बिळिगिरिरङ्गनबेट्ट

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बी आर् हिल्स् इत्यस्मात् पुनर्निर्दिष्टम्)
बिळिगिरिरङ्गाद्रिः
बिळिगिरिरङ्गस्वामि मन्दिरम्,अभयारण्यम्
यळन्दूरुसमीपे विद्यमानात् कृष्णय्यनकट्टेतः दृश्यमानः बिळिगिरिरङ्गपर्वतः
स्थानम् चामराजनगरमण्डलम्, भारतम्
निर्देशाङ्काः ११°५९′३८″ उत्तरदिक् ७७°८′२६″ पूर्वदिक् / 11.99389°उत्तरदिक् 77.14056°पूर्वदिक् / ११.९९३८९; ७७.१४०५६निर्देशाङ्कः : ११°५९′३८″ उत्तरदिक् ७७°८′२६″ पूर्वदिक् / 11.99389°उत्तरदिक् 77.14056°पूर्वदिक् / ११.९९३८९; ७७.१४०५६
प्रदेशः फलकम्:Convinfobox/2५४० km2 (२१० sq mi)
निर्वाहकसंस्था [http://karnatakaforest.gov.in/English/wild_life_eco_tour/wildlife_eco_tour.htm#natpark अरण्यविभागः, कर्णाटकम्
बिळिगिरिरङ्गपर्वतश्रेणिः

बिळिगिरिरङ्गपर्वतश्रेणिः (Biligiriranga Hills) कर्णाटकराज्यस्य चामराजनगरमण्डले विद्यमानः रमणीया पर्वतश्रेणी । एषः पर्वतः समुद्रस्तरतः ५०९१ पादपरिमितोन्नतः । एतं बिळिगिरिः श्वेताद्रिः दक्षिणतिरुपतिः इत्यपि कथयन्ति । एषः पर्वतः दक्षिणोत्तरदिशि २६ कि.मी मितः अस्ति । निबिडारण्येन आवृतः अस्ति ।

देवालयः[सम्पादयतु]

अत्र विद्यमानः बिळिगिरिरङ्गस्वामिदेवालयः अत्युन्नतशिलायाम् अस्ति । द्राविडशैल्या निर्मितः अस्ति । देवस्य विग्रहः ४.५ पादपरिमितोन्नतः चतुर्भुजमूर्तिः च अस्ति । देवः मेखलया-खड्गालङ्कारेण च युक्तः अस्ति । अत्र अलवेलु मङ्ग्गै इति नामिकायाः देव्याः मन्दिरम् अस्ति । एषः देवः पर्वतप्रदेशे स्थितानां सोलिगजनजातीयानाम् आराध्यः कुलदेवः अस्ति । होय्सलराजेन विष्णुवर्धनेन मैसूरुसंस्थानस्य मन्त्रिणा पूर्णय्यमहोदयेन च एतस्य देवालयस्य जीर्णोद्धारः कृतः इति ज्ञायते ।

पर्वतमूले सरः

अस्य देवस्थानस्य समीपे (२६ कि.मी) पर्वतप्रदेशे दोड्डसम्पिगे इति स्थलमस्ति । भार्गवीनदी अत्र प्रवहति । एतत् पवित्रस्थानम् अस्ति । अत्र बृहत् चम्पकवृक्षः अस्ति । अस्य शाखाः ब्रह्माविष्णुमहेश्वराः इति भावना अस्ति । एतत् स्थानं दुर्गादेवी-महेश्वरयोः अपि आवसस्थानमस्ति । भगवान् परशुराममहर्षिः ब्रह्महत्यादोषपरिहारार्थम् अत्र आगत्य तपः कृत्वा भगवतः पादौ भार्गवीनदीजलेन प्रक्षालितवान् ।

विहारार्थं वनानुभवलाभाय वनमृगाणां दर्शनाय च बी.आर.टि अभयारण्यम् अस्ति । अत्र प्रवेशः निवासः च अधिकमूल्येन लभ्यते ।

मार्गसूची[सम्पादयतु]

मैसूरुतः १२० कि.मी ।
बेङ्गलूरुतः २६४ कि.मी
यळन्दूरतः २५ कि.मी ।
मैसूरुपर्यन्तं रेलयानस्य सौलभ्यम् अस्ति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बिळिगिरिरङ्गनबेट्ट&oldid=485388" इत्यस्माद् प्रतिप्राप्तम्