांशुक-कृतनीङ्गिकानना कुङ्कुम-स्तबकाञ्चितललाटा युवतिः। कक्षान्तरेऽलक्षश्चौरिकासर्पश्च।
श्वश्रूरूपधरो रोहिणेयो वरं स्कन्धमारोप्यानृत्यत्, काप्यनुचरी वधूं स्कन्धे धृत्वानृत्यत् । नर्तकी वामनिका शबरस्य स्कन्धमारुरोह। रोहिणेयो गन्धर्वांश्चादिदेश-तारं वाद्यानि वादयतेति । एवंभूते तुमुले मनोरमावेशो रौहिणेयः स्वकक्षायाश्चीरिकासर्पमपातयत्। वास्तविकसर्पं मत्वा पलायमाने जने रौहिणेयो वरमपाहरत् । नातिदूरं गत्वा पुरुषरूपेण दस्युदर्शनेन रुदन्तं वरं छुरिकया खण्डशस्त्वां छेत्स्यामीति भीषयित्वा गिरिगुहामनयत् । विलम्बेन परीक्ष्य श्रेष्ठिना कृत्रिमसर्पं परिज्ञाय वरमपश्यन् नाचिरेणैव बोधितो यत् दस्युना केनापि स हृत इति । राज्ञादिष्ट आरक्षको रौहिणेयं निग्रहीतुं सत्वरो बभूव। रौहिणेयस्तावदुग्रदण्ड-चण्ड-प्रकाण्डं राजानं विदित्वापि तदागारादेव स्वर्णराशिं चोरयितुमुपक्रमते स्म ।
एकदा प्रदोषे भगवन्तं महावीरं परिषदि समागतं दृष्ट्वासौ पितृवचनानुवर्ती पाणिभ्यां पिहितकर्णो निवार्यमाणः जिनवचनश्रुतिश्चलन् पादे कण्टकेन विद्धः कर्णाभ्यां हस्तौ विमोच्य कण्टकाकर्षणमतिर्भगवद्वचनमशृणोत् -
निःस्वेदाङ्गाः श्रमविरहिता नीरुजोऽम्लानमाल्या
असृष्टोर्वीलयचलना निर्निमेषाक्षिरम्या।
शश्वद् भोगेऽप्यमलवसना विस्रगन्धप्रमुक्ता-
श्चिन्तामात्नोपजनितमनोवाञ्छितार्थाः सुराः स्युः।।
चौर्योपक्रमे स राजप्रासादस्य निकटे प्रहरीभिराहूतः पलायमानः चण्डिकायतन-प्राचीरमतिलयन् प्रसृतजाले पतितो गृहीतः। राज्ञः समक्षमुपस्थापितः उपस्थितेऽमात्येऽभयकुमारेऽसौ शूलारोपणं दण्डितः। तब्रोऽमात्योऽवदत् - नास्मात् किमपि चोरितं वस्तु प्राप्तम् । अत एव नायं शूलामारोपणीय इति । पश्चात् पृष्टः आत्मानं शालिग्रामवास्तव्यं कृषकं दुर्गचण्डनामानं कार्यतोऽत्रायातं नगरे सम्बन्धिनः कस्याप्यभावेन चण्डिकायतने सुप्तमारक्षकध्रियमाणं प्राकारलङ्घनकृत — विवशोद्यमं निगृहीतं विज्ञापितवान् । शालिग्रामे गतो दूतो ग्रामीणैः दुर्गचण्ड इह वसत्यथ कार्येण क्वापि गत इति विज्ञापितः । दूतमुखादेतच्छ्रुत्वा राजा तद्दिवसे न्यायाधिकरणकार्यं स्थगयामास।
स्वापराधं कथंचिद् रौहिणेय एव स्वीकुर्यादिति संकल्प्य राजामात्यो नाट्याभिनयलीलां कारयामास येन पीतबहुतर-मद्यो दस्युरात्मानं स्वर्गलोकगतमनुभवेत् । तत्र राजकीयो नाट्याचार्यों भरत इति वाराङ्गनाश्चाप्सरस इत्यासन् । मद्यविचेतनस्य रौहिणेयस्य दक्षिणेन चन्द्रलेखा-वसन्तलेखे वामेन च ज्योतिष्प्रभा-विद्युत्प्रभे चोपाविशन्। शृङ्गारवत्यां नृत्यन्त्यां गन्धर्वेषु। सङ्गीतं च प्रतिपन्नेषु पाटच्चरं लब्धसंज्ञमाकलय्य नटाः कलकलं चक्रुः - देवलोकोऽद्य धन्यो यत् स्वामिविहीनाननाथानस्मान् भवादृशः स्वामी प्रतिपन्नः।
"अस्मिन् महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना।
अस्माकं स्वामिभूतोऽसि त्वदीयाः किंकरा वयम्।।''
ततश्चन्द्रलेखोवाच - प्राणप्रियो मे त्वं जात इति । विद्युत्प्रभा कामातुरेव जगाद -
जाता ते दर्शनात् सुभग समधिकं काम-दुःस्थावस्थेति ।।
अत्रान्तरे प्रतीहारेण प्रविश्योवाच - स्वर्लोकाचारं विनैव युष्माभिः संगीतकर्मारब्धमिति । नवागन्तुको देवोऽत्र प्रथमं पुराकृतानि पुण्यानि पापानि च घोषयित्वैव स्वर्भोगाधिकारी भवतीति समुदाचारः । रौहिणेयमुपगम्य सुरेन्द्रप्रेषितमात्मानं विज्ञाप्य मानवजन्मार्जितानि शुभाशुभानि कर्माणि श्रावयितुमुत्साहयामास । अथ रौहिणेयो विष्वगवलोकमानः रहस्यमजानात्। स्विन्नगात्रा इमे जना भुवं स्पृशन्ति, म्लान-माल्यावेष्टितकण्ठाः कथं देवाः? इदं कपटनाटकमेव मत्कृते रचितं स्यादिति प्रोक्तवान् ।
दत्तं पात्रेषु दानं नय-निचित-धनैश्चक्रिरे शैलकल्पा-
न्युच्चैश्चैत्यानि चित्राः शिवसुखफलदाः कल्पितास्तीर्थयात्राः।
चक्रे सेवा गुरूणामनुपमविधिना ताः सपर्या जिनानां
बिम्बानि स्थापितानि प्रतिफलममलं ध्यातमर्हद्वचश्च।।[४]
इमानि तावच्छभानि कर्माणि, अशुमान्यपि वदतु । इति प्रतीहारेण प्रोक्तः स प्रत्युवाच - दुश्चरित्रं मया क्वापि कदाचिदपि नो कृतम् ।
इति श्रुत्वा प्रतीहारः पुनरपृच्छत् - परस्त्रीप्रसङ्ग-परधनादान-द्युत-प्रभृतीनामन्यतमं सर्वं वा स्वभावेन मानव आचरत्येव । तद् भवानपि ब्रवीतु कतममेषां पातकं कृतमिति । रौहिणेयोऽवदत्-मम स्वर्गतिरेव प्रमाणयति नाहं दुष्प्रवृतिं काञ्चनाचरमिति । ततो राजानमनुगच्छन्नमात्य प्रविश्यावदत् -
प्रपञ्चचतुरोऽप्युच्चैरहमेतेन वञ्चितः ।
वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन।।
इति प्रमाणाभावेनादण्ड्यममुं सत्यं पृष्ट्वा मुञ्चतु महाराज इति।
राजामात्याभ्यां रहसि पृष्टो रोहिणेयो रहस्यमुदघाटयत् -
निःशेषमेतन्मुषितं पत्तनं भवतो मया । नान्वेषणीयः कोऽप्यन्यस्तस्करः पृथिवीपते।। इत्यत्र यत् किमपि मया नटितं निवेदितवान् – तत्र हेतुर्महावीरो जिनः।
पूर्ववृत्तं स यथा पितुरुपदेशो यथा च कण्टकनिःसारणाय हस्तौ कर्णाभ्यां मया सारयता जिनवाक् श्रुता, यथा च देवानां नैसर्गिको व्यवहारो निर्निमेषत्वादिज्ञतोऽथ च कूटदेवलोको विज्ञात इति । असौ मन्त्रिणं गिरिगह्वरस्थानि स्तेयेन संचितानि धनानि प्रत्यर्पयितुमसूचयत्, स्वयं च जिनस्य शरणं प्रपन्नः। अथ गह्वरादेव मदनवती-मनोरथकुमारौ पुष्कलश्च स्वर्णराशिः प्राप्ताः। राजा चान्ते रौहिणेयमभ्यनन्दत्।
त्वं धन्यः सुकृती त्वमद्भुतगुणस्त्वं विश्वविश्वोत्तम-
स्त्वं श्लाघ्योऽखिलकल्मषं च भवता प्रक्षालितं चौर्यजम्।।
पुण्यैः सर्वजनीनता-परिगतौ यौ भूर्भुवः स्वोऽर्वितौ
यस्तौ वीरजिनेश्वरस्य चरणौलीनः शरण्यौ भवान्।।
नाट्यकथावस्तुनि जैनमतप्रतिष्ठापनाग्रहस्तावदन्त एव समापतति । संस्कृत-नाट्य-साहित्येऽस्य प्रकरणस्य कथानकगता प्रत्यग्रता, सङ्गीतस्य पुष्कलता, रौहिणेयस्य दस्योर्नायिकता कूट-घटना-वैचित्र्यं, न्यायालयवसन्तोत्सव-समवसरणादीनां दृश्यता सुतरां रञ्जकत्वं भजन्ति सर्वथाभिनवशिल्पसंघटनां चोन्मीलयन्ति । सानुप्रासा सङ्गीतमयी प्रसन्न-गतिका कविशैली नृत्यन्तीव मनसो मुदे कल्पते -
क्वचिन्मल्ली - वल्ली - तरल-मुकुलोद्भासित-वना
क्वचित् पुष्पामोद-भ्रमदलिकुलाबद्ध-वलया।
क्वचिन्मत्त - क्रीडत्परभृत - वधू-धवान-सुभगा
क्वचित् कूजत्पारावत-वितत-लोला-सुललिता।।