भागवततात्पर्यनिर्णयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
bhagavatha

भागवतपुराणं पुराणेषु प्रसिद्धं भवति। अस्य पुराणस्य तात्पर्यं मध्वाचार्यः लिखितवान् अस्ति। श्रीमद्भागवततात्पर्यनिर्णयः प्रतिश्लोकस्य व्याख्यानभूतः ग्रन्थः न। किन्तु सहस्रतात्विकेभ्यः चर्चनीयश्लोकेभ्यः व्याख्यानं कृतवान् अस्ति। एकादशस्कन्दस्य व्याख्यानं स्पष्टं विशालञ्च वर्तते। शृतिगीतायाः कपिलगीतायाश्च व्याख्यानं विस्तृततया विद्यते। व्याख्यानेन सह प्राचीनग्रन्थाणाम् उल्लेखाः नियमेन लभ्यन्ते।

वैशिष्ट्यम्[सम्पादयतु]

“जन्माद्यस्य यतः” इत्यस्य श्लोकस्य सरलतया व्याख्यानं कृतवान् अस्ति। महाभारतादिषु विद्यमानानां प्रसङ्गाणां विरोधाणां निरूपणं सरलतया एवं समस्याणां निवारणञ्च कृतवान् अस्ति। एवं कठिणपदानां विवरणञ्च कृतवान् अस्ति। उदाहरणार्थम्, “कौशिक्यप उपस्पृश्य” इत्यत्र कौशिकी पदस्य कौशिकी नदी इति केचन्, अन्ये कौशिकगोत्रस्य इति निरूपितवन्तः आसन्। तस्मिन् प्रसङ्गे कौशिकी नदी नास्त्येव, एवं शृङ्गिमुनेः अङ्गिरसगोत्रः भवति, नतु कौशिकः। अतः उभयमपि असाधुरेव। कौशिकी पदस्य अर्थं मध्वाचार्यः "कुशपाणिः" इति अर्थवर्णनं कृतवान् अस्ति। एवमेव पुराणादिषु विद्यमानविरोधान् अपि सङ्गृह्य समस्याणां परिहारं कृतवान् अस्ति। देवतानां दैत्यानाञ्च अंशावतारविषये स्पष्टं विवरणं दत्तवान् अस्ति। पुराणप्रपञ्चस्य अर्थनिर्णयार्थम् उपकृतः ग्रन्थः भवति भागवततात्पर्यनिर्णयः।