बचेन्द्री पाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

बचेन्द्री पाल

बचेन्द्री पाल

बचेन्द्री पाल (जन्म - २४ मे १९५४) एका भारतीया पर्वतारोहिणी अस्ति । बचेन्द्री एवरेस्ट् पर्वतशृङ्गारोहिणी प्रथमा भारतीया महिला तथा विश्वे पञ्चमा वर्तते । १९८४ तमे वर्षे एषा एवरेस्ट्-आरोहणं कृतवती ।

जीवनम्[सम्पादयतु]

बचेन्द्र्याः जन्म १९५४ तमस्य वर्षस्य मेमासस्य २४ तमे दिनाङ्के एकस्मिन् सुसंस्कृतकुटुम्बे अभूत् । तस्याः जन्मस्थानम् उत्तरकाश्याः नकूरी इति ग्रामः। तस्याः पिता किशन् सिङ्ग् पालः एकः सीमाप्रदेशीयः सामान्यः वणिक् आसीत् । कुटुम्बे पञ्चसु अपत्येषु सा तृतीया पुत्री आसीत् । बाल्यावस्थायाम् एव बचेन्द्री पाल क्रीडायाम्, अध्ययने च बहु क्रियाशीला आसीत् । तस्याः द्वादशे वयसि, यदा मित्रेण सह विहारप्रवासं गतवती, तदा सा प्रथमवारं १३,१२३ मीटर्-परिमितस्य उन्नतस्य पर्वतस्य आरोहणं कृतवती । तदानीम् आरभ्य, तस्याः पर्वतारोहणं प्रति रुचिः अवर्धयत् । कथञ्चित् शालाध्ययनं समाप्य, प्राचार्यस्य प्रोत्साहेन विश्वविद्यालयम् अपि प्रविश्य स्नातकोत्तरपदवीं प्राप्तवती ।

कुटुम्बस्य आर्थिकसमस्यायाः कारणतः उद्योगं प्रति गमनम् आवश्यकम् आसीत् । कुटुम्बजनानाम् इच्छा अपि सा शिक्षिका भवतु इत्ति आसीत् । किन्तु बचेन्द्र्याः इच्छा तु पर्वतारोहणविषये अध्ययनं कृत्वा तस्मिन् एव क्षेत्रे उद्योगः करणीयः इति आसीत् । अतः दृढनिश्चयं कृतवती बचेन्द्री नेहरू-पर्वतारोहणसंस्थायाम् अध्ययनाय प्रविष्टवती । यदा विद्यार्थिनी आसीत् तस्मिन् एव समये २१००० मीटर्-परिमितोन्नतं गंगोत्रीपर्वतं, १९०९१ मीटर्-परिमितोन्नतं 'रुदौगारिया'पर्वतं च आरूढवती । तदा महिलानां कृते प्रशिक्षणं दातुं स्थापितं राष्ट्रीय साहस शालायां शिक्षिका रूपेण उद्योगावकाशं लब्धम् ।

आरोहणम्[सम्पादयतु]

१९८४ तमे वर्षे भारतदेशस्य एवरेस्ट् पर्वतस्य चतुर्थः आरोहणस्य निश्चितम् आसीत् । षट्महिला-एकादशपुरुषाणां च उत्कृष्ट गणस्य मध्ये बचेन्द्री अपि एका सदस्या रूपेण अवकाशं प्राप्तवती । इदम् अवाकाशं प्राप्य, बचेन्द्री बहू सन्तुष्टा उत्सुका च अभवत् । १९८४ मार्च् मासे एतस्य गणस्य जनाः नेपालस्य राजधानी काठ्मण्डू नगरं प्रति चलितवन्तः । ततः अनुवर्तनं कृत्वा एवरेस्ट् पर्वतं प्रति चलितवन्तः । प्रथमवारं एवरेस्ट् पर्वतं द्रुष्ट्वा बचेन्द्री एवम् उक्तवती ' वयं पर्वतवासिनः सर्वदा पर्वतं पूजयन्ति स्म । अतः प्रथमवारं पर्वतं द्रुष्ट्वा बहू भावपूर्णं भक्तिपूर्णं च अभवम्।' इति ।

१९८४ वर्षस्य मे मासे एव एतस्य गणस्य जनाः पर्वतारोहण कार्यं प्रारम्बितवन्तः। तस्याः गणं तु एकदा महान् विपत्तिं अनुभूतवन्तः । मे मासस्य १५-१६ रात्रौ एतस्य शिबिरस्य उपरि हिमपर्वतस्य एकं ब्रुहत् खण्डं पतितम् । बचेन्द्री निद्रातः सहसा उत्तिष्टवती । शिबिरे ते सर्वे हिमावृत्तं आसन्। तदनन्तरम् छुरिकायाः साहाय्येन हिमखण्डस्य छेदनं कृत्वा बहिः आगतवन्तः । शिरस्य उपरि व्रणं आसीत् चेद् अपि अन्यै सह बचेन्द्री पर्वतारोहणस्य अनुवर्तनं कृतवती । एतस्य गणे बचेन्द्री एका एव महिला आसीत् । शिखरस्य उपरि -३५ - -३८ डिग्र्री सेल्शियस् शैत्यम् आसीत् । १०० किलोमीटर् परिमितः वायुवेगम् आसीत् । तथापि गणस्य जनाः पर्वतारोहणस्य अनुवर्तनं कृत्वा १९८४ वर्षस्य मे मासस्य २२ दिनांके भारतीय कालमानस्य १:०७ मद्याह्ने एवरेस्ट् शिखरस्य अन्तिम बिन्दुं (२९०८४ मीटर् परिमितः), प्राप्तवन्तः। बचेन्द्री इतिहासं निर्मितवती ।

आनन्तर जीवनम्[सम्पादयतु]

विश्वस्य उत्युन्नतस्य पर्वतस्य आरोहणं कृतवती बचेन्द्री तदानन्तरमपि सक्रिया आसीत् । १९८५ तमे वर्षे भारत - नेपाल पर्वतारोहणस्य एकस्मिन् गणे केवल महिलाः आसन्। बचेन्द्री तस्य गणस्य नेतृत्वं कृत्वा मुख्यस्था अभवत् । एतत् पर्वतारोहण कार्यं सप्त विश्वविक्रमानि निर्मितवान् । एतत्तु भारतीय पर्वतारोहण क्षेत्रे नूतनानि मानदण्डानि उत्कल्पितवान् । नव वर्षेभ्यानन्तरम् १९९४ तमे वर्षे साहसनौकासु (राफ्ट्) परिक्रमणस्य महिलायाः गणस्य मुख्यस्था अभवत् । एषः गणः गङा नदीं अतिक्रम्य हरिद्वारतः कोल्कत्ता पर्यन्तं २५०० मीटर् परिमितः मार्गं क्रमितवन्तः ।

सम्प्रति: सा टाटा साहस क्रीडा संस्थायां उन्नत स्थानम् अलन्कृत्य सेवाकार्यं कुर्वती अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=बचेन्द्री_पाल&oldid=372405" इत्यस्माद् पुनः प्राप्तिः