प्रह्लाद जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रह्लादजोशी इत्यस्मात् पुनर्निर्दिष्टम्)

२००४ तमे वर्षे एप्रिल्-मासे सम्भूते सार्वजनिकलोकसभानिर्वाचने धारवाड - उत्तर-मतक्षेत्रात् चितः, प्रह्लादजोशिमहोदयः। सः चतुर्दशे लोकसभानिर्वाचने धारवाड-उत्तर-भागस्य प्रतिनिधिः आसीत् । एषः स्वस्य उत्तमकार्यैः जनानां प्रीतिपात्रम् अभवत् । २००९ तमे वर्षे सम्भूते लोकसभा-निर्वचने बहूनां मतानाम् अन्तरेण द्वितीयवारं चितः।

जन्म, बाल्यञ्च[सम्पादयतु]

श्रीप्रह्लादजोशिमहोदयः १९६२ तमे वर्षे नवम्बर-मासस्य २७ तमे दिनाङ्के विजापुरनगरे जन्म प्राप्तवान् । तस्य पिता श्रीवेङ्कटेशजोशिः। माता मालईबायि । तस्य प्राथमिकशिक्षणं रेल्वेशालायाम् अभवत् । माध्यमिकशिक्षणं नगरस्य नूतन-आङ्ग्लमाध्यमशालायां प्राप्तवान् । बि. ए. पदवीं प्रतिष्ठितात् के. एल्. इ. संस्थायाः श्रीकाडसिद्धेश्वरकलामहाविद्यालयात् प्राप्तवान् ।

सामाजिककार्याणि[सम्पादयतु]

एषः नवमवर्षीयः यदा आसीत् तदा एव राष्ट्रियस्वयंसेवकसङ्घस्य कार्यकर्ता आसीत् । संधस्य विभिन्नानि उत्तरदायित्वानि समर्थतया निरूढवान् । धारवाडस्य लोकशिक्षणसंस्थायां धर्मदर्शी भूत्त्वा कार्यम् अकरोत् । ना. सु. हर्डिकरेण स्थापितायाः हुब्बळ्ळिशिक्षणसंस्थायाः, श्रीमती ’विद्याहञ्चिनमनि’ पदविपूर्वमहाविद्यालयस्य च कार्याध्यक्षः भूत्त्वा कार्यं निरूढवान् ।

उद्योगः[सम्पादयतु]

प्रह्लादजोशिमहोदयस्य स्वोद्योगे आसक्तिः नासीत् । एषः अंशभागी भूत्त्वा १९८६ तमे वर्षे ’विभव केमिकल्’ इति लघोद्यमस्य आरम्भं कृतवान् । एतत् सर्वेषां श्रमेण बृहत् उद्यमरूपं जातम् ।

कौटुम्बिकजीवनम्[सम्पादयतु]

एषः १९९२ तमे वर्षे नवम्बर-मासे बागलकोटमण्डलस्य सौ. ज्योतिनाम्नीं लिपिकारस्य पुत्रीं परिणीतवान् । तयोः त्रीणि अपत्यानि जातानि ।

राजनैतिकजीवनम्[सम्पादयतु]

सदा कार्यप्रवृत्तः एषः १९९२ तमे वर्षे डा. मुरळीमनोहरजोशिमहोदयस्य ’काश्मीरं रक्षतु’ इत्येतस्य आन्दोलनस्य नेतृत्वं वहन् राजनैतिकक्षेत्रं प्रविष्टवान् । १९९२ तमे वर्षे जनवरिमासस्य २६ तमे दिनाङ्के हुब्बळ्ळिकित्तूरुचेन्नाम्मा क्रीडाङ्गणे ध्वजारोहणाय बहूनि विध्नानि आगतानि। किन्तु बहु परिश्रमेण जोशिमहोदयः ध्वजारोहणे सफलः अभवत्। अत्रत्यजनानां मनसि जोशिमहोदयः एकः समर्थः नायकः इति दृढनिश्चयः जातः । तदनन्तरं भारतीयजनतापक्षस्य हुब्बळ्ळि-धारवाडमहानगरमण्डलस्य अध्यक्षः अभवत्। राजनैतिकक्षेत्रे उत्तमव्यक्तिः इति प्रसिद्धिं प्राप्तवान्। चतुर्वर्षेभ्यः कर्नाटकराज्यस्य भारतीयजनतापक्षस्य प्रधानकार्यदर्शिरूपेण, पक्षस्य राज्याध्यक्षरूपेण च पक्षस्य संघटनकार्याणि उत्तमरीत्या निर्वहन् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रह्लाद_जोशी&oldid=479604" इत्यस्माद् प्रतिप्राप्तम्