बलरामदासः
पञ्चदशशताब्द्याः ओडियाकविषु पञ्चशाखेषु च बलरामदासः ज्येष्ठः आसीत् । सः ओडियाभाषायां अनेकानि पुराणानि भक्तिकाव्यानि च रचितवान् । दण्डी वा जगमोहनरामायणं लक्ष्मीपुराणं च तेषु अन्यतमः। बलरामदासस्य जन्मवर्षं १४८४ इति मन्यते । तस्य पितुः नाम श्री सोमनाथमोहापात्रः मातुः नाम मनोमाया अथवा महामाया । सोमनाथः प्रतापरुद्रदेवस्य शासनकाले मन्त्रीरूपेण नियुक्तः आसीत् । यद्यपि बलरामदासः पुरीनगरे निवसति स्म इति उल्लेखः अस्ति तथापि कटकमण्डलस्य जाजपुरं तस्य वास्तविकजन्मस्थानम् इति अन्यत् मतम् । श्रीचैतन्यः यावत् पुरीम् आगतः तावत् बलरामः पुरीम् आगत्य ओडियारामायणस्य (जगमोहनरामायणस्य) रचनां कृतवान् आसीत् ।
बलरामः ओडियासाहित्यस्य पञ्चसु सखासु ( जगनातादासः, अच्युतानन्ददासः, बलरामदासः, अनन्तदासः, यशोवन्तदासः ) अन्यतमः अस्ति | एते पञ्चसखाः ओडिशायां "भक्ति" धारयाः वाहकाः आसन्।
बलरामस्य पीठस्थलम् भवति परीं निकषा सगरापटम्। तत् स्थानम् अद्यत्वे अन्तर्धानं जातम्, परन्तु पुरीसमुद्रतटे यस्मिन् गुहायां सः ध्यानं करोति स्म, सा अद्यापि वर्तते । तत्रैव सः ध्यात्वा जगन्नाथस्य रथं मन्दिरमार्गे स्थगनम् कृतवान् । वलरामदासस्य तीर्थं पुरीमण्डलस्य वेदपुरपञ्चायतस्य बेगुनियासमीपे कुशभद्रानद्याः तटे अस्ति । तत्रैव सः वसति स्म। तत्रैव अद्यापि तस्य श्मशानमन्दिरम् अस्ति। पुरातत्त्वविभागस्य साहाय्येन किञ्चित् विकासकार्यं कृत्वा मन्दिरस्य निर्माणं कृतम् अस्ति ।
बलरामदासः ओडियारामायणस्य रचयिता इति प्रसिद्धः । तत् तस्य श्रेष्ठकृतिः । तेन श्रीमद्भगवद्गीतायाः अनुवादः अपि कृतः । जगमोहनरामायण इति अपि प्रसिद्धम् अस्ति ।
- अमरकोषगीता
- कमललोचन चौतिशाः
- कान्तकोईलि
- गणेशविभूतिटीका (सिद्धान्त डम्बर)
- दीप्तिसारगीता
- पणसचोरी
- बटअवकाशः
- बौलाअध्यायः
- विराटगीता
- वेडापरिक्रमनणम्
- वेदान्तसारगुप्तगीता
- ब्राह्मज्ञानएकाक्षरम्
- ब्रह्माण्डभूगलम्
- भावसमुद्रः
- मनुगीता
- मृगुणीस्तुतिः
- श्रीमद्भगवद्गीता (संस्कृत गीतायाः ओडिआअनुवादः)
- श्रीरोढा
- ज्ञानोज्जलमणिगीता
- ज्ञानचूडामणिः
- लक्ष्मीपुराणम्
- रामविभा
- कृष्णलीला
- सभाविनोदः
- रसकेलिः
- भूतकेलिः
- ब्रह्मपुराणम्
- तुलाभिणा
- गुप्तटीका
- शरीरभूगोलम्
- अर्जुनगीता
- गजनिस्तारणगीता
- गुप्तगीता
- छतिशगुप्तगीता
- गरुडगीता
- नामरत्नगीता
- गीतासारः
- भक्तिरसामृतसिन्धुः
- दुर्गास्तुतिः
आधार
[सम्पादयतु]'जगमोहनरामायण' इति बलरामदासस्य सर्वश्रेष्ठकृतिः । अयं ग्रन्थः दण्डिछन्देन लिखितम् असीत् , अतः अयं ग्रन्थः "दाण्डिरामायण " इति नाम्ना प्रसिद्धः। न तु अनुवादितः ग्रन्थः अयम्, अपितु अनुसृजितग्रन्थः एव । 'जगमोहनरामायण' संस्कृतरामायणमाश्रित्य, किन्तु आदिसृष्टित्वेन प्रसिद्धम् । सजीवचरित्रचित्रणं, तत्कालीनसामाजिकचित्रं, मूलशैली, रोचककथाशैली च तस्य रामायणस्य विशेषताः सन्ति । तस्य अन्याः महत्त्वपूर्णाः ग्रन्थाः सन्ति, - 'ब्रह्मपुराण', 'लक्ष्मीपुराण', बाटअबकास', ब्रह्माण्डभभूगोल',भव समुद्र', 'मृगुणीस्तुति', 'ब्रह्मगीता'।