प्राणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

प्राणः योगदर्शन-आयुर्वेदादिषु शास्त्रेषु जीवनमूलत्वेन प्रस्थापितः।[१]सूर्यस्य उत्पत्तौ, ब्रह्माण्डे व्याप्तायाः शक्त्याः मूलत्वेनापि प्रस्थापितः।[२]

आयुर्वेद-तन्त्रादिषु ग्रन्थेषु प्राणस्य पञ्च प्रकाराः प्राक्ताः :

  1. प्राणः
  2. अपानः
  3. उदानः
  4. समानः
  5. व्यानः

आरण्यकेषु प्राणः[सम्पादयतु]

प्राणविद्यायाः महत्त्वप्रदर्शनम् आरण्यकस्य विशिष्टो विषयः प्रतीतो भवति । ऐतरेयारण्यके अस्य समधिकं महत्त्वपूर्णवर्णनमस्ति।[३] अारण्यकं स्वकथनस्य सम्पुष्टौ ऋग्वेदीयमन्त्राणामुद्धरणं ददाति।[४] अनेन प्राणविद्यायाः दीर्घकालिकपरम्परायाः परिचयो लभते। सर्वेष्विन्द्रियेषु प्राणानां श्रेष्ठता आख्यायिकाद्वारेण प्रतिपादिताऽस्ति। यथा-

‘सोयमाकाशः प्राणेन बृहत्या विष्टब्धः, तद्यथामाकाशः प्राणेन बृहत्या विष्टब्धः, एवं सर्वाणि भूतानि आपिपीलिकाभ्यः प्राणेन बृहत्या विष्टब्धानीत्येवं विद्यात्॥'[५]

प्राणाः सर्वत्र व्याप्ताः सन्ति । ‘सर्वे हीदं प्राणेनावृतम् ॥' प्राणः विश्वस्य धारकोऽस्ति । अतस्तदेव तस्य रक्षकोऽस्ति । अत एव मन्त्रे ‘प्राणम्’ ‘गोपा' इति कथ्यते । प्राण एव अयोः कारणमस्ति । यथा-

‘यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः ॥'[६]

प्राणेन एव अन्तरिक्षस्य, वायोश्च सृष्टिरभवत् । प्राणः पिताऽस्ति । अन्तरिक्षवायू तस्य सन्ततिरस्ति । यथा कृतज्ञपुत्रः स्वकीयेन सत्कर्मणा पितरं प्रीणाति, तथैव अन्तरिक्षवायुरूपिणौ द्वौ पुत्रावपि प्राणस्य सेवायां संलग्नौ स्तः। अन्तरिक्षस्य अनुसरणं कृत्वैव प्राणिमात्रस्य सञ्चरणं भवति तथा अन्तरिक्षसाहाय्येनैव लोकाः दूरे कथितान् शब्दानपि शृण्वन्ति । अनेन रूपेण अन्तरिक्षं प्राणस्य परिचर्यां करोति। वायुरपि शोभनगन्धेन प्राणं पिप्रीषति। तद्यथा -

‘प्राणेन सृष्टावन्तरिक्षं च वायुश्च। अन्तरिक्षं वा अनुचरन्ति। अन्तरिक्षमनुशृण्वन्ति। वायुरस्मै पुण्यं गन्धमावहति। एवमेतौ प्राणपितरं परिचरतोऽन्तरिक्षं च वायुश्च।'[७]

प्राणस्य ध्यानविधानम्[सम्पादयतु]

ध्यानाय प्राणस्य विभिन्नानां गुणानामुल्लेखः विस्तृतरूपेण कृतोऽस्ति । तत्तद्रूपेण प्राणस्य ध्यानं कर्त्तव्यम् । तत्तद्रूपेणोपासनां कृते सति फलान्यपि तद्रूपेणैवोपासकाः प्राप्नुवन्ति ।

प्राण एवाहोरात्रस्वरूपे कालात्मकोऽस्ति । दिवसः प्राणरूपमेवास्ति रात्रिश्चापानरूपा अस्ति । प्रातः प्राण एव सर्वाणीन्द्रियाणि शरीरे प्रसारयति । प्रतननमिदं दृष्ट्वा लोकाः कथयन्ति ‘प्रातायि' अर्थात् प्रकर्षरूपेण प्राणः विस्तृतोऽभवत् । अनेनैव कारणेन दिवसारम्भकालः यस्मिन् प्राणस्य प्रसरणं दृग्गोचरीभवति सः ‘प्रातः' इति कथ्यते । दिवसावसाने इन्द्रियेषु सङ्कोचं परिदृश्यते । अनेनैव कारणेन तं कालं सायमित्युच्यते, तस्मिन् काले कथयति ‘सामगात्' इति । विकासहेतुना दिवसः प्राणरूपोऽस्ति तथा सङ्कोचनकारणेनैव रात्रिः अपानमस्ति । प्राणस्य ध्यानमनेन प्रकारेणाहोरात्ररूपे कर्तव्यम्।

प्राण एव देवतात्मकोऽस्ति । वाचि अग्निदेवताया निवासोऽस्ति । चक्षुः सूर्योऽस्ति । चन्द्रमा मनसो जातः, श्रोत्रमेव दिशः सन्ति । प्राणे आसां देवतानां ध्यानं कर्तव्यम् । ‘हिरण्यादन् वेद' नामकः कश्चन ऋषिः प्राणम् एवंविधम् अजानात् तथा देवतारूपेणैव प्राणस्य उपासनाम् अकरोत् । अस्याः उपासनायाः विपुलं फलं तेनोपलब्धम्।[८]

ऋषित्वेन प्राणः[सम्पादयतु]

प्राण एव ऋषिरूपोऽस्ति । ऋग्वेदीयमन्त्राणां द्रष्टारो बहवः ऋषयः आसन् । तेषां सर्वेषामृषीणां भावना प्राणे एव कर्त्तव्या। यतः प्राण एव तेषां मन्त्रद्रष्टृृणाम् ऋषीणाम् आकारे विद्यमानोऽस्ति । प्राण एव शयनकाले वाक् चक्षुरादीन्द्रियाणां निगरणकरणेन ‘गृत्सः' इति कथ्यते तथा प्रतिकाले वीर्यस्य विसर्गजन्यमदोत्पन्नकरणेन अपानमेव मदोऽभवत् । अतः प्राणापानयोः संयोगमेव ‘गृत्समदः' इति कथ्यते । प्राण एव विश्वामित्रोऽस्ति । यतोऽस्याः प्राणदेवतायाः निखिलं विश्वं भोग्यमस्ति, तेनासौ विश्वस्य मित्रमस्ति-

‘विश्वः मित्रं यस्य असौ विश्वामित्रः ॥'

प्राण एवात्रिः, यतोऽयं प्राण एव जगदिदं पापात्त्रातुं समर्थोऽस्ति (‘सर्वपाप्मनोऽत्रायत इति अत्रिः')। प्राण एव भरद्वाजोऽस्ति । गतिसम्पन्नत्वेन मनुष्यदेहः 'बाज' इति नाम्ना ख्यातोऽस्ति । प्राणस्त्वस्मिन् शरीरे प्रविश्य तस्य सततं रक्षां करोति । अतोऽयं प्राणः ‘विभ्रद्वाज' इति कथ्यते । अनेनैव कारणेन प्राणोऽयं भरद्वाज इति कथ्यते ।

प्राणं दृष्ट्वा वागाद्यभिमानिनो देवता अकथयन् - ‘अयमेवास्मासु ‘वामः' वन्दनीयः, भजनीयः सेवनीयश्च भवति, यतोऽयम् अस्माकं श्रेष्ठोऽस्ति । अनेन हेतुना देवेषु वामत्वेन प्राण एव वामदेवोऽस्ति । देवताः प्राणं दृष्ट्वा कथितवन्तः - त्वं वशिष्ठोऽसि, यतोऽस्मिन् शरीरे इन्द्रियाणां निवासस्य कारणं प्राण एवास्ति, अतोऽयं वशिष्ठोऽस्ति । एवं प्राण एव ऋषिरूपेण प्रस्थापितः। अतः प्राणे एतेषाम् ऋषीणां भावना कर्तव्या तथा तदूपोपासनाऽपि कर्तव्येति विधानम् अस्ति ।

‘सर्वा ऋचः सर्वे वेदाः सर्वे घोषाः एकैव व्याहृतिः प्राण एव। प्राण ऋच इत्येव विद्यात्॥'[९]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भ[सम्पादयतु]

  1. "Prana | Define Prana at Dictionary.com". Dictionary.reference.com. Retrieved 2015-04-22. 
  2. Swami Satyananda Saraswati (September 1981). "Prana: the Universal Life Force". Yogamag.net. Bihar School of Yoga. Retrieved 31 July 2015. 
  3. २॥१-३
  4. ऋ० ६॥१६४॥३१; ११६४॥१८
  5. ऐत० अार० २॥१।६
  6. कौषी० उ० १२
  7. ऐत० अारण्य०
  8. ऐत० आरण्य० १०३-१०४
  9. ऐत० २॥२॥१०
"https://sa.wikipedia.org/w/index.php?title=प्राणः&oldid=425115" इत्यस्माद् पुनः प्राप्तिः