ब्राह्मणक्षत्रियविशां...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैः गुणैः ॥

अन्वयः[सम्पादयतु]

परन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च स्वभावप्रभवैः गुणैः कर्माणि प्रविभक्तानि ।

शब्दार्थः[सम्पादयतु]

परन्तप ! = शत्रुतापन !
ब्राह्मणक्षत्रियविशाम् = ब्राह्मणराजन्यवैश्यानाम्
स्वभावप्रभवैः =प्रकृत्या जातैः
गुणैः = सत्त्वरजस्तमोभिः
कर्माणि = शमादीनि कर्माणि
प्रविभक्तानि = विभक्तानि ।

अर्थः[सम्पादयतु]

अर्जुन ! ये ब्राह्मणाः क्षत्रियाः वैश्याः शूद्राश्च सन्ति तेषां तत्तद्गुणवशात् कर्माणि विभक्तानि सन्ति ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]