बिन्दुसारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

{[infobox settlement |name = राज्य्म् |image_skyline =Casa de los Navajas (16115665146).jpg |image_caption =राज्यम् }}




बिन्दुसारः
राज्यम्
कालः क्रि.पू ३९८ - २७२
राज्याभिषेकः
पूर्वजः चन्द्रगुप्तमौर्यः
उत्तराधिकारी अशोकः
राज्ञी
वंशः
वंशः मौर्य:
पिता चन्द्रगुप्तमौर्यः
माता दुर्धरा
परिवारः
भार्या(ः)
पुत्राः अशोकः सुसीमः च
दुहितारः

बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्। (जन्म:३२०क्रि पू , राज्यकालम्ः२९८-२७२क्रि पू)। सः चन्द्रगुप्तमौर्यस्य पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। तौ सुसीमः अशोकः च। अशोकः उज्जयिन्याः प्रशासकः, सुसीमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।

चरितम्[सम्पादयतु]

तस्य जननात् प्राक् तस्य माता अज्ञानेन विषकरभोजनं खादितवती। अतः तम् रक्षितुम् चाणक्येन तस्याः गर्भ: कर्तितव्य: आपतित:। तदा रक्तबिन्दवः भूमौ पतिताः। अतः एव तस्य नाम बिन्दुसारः।

सः पितुः मरणानन्तरं विशालं राज्यं लब्धवान्। अस्मिन् पश्चिमभारतम् उत्तरभारतं पुर्वभारतं दक्षिणभारतस्य केचन देशाः च अन्तर्भूताः। सः दक्षिणभारते षोडश राज्यान् जितवान्। तस्य साम्राज्ये चोळपाण्ड्यचेरकलिङ्गदेशान् विहाय समस्तभारतम् अन्तर्भूतम्। चाणक्यः एव तस्य मुख्यमन्त्री अवर्तत।

अनेके यवनराजाः तस्य मित्राणि आसन्। सेल्युकस् साम्राज्यात् दैमाकस् नामकः तस्य सभाम् अभ्यागतरूपेण आगतवान्।

आसक्तयः[सम्पादयतु]

सः आजीविकः आसीत्। तस्य विविधाः आसक्तयः आसन्। अंतियोक नामक: यवनराज: बिन्दुसारं वटफलानि मधुरमदिराम् एकं तत्वज्ञानिनं च दातुम् अपृच्छत्।

"https://sa.wikipedia.org/w/index.php?title=बिन्दुसारः&oldid=391689" इत्यस्माद् प्रतिप्राप्तम्