सामग्री पर जाएँ

बलरामदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

    पञ्चदशशताब्द्याः ओडियाकविषु पञ्चशाखेषु च बलरामदासः ज्येष्ठः आसीत् । सः ओडियाभाषायां अनेकानि पुराणानि भक्तिकाव्यानि च रचितवान् । दण्डी वा जगमोहनरामायणं लक्ष्मीपुराणं च तेषु अन्यतमः। बलरामदासस्य जन्मवर्षं १४८४ इति मन्यते । तस्य पितुः नाम श्री सोमनाथमोहापात्रः मातुः नाम मनोमाया अथवा महामाया । सोमनाथः प्रतापरुद्रदेवस्य शासनकाले मन्त्रीरूपेण नियुक्तः आसीत् । यद्यपि बलरामदासः पुरीनगरे निवसति स्म इति उल्लेखः अस्ति तथापि कटकमण्डलस्य जाजपुरं तस्य वास्तविकजन्मस्थानम् इति अन्यत् मतम् । श्रीचैतन्यः यावत् पुरीम् आगतः तावत् बलरामः पुरीम् आगत्य ओडियारामायणस्य (जगमोहनरामायणस्य) रचनां कृतवान् आसीत् ।

    बलरामः ओडियासाहित्यस्य पञ्चसु सखासु ( जगनातादासः, अच्युतानन्ददासः, बलरामदासः, अनन्तदासः, यशोवन्तदासः ) अन्यतमः अस्ति | एते पञ्चसखाः ओडिशायां "भक्ति" धारयाः वाहकाः आसन्।

    बलरामस्य पीठस्थलम् भवति परीं निकषा सगरापटम्। तत् स्थानम् अद्यत्वे अन्तर्धानं जातम्, परन्तु पुरीसमुद्रतटे यस्मिन् गुहायां सः ध्यानं करोति स्म, सा अद्यापि वर्तते । तत्रैव सः ध्यात्वा जगन्नाथस्य रथं मन्दिरमार्गे स्थगनम् कृतवान् । वलरामदासस्य तीर्थं पुरीमण्डलस्य वेदपुरपञ्चायतस्य बेगुनियासमीपे कुशभद्रानद्याः तटे अस्ति । तत्रैव सः वसति स्म। तत्रैव अद्यापि तस्य श्मशानमन्दिरम् अस्ति। पुरातत्त्वविभागस्य साहाय्येन किञ्चित् विकासकार्यं कृत्वा मन्दिरस्य निर्माणं कृतम् अस्ति ।

    बलरामदासः ओडियारामायणस्य रचयिता इति प्रसिद्धः । तत् तस्य श्रेष्ठकृतिः । तेन श्रीमद्भगवद्गीतायाः अनुवादः अपि कृतः । जगमोहनरामायण इति अपि प्रसिद्धम् अस्ति ।

    • अमरकोषगीता
    • कमललोचन चौतिशाः
    • कान्तकोईलि
    • गणेशविभूतिटीका (सिद्धान्त डम्बर)
    • दीप्तिसारगीता
    • पणसचोरी
    • बटअवकाशः
    • बौलाअध्यायः
    • विराटगीता
    • वेडापरिक्रमनणम्
    • वेदान्तसारगुप्तगीता
    • ब्राह्मज्ञानएकाक्षरम्
    • ब्रह्माण्डभूगलम्
    • भावसमुद्रः
    • मनुगीता
    • मृगुणीस्तुतिः
    • श्रीमद्भगवद्गीता (संस्कृत गीतायाः ओडिआअनुवादः)
    • श्रीरोढा
    • ज्ञानोज्जलमणिगीता
    • ज्ञानचूडामणिः
    • लक्ष्मीपुराणम्
    • रामविभा
    • कृष्णलीला
    • सभाविनोदः
    • रसकेलिः
    • भूतकेलिः
    • ब्रह्मपुराणम्
    • तुलाभिणा
    • गुप्तटीका
    • शरीरभूगोलम्
    • अर्जुनगीता
    • गजनिस्तारणगीता
    • गुप्तगीता
    • छतिशगुप्तगीता
    • गरुडगीता
    • नामरत्नगीता
    • गीतासारः
    • भक्तिरसामृतसिन्धुः
    • दुर्गास्तुतिः

    'जगमोहनरामायण' इति बलरामदासस्य सर्वश्रेष्ठकृतिः । अयं ग्रन्थः दण्डिछन्देन लिखितम् असीत् , अतः अयं ग्रन्थः "दाण्डिरामायण " इति नाम्ना प्रसिद्धः। न तु अनुवादितः ग्रन्थः अयम्, अपितु अनुसृजितग्रन्थः एव । 'जगमोहनरामायण' संस्कृतरामायणमाश्रित्य, किन्तु आदिसृष्टित्वेन प्रसिद्धम् । सजीवचरित्रचित्रणं, तत्कालीनसामाजिकचित्रं, मूलशैली, रोचककथाशैली च तस्य रामायणस्य विशेषताः सन्ति । तस्य अन्याः महत्त्वपूर्णाः ग्रन्थाः सन्ति, - 'ब्रह्मपुराण', 'लक्ष्मीपुराण', बाटअबकास', ब्रह्माण्डभभूगोल',भव समुद्र', 'मृगुणीस्तुति', 'ब्रह्मगीता'।

    "https://sa.wikipedia.org/w/index.php?title=बलरामदासः&oldid=497272" इत्यस्माद् प्रतिप्राप्तम्