विनोबा भावे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बिनोबा भावे इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
विनोबा भावे
Gandhi and Vinoba.jpg
श्री विनोबा भावे महात्मना गाधिना सह
जन्म क्रि.श. १९८५तमवर्षस्य सेप्टम्बर् मासस्य एकादशमदिनम् ।
गागोडे महाराष्ट्रराज्यम्, भारतम्
मृत्युः क्रि.श. १९८२तमवर्षस्य नवेम्बर्मासस्य पञ्चदशमदिनम् ।
देशीयता भारतीयः
शिक्षणस्य स्थितिः महाराज सयाजीराव गायकवाड़ विश्वविद्यालय Edit this on Wikidata
वृत्तिः दार्शनिक, राजनैतिज्ञः, साहित्यकारः, मानवाधिकार कार्यकर्ता&Nbsp;edit this on wikidata
धर्मः हिन्दुधर्मः
पितरौ रुक्मिणीबायी(माता)
नरहरि भावे (पिता)

आचार्यः विनोबा भावे भारतदेशस्‍य एष सुपुत्र: महान्‌ जनसेवक: आसीत्‌। भूदानान्‍दोलने वैयक्‍तिकसत्‍याग्रहे च तेन प्रभूतं योगदानं कृतम् । एषः मँगसेसे पुरस्‍कारेण सम्‍मानित: प्रथम: भारतीय: पुरुषः च आसीत्। मरणोत्‍तरम्‌ एषः भारतशासनेन भारतरत्‍न इति उच्‍चतमेन पुरस्‍कारेण सम्‍मानित:। अस्य जन्म नाम विनाय्क नरहरी भावे इत्यासीत् । महाराष्ट्रराज्यस्य गागोडे[१] इति ग्रामः अस्य जन्मस्थानम् । जनाः एतं भारतस्य राष्ट्रियाध्यात्मिकः महात्मागान्धेः आध्यात्मिकोत्तराधिकारी इति भावयन्ति स्म[२] । एषः स्वजीवनस्य अन्तिमकालं महाराष्ट्रस्य पुनार् इति आश्रमे व्यतीतवान् । इन्दिता गान्धि इत्यनया उद्घुष्टम् आपत्कालम् एषः अनुशासनपर्व इति उक्तवान् इति तत्काले विवादे आसीत् ।

जीवनगाथा[सम्पादयतु]

विनोबा भावे वर्यस्य पिता नरहरि भावे महाराष्ट्रस्य कोङ्कणक्षेत्रस्य गागोडाग्रामस्य चित्तपावनब्राह्मणः । नरहरिः गणितविषये रसायनविज्ञाने च अतीव रुचिमान् आसीत् । तेषु दिनेषु वर्णाः विदेशात् आयाताः भवन्ति स्म । नहररि भावे अहर्निशं वर्णानां संशोधने मग्नः भवति स्म । वर्षविष्ये भारतदेशं स्वावलम्बिनं कर्तुम् इच्छति स्म । अस्य पत्नी रुक्मिणीबायी विदुषी आसीत् । उदारचित्ता अष्टयामेषु अपि भक्तिभावे निमग्ना भवति स्म । अस्य प्रभावः अस्याः दैनिककर्येषु अपि भवति स्म । पाकः विपाकः परिवेषणम् अनियमितं च भवति स्म । मातुः स्वभावः विनायके अपि क्वचित् आगतः[३] । अस्य मनः अपि सर्वदा अध्यत्मचिन्ते रतं भवति स्म । खादने भोजने वा अस्य मनः आनासक्तं भवति स्म । मात्र यत् परिवेशितं तत् तूष्णीं खादित्वा गच्छाति स्म । आहारपदार्थानां रुचिः अनुभवगम्यः न भवति स्म । भक्तिगीतानां श्रवणे गायने च रुचिमती आसीत् । पुत्रस्य विनायकस्य आध्यात्मिकसंस्कारवर्धने बाल्ये एव संसारे विरक्त्युत्पादनार्थं वैराग्यस्य प्रेरणा दातुं वा मातुः रुक्मिण्याः योगदानं महत् अस्ति । मात्रा अध्यत्मसंस्कारान् आत्मसात् कृत्वा बालकः विनायकः गणितस्य सूत्रवार्तिकान्, तर्कसामर्थ्यं, विज्ञाने अनुरागं, परम्परायाः विषये वैज्ञानिकदर्शनम्, सर्वस्मात् पूर्वग्राहात् पृथक् सन् चिन्तनस्य क्रमं च पितुः सकाशात् प्राप्तवान् । आहत्य कुटुम्बसंस्कारात् बालके विनायके स्वदीशीयसंस्कृतिविषये प्रेम, सर्वप्राणिनां कल्याणभावना, जीवनस्य विषये सकारात्मकः दृष्टिः, सर्वमतधर्मेषु समभावः ससम्मनस्य कला, इत्यदयः गुणाः संवृद्धा । अनेन अग्रे एषः गान्धिमहात्मनः उत्ताधिकरी इति सम्बोधितः । किन्तु विनोबा भावे महात्मनः गान्धेः सन्निध्ये आगमनात् पूर्वमेव आध्यात्मिकम् औन्नत्यं प्राप्तवान् आसीत् । आश्रमे आगमस्य पश्चात् अपि विनोबा अध्ययने चिन्तने च निरतः भवति स्म । अस्य अध्यात्मचेतनम् असाधारणम् आसीत् । दर्शनशास्त्रम् अस्य प्रियविषयः आसीत् ।

बाल्यं शिक्षा च[सम्पादयतु]

विनोबा भावे वर्यस्य दौ अनुजौ किन्तु मातुः सर्वाधिकं वात्सल्यं विनोबा एव प्राप्रवान् । भावनात्मकस्तरे अपि विनोबा पिता अस्य सामीप्यम् अधिकं प्राप्नोति स्म । मातुः अपि एतादृशी एव स्थितिः आसीत् पुत्रत्रयेषु (विन्या) विनायकः तस्य हृदये सर्वाधिकसमीपम् आसीत् । मातुः संस्काराणां प्रभावः भौतिकसुखलोलुपतायाः विषये औदासीन्यं समानयत् । वैराग्यं त्यागः च अस्य किशोरावस्थायाः भगः अभवताम् । गृहस्य निर्जन कोणः एव अस्य प्रियस्थानम् आसीत् । मौनम् अस्य सर्वदाभरणम् आसीत् । गृहे परिवारस्य सर्वसदस्यैः सह निवसन् अपि निःस्पृहः निरपेक्षः निर्लिप्तः च भवति स्म । अस्य माता शयनात् पूर्वं गुरोः रामदासस्य दास बोध इति पुस्तकं पठति स्म । बालकस्य मनसि अस्य प्रभावः अभवत् । सा पुत्राय विनायकाय ज्ञानेश्वरस्य, साधुः तुकारामस्य, नामदेवस्य, शङ्कराचार्यस्य च कथाः श्रावयति स्म । रामायणस्य महाभारतस्य च कथाः उपनिषदां तत्त्वानि च बोधयति स्म । सन्न्यासः अस्य भावयानां सर्वदा सञ्चरति स्म । किन्तु संसाराद् विमुखः न भवितुमिच्छन् जनान् मेलयितुं प्रयत्नमकरोत् । तस्य माता सर्वदा वदति स्म गृहस्थाश्रमस्य सम्यक् परिपालनेन पितॄणां मुक्तिः शक्यते । किन्तु भावता आराधिताः शङ्कराचार्यादयः आध्यात्मिकां तृप्तिं प्राप्तुम् अल्पे एव वयसि परिवारं त्यक्तवन्तौ इति । अतः विनोबा वदति स्म यथा रामदासः गृहपरिवारं त्यक्त्वा गतवान अहमपि तथौव प्रस्थानं करिष्यामि इति मातरम् अवदत् । बाल्ये अस्य बुद्धिः अतीव निशिता आसीत् । गणितम् अस्य प्रियविषयः आसीत् । अध्यात्मचेतनं तु मातुः कृपा । ताया दत्तः गुणः चेतनाचेतनयोः समानतया दर्शनम् । माता अधिकविद्यासम्पन्ना नासीत् । स्वाचारेण माता बहुधा पाठितवती न तु वचसा । संसारे तिष्ठन् अपि निर्लिप्तः निःस्पृहः सन् अवसत् । मातुः प्रभावेण एव पद्यानि रचचयित्वा अग्नये समर्पयति स्म । जगति सर्वं नश्वरं क्षणभङ्गुरं भवति अतः मे कवितासु मे कुतः मोहः रक्षणियः इति अस्य भावः । विनायकस्य गणितज्ञानं तार्किकता वा अस्य आध्यात्मिकविश्वसस्य उपरोधः न भवति स्म । यदि एतयोः मध्ये स्पर्धा भवति स्म तदा आध्यात्मिकतायाः एव विजयः भवति स्म ।

यौवनम् अध्यात्म च[सम्पादयतु]

यौवनस्य आरम्भिकावस्थायाम् एव आजन्म ब्रह्मचर्यं पालयितुं निश्चितवान् । सः एव अस्य आदर्शः पुरुषः यः बाल्ये एव वैराग्यम् आश्रितवान् । ब्रह्मचर्यस्य प्रथमः नियमः एव मनसः नियन्त्रणम् । विनोदस्य शरीरं दुर्बलम् आसीत् । बाल्यादेव कश्चन रोगः बाधते स्म । किन्तु मस्तिष्कं सर्वदा चैतन्ययुतम् आसीत् । किशोरः विनायकः वेदोपनिषदैः सह साधोः तुकारामस्य, नामदेवस्य शतशः पद्यानि स्मरणे रक्षति स्म । भागवद्गीता बाल्यादेव कण्ठगता आसीत् । अस्य सहोदर्याः विवाहः निश्चितः अभवत् । विवाहस्य दिने किमपि न खादामि इति निश्चितवान् । पश्चात् विवाहस्य अवसरे सन्तोषेषण भगम् अवहत् । मातुः आग्रहेण मात्रा स्वयं निर्मितं दालान्नं केवलं खादितवान् । एवं मातुः प्रेम सर्वदा रक्षन् वैराग्यमपि आचरितवान् । पश्चात् गृहत्यागावसरे मातुः रक्ताञ्चलस्य राङ्खवम् तस्याः पूजागृहस्य कांश्चन मूर्तिं च स्वीकृतवान् । कालान्तरेन मूर्तिम् उपायनरूपेण कस्मैचित् दत्तवान् किन्तुं राङ्खवं सर्वदा धरति स्म । पुस्तकापणेषु लभ्यमानेषु गीतानुवादपुस्तकेषु अनुवादकस्य पाण्डित्यं दृश्यते स्म । अतः स्वयं गीतानुवादकार्यं कर्तुं चिन्तितवान् । क्रि.श. १९३१तमे वर्षे भगवद्गीतायाः अनुवादकार्यं समापितवान् । यस्याः अनुरोदेन एतत् कार्यम् आरब्धवान् सा एव एतत् न अपश्यत् । माता रुक्मिणी क्रि.श. १९१८तमे वर्षे अक्टोबर् २४तमे दिने देहत्यागं कृतवती । इयमेव ईश्वरेच्छा इति भावयन् विनोबा भावे अनुवादकर्ये मग्नः अभवत् ।

पित्रोः मरणं मतभेधः च[सम्पादयतु]

विनोबा भावे धार्मिकसंस्काराणां नाम्नि क्रियमाणानां डम्भाचरणानां विरोधी आसीत् । मातुः अन्त्येष्ठिसमये पितापुत्रयोः मध्ये मतभेदः अभवत् । विनोबा ब्राह्मणानां हस्तैः परम्परागतां दाहक्रियां विरोधितवान् । किन्तु परिवारजनानाम् आग्रहात् परम्पारानुगुणमेव दहनकार्यं कृतम् । अतः विनोबा या एतम् अधिकम् इच्छति स्म, या अस्य अध्यात्मिकगुरुः आसीत् तस्याः मातुः अन्तिमसंस्कारात् दूरे एव स्थितवान् । अश्रुपूर्णनेत्राभ्यां मौनेन मातुः विदायम् उक्तवान् । कालन्तरेण खी.सा. १९४७तमवर्षस्य अक्टोबर् मासस्य २९तमे दिने अस्य पिता अपि दिवङ्गतः । तदा विनोबा वेदस्य निदेशं सूचयन् मृदः मृदि एव अधिकारः अतः शवस्य दाहः न भवति भूमौ निखननं भवति । इति वदन् तथैव आचरितवान् । तवति काले विनोबा साधुः विनोबा अभवत् । गान्धिमहोदयस्य आशीर्वादः अपि आसीत् । अतः स्वनिर्णयम् अनुष्ठातुं शक्तवान् ।

सन्न्यासोपलब्धयः[सम्पादयतु]

इण्टर् परिक्षार्थं मुम्बै गन्तव्यम् आसीत् । विनोबा निश्चितकार्यक्रमानुगुणं क्रि.श. १९१६तमवर्षस्य मार्चमासस्य २५तमे दिने मुम्बै गमनस्य रेल्याने समारूढः । तस्य मनः दोलायमानम् आसीत् । एषः चिन्तयति स्म प्रौढशालायाः परीक्षा इव इयं इन्टर् परीक्षा अपि सुकरा एव । किन्तु तत्पश्चात् किं कर्तव्यम् । किमेतदेव मे जीवनलक्ष्यम् ? स्वस्य जीवने किमिच्छति तत् अनेन औपचारिकशिक्षाक्रमेण न प्राप्स्यति इति अयं जानाति स्म । विद्यालस्य प्रमाणपत्राणि महाविद्यालयस्य पदव्यः च तस्य अभीष्टं पूरयितुं नैव शक्नुवन्ति इति अस्य निश्चितः आभिप्रायः आसीत् । एवं चिन्तयतः तस्य मनः रेल्यानस्यापेक्षया वेगेन धावति स्म । यदा यानं सूरत् निस्थनकं प्राप्नोत् तदा यानादवतीर्य अन्यस्मिन् मञ्जके पूर्वाभिमुखं प्रस्थातुं सिद्धं रेलयानम् आसीत् । हिमालयः माम् आह्वयन् अस्तीति भावः अस्य मनसि अगतः । गार्हस्थ्यम् अथवा सन्न्यासः इति अस्य मनसि कञ्चित्कालं सङ्घर्षः उत्पन्नः । किन्तु शीघ्रं चाञ्चल्यं त्यक्त्वा अचलः आभवत् । यां यात्राम् इदानीम् आरब्धवान् सा एव यात्रा वास्तवस्य लक्ष्यगम्या यात्रा । जीवनात् पलायनम् अस्य इच्छा नासीत् । अस्य लक्ष्यं तु लक्षाधिकभारतीयानाम् उद्धारः तेषाम् आशंसा सन् जीवनम् । ब्रह्मणः ज्ञानम्, सत्यस्य शोधः अस्य सन्न्यासस्य परमं चरमं च लक्ष्यम् । तेन व्याजेनैव सः गृहं त्यक्तवान् । हिमालयस्य दिशि यात्रा आरब्धा । मार्गे वाराणसी (काशी) प्राप्ता । साधकानां विश्वासः यत् काशी तु भगवतः शिवस्य निवासः । सहस्राधिकवर्षेभ्यः साधवः यतयः ऋषयः मुनयः च अत्र विहरन्तः आध्यात्मिकविचारधारः प्रस्तुतवन्तः । एतत् स्थानं जिज्ञासूनाम् आकर्षकं केन्द्रम् । यस्मिन् गङ्गातटे शङ्काराचार्यसदृशाः आगत्य चिन्तनधाराः प्रवहितवन्तः अगणिताः डम्भाचारा च प्रचलन्ति । तस्मिन् एव गङ्गातटे स्वलक्ष्यस्थानम् अन्विषन् विनोबा भावे अपि आगतः । तस्य गुरोः अन्वेषणे यः अग्रिमं मार्गम् उपदिशेत् । वाराणस्याम् एवम् अटन् विनोबा तत्र आगतवान् यत्र केचन सत्यसाधकाः शास्त्रार्थचिन्तनं कुर्वन्ति स्म । तेषां विषयः द्वैताद्वैतयोः कः साधुः इति । प्रश्नः तु अतीप्राचीनः एव । सामान्यतः १२००वर्षेभ्यः पूर्वं शङ्कराचार्यमण्डनमिश्रयोः मध्ये निर्णायिका चर्चा अभवत् । स एव विषयः पुनः एतेषु सत्यसाधकेषु विचरति स्म । समयहरणार्थं पक्षद्वयमपि वितण्डतर्कं करोति स्म । अन्ते चर्चां समाप्य अद्वैतवादिनां विजयः इति निर्णयः कृतः । एतत् श्रुत्वा विनोबा भावे प्रहसन् अवदत् न हि अद्वैतवादिनाम् अपजयः अभवत् इति । तदा ते सर्वे तं दृष्ट्वा चकिताः यस्य आयुः केवलम् उपविंशति अस्ति सः दिग्गजविदुषां पुरतः मुखमुद्घाटयति इति । किन्तु अद्वैतवादिनः शङ्कराचार्यस्यापि वयः सन्निकृष्टं विनोबा वर्यस्य इव आसीत् इति स्मृत्वा तेन सह संवादम् अकुर्वन् । कथमत्र अद्वैतवादिनाम् एव अपजयः इति पृष्टे विनोबा अवदत् । कोऽपि आद्वैतवादी द्वैतवादिना सह शास्त्रार्थं कर्तुं सिद्धः भवति तदा एव तस्य पराजितः इति अर्थः । अस्य वचनानि सत्यपूतानि इति निश्चित्य तत्र केचन स्वस्य गणे स्वीकर्तुम् आह्वानम् अकुर्वन् । केचन स्वगुरुं कर्तुं सिद्धा अभवन् । किन्तु एषः स्वयं कञ्चित् गुरुम् अन्विषन् अटन् भवति । नीडस्य अन्वेषणे विद्यमानः अन्यस्मै कथं छायां दातुं शक्नोति । स्वस्य जिज्ञासया असन्तोषेण सहितः विनोबा ततः अग्रे अचलत् ।

देवनागरीलेखः[सम्पादयतु]

विनोबा भावे देवनागरीलिपिं विश्वलिपिरूपेण दृष्टुम् इच्छति स्म । भारतस्य सम्पर्कलिपिः देवनागरी एव भवेदिति आशयेन बहुधा प्रयत्नं कृतवान् । केवलं देवनागरी एव न चलतु किन्तु देवनागरी अपि सर्वत्र सञ्चलतु इति अस्य विज्ञापनम् । अस्य प्रेरणया एव नागरीलिपिसङ्गमः इति किञ्चन सङ्गटनम् उपक्रान्तम् । इयं संस्था भारतस्य आभ्यन्तरे बाह्ये च देवनागरी लित्याः उपयोगस्य प्रसारं करोति स्म ।

बाह्यस्म्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ""Location of Gagode Budruk"". Retrieved 6 अगस्त 2014. 
  2. ""The King of Kindness (Vinoba Bhave, Bhoodan, Gramdan, Sarvodaya, Gandhi Movement)"". Retrieved 6 अगस्त 2014. 
  3. K.S., Narayanaswamy ((2000)). Acharya Vinoba Bhave - A biography (Immortal Lights series). Sapna Book House.. ISBN 9788128017506. 
"https://sa.wikipedia.org/w/index.php?title=विनोबा_भावे&oldid=436232" इत्यस्माद् पुनः प्राप्तिः