बैलहोङ्गल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बैलहोङ्गल्

ಬೈಲಹೊಂಗಲ
नगरम्
देशः  भारतम्
राज्यम् कर्णाटकम्
मण्डलम् बेळगावीमण्डलम्
Area
 • Total १३.५९ km
Elevation
६६४ m
Population
 (2011)
 • Total ५८,१९६
 • Density ३,१८०.६५/km
भाषाः
 • अधिकृताः कन्नड
Time zone UTC+5:30 (IST)
पिन्
591 102
Telephone code 08288
Vehicle registration KA-24


कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बैलहोङ्गल्-उपमण्डलम् ।

भौगोलिकता[सम्पादयतु]

एतत् उपमण्डलं बेळगावीनगरस्य उत्तरभागे विराजते । मण्डलकेन्द्रात् बेळगावीनगरात् ४५कि.मी.यावत् दूरे अस्ति बैलहोङ्गल् । पूर्वम् एतत् उपमण्डलं सम्पगांवनाम्ना प्रसिद्धम् आसीत् । एतस्य उपमण्डलस्य चिस्तीर्णता ११२२.४०चतुरस्रकिलोमीटर्। अत्र १२६ ग्रामाः, १४ पञ्चायतकेन्द्राणि सन्ति । २००१तमवर्षस्य गणनानुसारम् अस्य उपमण्डलस्य जनसङ्ख्या ३५६,४०० ।

वैशिष्ट्यम्[सम्पादयतु]

  • अत्र त्रीणि प्रमुखाणि पवित्रक्षेत्राणि सन्ति । ते च-
  1. भारतीनन्दस्वामीमठम्, इञ्चल
  2. सोगलसोमेश्वरदेवस्थानम्
  3. हफीज् बारी दर्गाह् (जामी मस्जिद्)

खनिजसम्पत्[सम्पादयतु]

  • नुल्लाप्रदेशेषु अल्पप्रमाणेन स्वर्णं प्राप्यते ।
  • अस्य उपमण्डलस्य देशनूरु इत्यत्र युरेनियं निक्षेपाः प्राप्ताः सन्ति ।

इतरविवरणानि[सम्पादयतु]

२००१तमवर्षस्य जनगणनानुसारं बैलहोङ्गलनगरस्य जनसङ्ख्या ४३,२१५ आसीत् । २०११तमवर्षस्य गणनानुसारं ५८,१९६ । एतेषु पुरुषाः५१%, महिलाः ४९%। बैलहोङ्गलनगरे साक्षरताप्रमाणं ६८%( राष्ट्रियसाक्षरताप्रमाणस्य ५९.५% अपेक्षया अधिकम्) । एतेषु ७२% पुरुषाः, ६४%महिलाः च साक्षराः सन्ति । १३% साक्षराः ऊनषड्वर्षीयाः। कन्नडभाषा अधिकतया व्यवह्रीयमाणा भाषा । २०११तमवर्षस्य गणनानुसारं ७८% साक्षराः सन्ति ।एतेषु ८५% पुरुषाः, ७१%महिलाः च साक्षराः सन्ति ।

पौरशासनम्[सम्पादयतु]

नगरस्य शासनं बैलहोङ्गलपुरसभा(बैलहोङ्गलमुनसिपल् कौन्सिल्) करोति । अस्याः पुरसभायाः स्थापना १९१९तमे वर्षे अभवत् । ततःपूर्वं १९०५ तमवर्षस्य बाम्बे एक्ट् III अनुसारं शासनम् प्रचलति स्म। अद्यत्वे मुन्सिपल् कौन्सिल् नगरे निर्माणकार्य़ाणि, आरोग्यं, स्वच्छता, जलव्यवस्था, कार्यव्यवस्था, करसङ्ग्रहणम् इत्यादिविभागान् निर्वहति । नगराध्यक्षः प्रमुखहः भवति । अध्यक्षस्य साहाय्यार्थं साहाय्यकाधिकारी, इतरे नगरसभासदस्याः च भवन्ति । एतत् नगरं द्वात्रिंशद्धा विभक्तम् अस्ति । कौन्सिलर्स् (पुरसभासदस्याः) प्रतिपञ्चवर्षं बैलहोङ्गलनगरजनैः निर्वाचनद्वारा चीयन्ते ।एते सदस्याः एव नगराध्यक्षं चिन्वन्ति ।नगराभिवृद्धिं अभिवर्धनं च बैलहोङ्गलमुन्सिपल् कौन्सिल् निर्वहति । नूतनविस्तरणानि, मार्गनिर्माणं, नगरविस्तरणं, भूमेः स्वाधीनीकरणं च अत्र अन्तर्भवति । बैलहोङ्गल-उपमण्डलम् बैलहोङ्गलविधनसभाक्षेत्रम् अपि अस्ति । एतत् विधानसभाक्षेत्रं बेळगावीलोकसभाक्षेत्रे अन्तर्भवति ।

आर्थिकता[सम्पादयतु]

उत्तरकर्णाटके कार्पाससंस्करणस्य प्रमुखं केन्द्रम् अस्ति बैलहोङ्गलनगरम् । एतादृशं संस्करणघटकम् ऐदम्प्राथम्येन १९११तमे वर्षे अस्य नगरस्य उत्साहियुवकेन श्रीमता शङ्करकामतवर्येण स्थापितम् । एतत् सम्बद्धानि यन्त्रोपकरणानि तस्मिन् काले तेन इङ्ग्लेण्डदेशतः आनायिताः आसन् । नगरस्य अभिवृद्धये एतत् अपि कारणीभूतम् अभवत् ।अद्यत्वे बहूनि नूतनानि आधुनिकानि यन्त्राणि नगरे सन्ति । कृषिः जनानां प्रमुखः उद्योगः अस्ति । अस्मिन् मण्डले प्रमुखतया कार्पासः, कलायः, यावानलः, गोधूमः, जूर्णं, इक्षुदण्डः च वर्धन्ते । सर्वकारद्वार कृष्युत्पन्नविक्रयणसमित्याः विपणिः (Agricultural Produce Market Committee-APMC) अत्र १९३६तमे वर्षे स्थापिता अस्ति । अत्र कृषकाः स्वोत्पन्नानाम् विक्रयणेन योग्यं मूल्यं प्राप्तुं शक्नुवन्ति ।

प्रेक्षणीयानि स्थानानि[सम्पादयतु]

  • बैलहोङ्गलदुर्गम् - ब्रिटिषसर्वकारेन कित्तूरु चेन्नम्मा राज्ञी अस्य दुर्गस्य कारागृहे बन्धने स्थापिता आसीत् । १८२९ तमवर्षस्य फेब्रुवरीमासस्य २१तमे दिनाङ्के सा अत्र एव मृता अभवत् ।
  • चेन्नम्मायाः स्मारकम्- सकलगौरवैः राज्ञ्याः चेन्नम्मायाः अन्त्यसंस्कारः अत्र कृतः अस्ति । अद्यापि तस्याः स्मारकम् अत्र संरक्षितम् अस्ति ।
  • मड्डिभावी- अस्य नगरस्य प्रमुखः जलस्रोतः मलप्रभानदी । द्वितीयं स्रोतः मड्डिभावी।
  • रामलिङ्गमन्दिरम्- चलुक्यानांकालीनम् शिल्पकलापूर्णम् सुन्दरं मन्दिरम् एतत् ।

यातायातव्यवस्था[सम्पादयतु]

भूमार्गः[सम्पादयतु]

राज्यस्य सर्वेभ्यः भागेभ्यः , प्रमुखनगरेभ्यः यानव्यवस्था अस्ति ।

समीपवर्ति रेलस्थानकम्[सम्पादयतु]

बेळगावी, धारवाड

समीपवर्ति विमानस्थानकम्[सम्पादयतु]

बेळगावी साम्ब्राविमानस्थानकम्

समीपवर्तिमन्दिराणि[सम्पादयतु]

  1. सोगलसोमेश्वरमन्दिरम्
  2. मरडिबसवेश्वरमन्दिरम्
  3. करिमणिमल्लय्यमन्दिरम्
"https://sa.wikipedia.org/w/index.php?title=बैलहोङ्गल्&oldid=364562" इत्यस्माद् प्रतिप्राप्तम्