भद्रगिरि अच्युतदास

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
भद्रगिरि अच्युतदासः

भद्रगिरि अच्युतदासः (Bhadragiri Achyut dasa) सुप्रसिद्धः हरिकथाकारः आसीत् । हरिकथा नाम देवानां लीलादिकथाश्रावणम् । भद्रगिरिग्रामस्य अधिदेवः श्री वीरविठलः अस्य गुरुः । अस्य देवस्य सन्निधौ एव गीत्वा नृत्यं कुर्वन् सर्वदा आनन्दम् अनुभवति स्म । ग्रामस्य जनसमूहस्य पुरतः भजनादिकरणपूर्वकं कीर्तनकलायाः प्रचारं कृतवान् । एषः स्वाध्यायी आसीत् । काशीमठस्य ’श्री श्री सुधीन्द्रतीर्थः’ अस्याः कलायाः कृते प्रोत्साहं दत्त्वा दासदीक्षाञ्च दत्तवान् । १९५३ तमे वर्षे अयं दीक्षां प्राप्तवान् । एषः आध्यात्मसाधकः आसीत् । बहु वारं हिमालये पर्यटनम् अकरोत् । अच्युतदासः कन्नड-मराठि-तुळु-कोंकणि-हिन्द्यादिभिः भाषाभिः कीर्तनकरणे समर्थः आसीत् ।

जननं बाल्यञ्च[सम्पादयतु]

अच्युतदासः उडुपीजनपदस्य भद्रगिरिनामके ग्रामे १९३२ तमे संवत्सरे अजायत । अस्य पूर्वजाः यक्षगानकलायां हरिकथायां च परिणताः आसन् । अस्य पितुः नाम ’वेङ्कटरमण पै’, माता रुक्मिणियम्मा च । अस्य कनिष्ठः सहोदरः स्वर्गस्थः भद्रगिरि केशवदासः अपि विश्वविख्यातः हरिकथाकारः आसीत् । आविश्वे अस्य शिष्याः आसन् । एषः अस्याः भारतीयकलायाः प्रचारम् आविश्वे कृतवान् । १९५१ तमे वर्षे महाशिवरात्रौ कस्यचित् हरिकथाकारस्य कीर्तनकार्यक्रमः आयोजितः आसीत् । सः कारणान्तरेण तद्दिने अनुपस्थितः जातः । तस्मिन् सन्दर्भे १९वर्षीयः आसीत् अच्युतदासः । प्रप्रथमतया पूर्वसिद्धतां विना सधैर्यं मञ्चारूढः अच्युतदासः सुश्राव्यां हरिकथां श्रावितवान् । तत्र उपस्थिताः पण्डिताः तं प्रशस्तवन्तः । सः सर्वेषां प्रीतिपात्रश्च अभवत् ।

कार्यम्[सम्पादयतु]

काश्मीरदारभ्य कन्याकुमारीपर्यन्तं यात्रां कृत्वा हरिकथाकीर्तनम् अकरोत् अच्युतदासः । ’सुधीन्द्रतीर्थेण’ तप्तमुद्रां सम्प्राप्य ’मूलनारायणः’ इति अङ्कितेन सहस्राधिकानि कीर्तनानि रचितानि अच्युतदासेन । हरिकथापूर्वरङ्गः, गीतार्थचिन्तनम्, गुरुचरित्रम् (दत्तमहिमा), श्रीनिवासकल्याणादयः २५ ग्रन्थाः तेन रचिताः सन्ति । “हरिकथामृतसिन्धु”नामकः ग्रन्थः षट्सु सम्पुटेषु विद्यते । एषः बृहद्ग्रन्थः रमणीयश्च वर्तते । अयं ग्रन्थः कीर्तनाभ्यासं ये कुर्वन्ति तेषां कृते विश्वकोशसदृशः अस्ति । आकाशवाण्यां दूरदर्शने च दासस्य कार्यक्रमाः बहुवारं प्रसारिताः । अच्युतदासः बेङ्गळूरनगरे विद्यमानस्य नेलमङ्गलप्रदेशस्य विजयविठलदेवालयस्य, दासाश्रम अन्ताराष्ट्रीयकेन्द्रस्य कीर्तनमहाविद्यालयस्य, अखिलकर्णाटकस्य कीर्तनपरिषदः च गौरवाध्यक्षः आसीत् । एतासां संस्थानां स्थापनाय सहाय्यं कृतवान् । ’भारतज्योतिप्रकाशनम्’ नामिकायाः संस्थायाः संस्थापकः आसीत् । अनया संस्थया नैकान् ग्रन्थान् प्रकाशितवान् । ’दासवाणी’ पत्रिकायाः प्रधानसम्पादकः आसीत् । कर्णाटकसङ्गीत-नृत्याकाडम्याः सदस्यः आसीत् । अस्य हरिकथायाः नैकाः सान्द्रमुद्रिकाः प्रकटिताः प्रसिद्धाः च सन्ति ।

गौरवम्, पुरस्काराश्च[सम्पादयतु]

भद्रगिरि अच्युतदासः नैकान् श्रेष्ठान् पुरस्कारान् प्राप्तवान् आसीत् ।

  • कीर्तनाचार्यः
  • कीर्तनाग्रेसरः
  • कीर्तनकेसरि
  • अखिलकर्णाटकस्य द्वितीय कीर्तनकारसम्मेलनस्य अध्यक्षः आसीत् ।
  • कर्णाटकस्य ’राज्योत्सव’पुरस्कारभाजः आसीत् ।
  • कनक-पुरन्दरगौरवपुरस्कारं प्राप्तवान् आसीत् ।
  • कर्णाटकसङ्गीत-आकाडम्याः १९८९-९० तमस्य वर्षस्य ’कर्णाटककला तिलक’ पुरस्कारं प्राप्तवान् आसीत् ।
  • ’नाडोज’ पुरस्कारं प्राप्तवान् आसीत् ।

मरणम्[सम्पादयतु]

अच्युतदासः २०१३ तमस्य वर्षस्य अक्टोबर्मासस्य २३ तमे दिनाङ्के बेङ्गळूरुनगरे मृतवान् । अनारोग्येण पीडितः आसीत् ।

वीथिका[सम्पादयतु]

हरिकथायां निरतः अच्युतदासः

बाह्यसम्पर्कतन्तवः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भद्रगिरि_अच्युतदास&oldid=371806" इत्यस्माद् पुनः प्राप्तिः