सम्भाषणम्:कोरोना वायरस

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(फलकम्:शीह-खाली इत्यस्मात् पुनर्निर्दिष्टम्)
 'कोरोना वायरस

(सावधानता)

      किञ्चित् पूर्वं प्रधानमन्त्रिणा मोदीमहाभागेन भारतवासिनीं जनताम् उद्दिश्य कोरोना वायरस इति विश्वव्यापक-महामारि-विषाणुतः स्वसुरक्षार्थं यथाशक्यं सावधानता अवलम्बनीया इति विषये दूरदर्शनमाध्यमेन सम्यक् प्रबोधितम् । आगामिनि २२/०३/२० दिनाङ्के 'जनता-कार्फिउ' इति सर्वैरपि आदिनं पालनीयम् इति विषये सः सर्वान् भारतवासिनः निवेदितवान् । अयं महामारी व्याधिः शनैः भयावहरूपः प्राप्नुवन् अस्ति । इदानीन्तु समस्त-विश्ववासिनः एव नितराम् आतङ्किताः दृश्यन्ते, ते किंकर्तव्यविमूढतां  गच्छन्तः सन्ति सम्प्रति । भविष्यति किं भवेदत्र इति किमपि न ज्ञायते केनापि । महाप्रलयस्य समयः सन्निहितो वा इत्यपि वक्तुं न शक्यते । विश्वे महता प्रमाणेन जनसङ्ख्या प्रवृद्धा अस्ति अधुना, पृथिव्याः धारणक्षमता, भारसाम्यता वा एव विनष्टा इव अस्ति प्रायः ।

तद्भारसाम्यतायाः सुरक्षार्थमेव भगवता ते विषाणवः सर्वत्र निक्षेपिताः वा इत्यत्रापि ऊहास्थानं तु नैव इति न । यत्किमपि भवतु नाम तत्, परन्तु सावधानता-अवलम्बनन्तु प्रत्येकं जनानां मुख्यकर्तव्यम् अस्ति अधुना इति ।

                        माननीयः प्रधानमन्त्रिणः सन्देशः
कतिचनांशाः अंशाः अस्माभिः पालनीयम् -  इतःपरं कतिपयदिनानि राष्ट्राय जीवामः ।

01. मह्यम् आगामी- कतिचनसप्ताहाः आवश्यकाः। 02. कार्यालयस्य कार्यं गृहादेव कुर्मः। 03. यदा बहु आवश्यकं तदा एव बहिः गन्तव्यम्। 04. वैश्विकमहारोगं कोरोनां प्रति निश्चिन्तं न भवामः अपितु सतर्कः, जागृतश्च भवामः। 05.विज्ञानद्वारा अधुनापर्यन्तं एतस्य वैश्विकमहारोगस्य किमपि औषधं न निर्मितम्। 06. केन्द्र-राज्यसर्वकारानां दिशानिर्देशानाम् अनुपालनं करणीयम्। 07. अवसरेस्मिन् नागरिकेषु सङ्कल्पः, संयमश्च आवश्यकौ। 08. 60-65 वर्षीयाः ततो उपरितनाः वरिष्ठनागरिकजनाः अग्रिमेषु सप्ताहेषु गृहेभ्यः बहिः न आगच्छेयुः। 09. यदि वयं स्वस्थाः तर्हि जगत्स्वस्थः भविष्यति। 10. अस्माकं देशे ओषधीनाम् अभावः नास्ति। 11. 10 जनेभ्यः दूरवाणीद्वारा कोरोनाविषये जनजागरणं करणीयम्। 11. 22मार्च -रविवासरे, जनताकर्फ्यू। 12. रविवासरे सायं 05:00 वादने आभारज्ञापनम्। (करताडनम्, शङ्खध्वनिः, घण्टा, इत्यादिमाध्यमद्वारा सेवारतानां कोरोनासेनानिनां कृते धन्यवादः करणीयः।) 13. नियमितपरीक्षणाय यावच्छक्यं चिकित्सालयः न गन्तव्यः। 14. स्वगृहे आपणे वा कार्यरतानां सेवकानां अवकाशकारणाद् वेतनं न कर्तनीयम् । 15.जीवनोपयोगिवस्तूनामनावश्यकसंग्रहः न कर्तव्यः। 16. देशे आवश्यकवस्तूनाम् आपूर्तिः निर्बाधरूपेण भविष्यति । 17. मानवता विजयी भवेदिति संकल्पः भवेत् । 18. सर्वकारस्य सहयोगं कुर्मः। 19. कार्यालयस्य कार्यं गृहादेव कुर्मः 20. सेवापरमोधर्मः। 21. आत्मानं रक्षयतु।

                           देशं रक्षयतु। जगदिदम् अपि रक्षयतु।