बागगुहाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बागगुहाः

बागगुहाःपूर्वं तावत् पाण्डवगुहाः इति विख्याताः आसन् । अनन्तर बुद्धस्य चित्राणि सन्तीति कारणात् बुद्धगुहाः इति वदन्ति । अत्र बौद्धसंन्यासिनः वसन्ति स्म । बौद्धभिक्षूनां तपोभूमिः एषः । विन्ध्यपर्वतस्य निबिडारण्ये पर्वतेषु एताः गुहाः निर्मिताः सन्ति । प्रायशः पञ्चमशतकतः सप्तमशतकसमये एताः निर्मिताः इति अभिप्रायः अस्ति । अत्र नव गुहाः सन्ति । गुहायाः भित्तिषु बुद्धस्य जीवनस्य अनेकघटनानां चित्रणम् अस्ति । रङ्गमहल् इति भवनम् अतीव सुन्दरम् अस्ति । अजन्ताप्रदेशे अपि एतादृशानि वर्णचित्राणि भित्तिषु सन्ति ।

वाहनमार्गः[सम्पादयतु]

धारतः ७० कि.मी । इन्दौरतः ११५ कि.मी मण्डुतः ५० कि.मी । बागतः ७ कि.मी । इन्दौरवडोदरामार्गे

"https://sa.wikipedia.org/w/index.php?title=बागगुहाः&oldid=390079" इत्यस्माद् प्रतिप्राप्तम्