भगवदज्जुकीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
भगवदज्जुकीयम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः अज्ञातः
देशः भारतम्
भाषा संस्कृतम्

भगवदज्जुकीयं नाम इदं प्रहसनं कस्य कौशलमिति न सुनिश्चतमद्ययावत् ।[१] बोधायनो नामासावित्यपि न सन्देह सीमानमत्येति । आसीदसौ सांख्य-योगदर्शनयोः सुतरामधीतीति तत्कृतिरेव प्रमाणम् । महेन्द्रविक्रमवर्मणा मतविलासप्रहसनं सप्तम्यां शताब्द्यां विरचितम् । तदेव प्रथमं विदितं सम्मतञ्च प्रहसनमुपलब्धमद्य यावत् । अतः परमेव भगवदज्जुकीयं ग्रथितं भवेत् लटकमेलकं च द्वादश्यां शताब्द्द्यां प्रणीतमिति ततः पूर्वमेव शैलीदृष्ट्या भगवदज्जुकीयमायाति । एवञ्च एकादशी शताब्दी रचनाकालोऽस्य भवेत् इत्यनुमानम् ।

अस्य प्रस्तावनायां कतिपय व्यतिकरा वैशिष्ट्यमावहन्ति । यथासूत्रधारो विदूषकमाहवयति न नटीमिति । नाट्यरसेषु हास्यस्य प्राधान्यं निगदितमिति च। अस्यावतार-काले प्रहसनस्य हास्यं लोकप्रियतायाः परां कोटिमभजदिति प्रतीयते ।

कथावस्तु[सम्पादयतु]

कथानकमस्य द्विधा विभक्तमिव विभाव्यते। प्रथमे भागे आचार्यशिष्ययोः संवादा न तथा हासमुज्जृम्भयन्ति यथा द्वितीयभागे गणिकाप्रसङ्गे शिष्यवैद्यादीनां यत्र हास्यरस उच्चतमां काष्ठामाटीकते । गणिका, वसन्तसेना, नायकयोरुद्याने विहारः, कस्मैचित् कालाय नायिकामरणं परिव्राजकेन पुनरुज्जीवनम्, अन्ते च सुखदः संयोग इति तत्त्वानि मृच्छकटिकादेव गृहीतानि प्रतिभान्ति । अपि च मृच्छकटिके योजिताः प्रासङ्गिका एव हास्यावतारा अत्र प्राधान्यमाकलयन्ति । आचार्यशिष्यौ अत्रार्धविदूषकौ एव । अयं हि न जठरेण बुभुक्षापर इति, जात्या ब्राह्मण इत्येवापितु स्वभावेन रिरंसा-स्यूत-मानसोऽपि दृश्यते । चरकाणां सुश्रुतानां चात्र देशे भारते तथाभूतास्तृणवैद्या अपि भवेयुर्ये चिकित्सावृत्तिका अपि विचिकित्सालम्बनतामेव भजन्ति इत्येवमादि उपादायात्र प्रहसने हास्यं सृष्टं, यदुपजीव्य परवर्तीनि हास्यनाट्यानि रचितानि । यमदूतानां पात्रत्वं योगक्रियया परदेहप्रवेशश्च हासमुत्कर्षयतः । न केवलं संवादा एव गल्ल-फुल्लनादिभिः प्रयुक्ता अपि मंचव्यापारा अपि हास्यमनुरुध्य योजिता इति भगवदज्जुकीयं कामपि प्रत्यग्रतां परिदधाति । इदमुद्दिश्य विण्टरनिट्ज-महाभागेनापि सत्यमुक्तम् - न पात्राण्येवापितु सर्वोऽपि प्रयोगो हासोत्तेजक इति ।

भगवदज्जुकीयकथानुसारेण उदरंभरिः शाण्डिल्यो ब्राह्मणः उदर-पूरणाय बौद्धो भिक्षुः संवृत्तः । एकाहारा भिक्षव इति तस्य जठरानलो न शमितः । तद् बौद्धचर्यां परिहायासौ परिव्राजकाचार्यस्य शिष्यतामनुगृह्य तज्झोलिकावहन-कर्मण्यात्मानं नियोजयति स्म। अकारण-धृत-मत्सरोऽसौ गुरुं दुष्टाचार्य इति संज्ञाय चिन्तयति अयं दुष्टप्रव्रज्यापरः क्वचित् प्रातराश-भिक्षां हस्तायितुं गत इति।

एकदा शाण्डिल्यो गुरुं भिक्षाटन-विधिमपृच्छत्, गुरुश्च तं प्रत्यवोचत् -

अमानकामः सहितव्यधर्षणः कृशाज्जनाद् भैक्ष-कृतात्मधारणः।

चरामि दोषव्यसनोत्तरं जगद् ह्रदं बहुग्राहमिवाप्रमादवान्।।

भोजनमात्रप्रयोजनकोऽहं भवन्तं शरणं प्रतिपन्नो ने धर्मकर्माणि अनुष्ठातुमुत्सहे, इति भिक्षार्थमेव प्रेरितो गुरुरुवाचति - नैवं प्रभातायामेव रजन्यां भिक्षायै अटन्ति । अस्मिन्न शोकोद्याने विश्रम्य तावत् विलम्बनीयमिति ।

अथ तयोर्विवादोऽवर्धत - कः पूर्वमुद्यानं प्रविशेदिति । पत्रपल्लव-निगूढाद् व्याघ्राद् भयमाकलय्य शाण्डिल्यो नैव पूर्वं प्रवेष्टुमुदसहतेति गुरुरेवोद्यानं प्राक् प्राविशत् । अनुप्रविशन्नेव शिष्यो मयूर-धृतपादो व्याघ्रेण गृहीतोऽस्मीत्युच्चैः क्रन्दति स्म। रोदनाकृष्ट-दृष्टिराचार्यों व्याघ्रशंकां न्यवारयत् । अथोन्मीलितलोचनः शाण्डिल्य आत्मानं बहुमन्यमान इवावदत् - अरे मामुन्मीलितदृशं समीक्ष्य व्याघ्रो मयूरत्वं गत इति । योगेन विभूतीनामणिमादीनां सिद्धिर्भवतीति गुरुणा मुहुः प्रलोभितोऽपि स स्वोदरपूजासङ्कल्पात् न विचलितः । गुरो, भवानेव चित्तवृत्तिनिरोध-विकटं नाटकमिदं घटयतु। अहं तावद् भोजन-विहार-परमानन्दं प्रति यते इत्युवाच।

अत्रान्तरे वसन्तसेना नाम गणिका विटेन रंस्यमाना चेट्या सहोद्यानं प्रविवेश। पुष्पावचयं कुर्वन्तीं तां यमदूतः सर्परूपोऽदशत् । मृतां तां समालोक्य शिष्यस्तया सहरमणं कामयते स्म । बाधमानं गुरुमसौ सहस्रशोपभाष्य ‘अकरुणस्त्वं निःस्नेहः कर्कशहृदयो दुष्टबुद्धिर्मुधा मुण्डोऽसि, य एवं कदथंयसि वैराग्यपरायणामस्मादृशीमेव संन्यास-व्रतधारणीं निष्कामामिमां तपस्विनीमिति । वचनवज्रैः प्रताड्य च तं वेश्यातः दूरयति स्म। शिष्यश्चासौ प्रणयपथे तां जीवितामेव मत्वा स्पर्शानन्देनात्मानं कृतकृत्यं संभावयामास । चेटी च तमेव शवरक्षापरं निभाल्य वसन्तसेनायाः मातरमानेतुं गता। अथाचार्यः शिष्यं प्रति योगमहिमानं दर्शयितुकामो गणिकाशरीरे आत्मानं प्रवेश्य तस्यां प्राणान् सञ्चारयामासेति सा पुनर्जीविता वेश्या-व्यवहारं विहाय परिव्राजकवदाचरति स्म । प्रथमं तावदसौ शाण्डिल्यमेव स्वं स्पृशन्तं भर्त्सयामास - अप्रक्षालितपाणिपादस्त्वं मा मां स्पृशेति । आयाहि स्वाध्यायमाचरेति । तथा कृतादेशः शाण्डिल्यो विस्मयापन्नो गणिकासविधेऽपि पठनीयमेव चेद् वरं गच्छामि पुनराचार्यशरणमिति मनसि निधाय यावद् गतस्तावदाचार्यस्य मृतं शरीरमेव दृष्ट्वा, किमाचार्यसदृशा बहुज्ञा अपि मरणव्यसनपरा भवन्तीति विषीदति।

अथ वसन्तसेनाया माता चेटी च तत्रागत्य तां सुस्थां सजीवामपश्यताम् । गणिकया च वृषलवृद्धे ! मा मां स्पृश इत्युक्वा माता सर्प-विषकृतमुपद्रवमेव तत्र कारणं मत्वा वैद्यमानेतुं चेटीं प्रस्थापयामास । अत्रान्तरे वसन्तसेनाया विट आगत्य साश्चर्यमपश्यत् प्रणयिनीं वस्त्रमपि स्पर्ष्टुं स्वं निवारयन्तीम् । असौ च तां पिशाचगृहीताममन्यत । अथ चिकित्सकः सर्पविषनिरसनाय शिरावेधं कतुमुद्यत-कुठारोऽभवत् । तदा वसन्तसेनाक्रोशत् - वैद्यापसद, अलं परिश्रमेणेति साक्षेपं वारितः । त्रिदोषौषध-वटिका-समाहरणव्याजेनापसृतो वैद्यः।

अथ समाप्तायुषोऽन्याया वसन्तसेनायाः स्थाने शेषायुषोऽस्या गणिकाया नाम व्यामोहेन हरणं कृतवान् यमदूतो यमलोके प्राप्तभर्सनः परावृत्य दाहात् पूर्वमेव तां जीवयितुं धृतकल्पो यावदिह तां जीवितामेव पश्यति तावदवधानेन आचार्य-कृत-प्राण-सञ्चारव्यतिकरं ज्ञात्वाचार्यशरीर एव वसन्तसेनायाः प्राणान् प्रवेश्य पलायांचक्रे । तत आचार्योऽपि पुनर्जीवितो गणिकाभावं गतो विटमाहूय शृङ्गारं नाटयन् मद्यमानेतुं तं समादिदेश । पुनरागतं वैद्यमाचार्यः केन सर्पेण दष्टास्मीति पृष्टवान् । व्याकरणसर्पेणेति वैद्य उवाच । आचार्येण विडम्बितो वैद्यः पलायितः ।

अन्ततो यमदूत एव तां दुःस्थितिं समाधात् । असौ आचार्यमुवाचकिमिह भवान् वेदवेदाङ्गविद् वृषल्या अस्याः शरीरे पतितः । इदं विहाय स्वशरीरमेव सनाथं करोतु इति । एवं पुनः प्राणविनिमयेनोभौ यथावस्थौ संजातौ।

भगवदज्जुकीयस्य न कथानकमेवापि तु क्वचित् संवादा अपि भूयो हासमवतारयन्ति । यमदूतोऽप्यत्र गणिकारसिको वदति -

श्यामां प्रसन्नवदनां मधुरप्रलापां, मत्तां विलासजघनां वरचन्दनार्द्राम्।

रक्तोत्पलाभनयनां नयनाभिरामां, क्षिप्रं नयामि यमसदनमेव बालाम्॥

लघुन्यपि कथायोजने उपमालङ्कारः क्वचिदर्थसोष्ठवं तनोत्येव -

यदा तु सङ्कल्पितमिष्टमिष्टतः करोति कर्मावहितेन्द्रियः पुमान्।

तदास्य तत् कर्मफलं सदा सुरैः सुरक्षितो न्यास इवानुपाल्यते॥

सरलसरलमनुप्राससामञ्जस्यमञ्जसा व्यञ्जयति नैपुणम् -

सुखेषु दुःखेषु च नित्यतुल्यता भयेषु हर्षेषु च नीतिरिक्तताम्।

सुहृत्स्वमित्रेषु च भावतुल्यतां वदन्ति तां तत्त्वविदो ह्यसङ्गताम्।।

इत्यादौ सुकुमारा पदयोजना प्रसादयति सहृदयान् । सर्वथा संस्कृतनाट्येषु प्रहसन-मुकुटमिव राजते भगवदज्जुकीयम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. अयमेव महेन्द्रवर्मणः प्रहसनस्यापि लेखक इति राघवन् रंग २ पृष्ठे ९४, ८७ निर्दिशति ।
"https://sa.wikipedia.org/w/index.php?title=भगवदज्जुकीयम्&oldid=436860" इत्यस्माद् पुनः प्राप्तिः