भामिनीविलासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



जगन्नाथेन भामिनीविलासः(Bhaminivilasa) इति ग्रन्थः लिखितः । तस्य पत्न्याः विषये लिखितः ग्रन्थः एषः । सरसकवितानिर्माण्यशस्वी जगन्नाथः स्वीयानि पद्यरत्नानि भामिनीविलासनाम्ना संगृहीतवान्, तदुक्तं तेन-

दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया ।
मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥

अत्र संगृहीताः श्लोका ग्रन्थान्तरेऽप्युदाहरणतया तेनोद्घृताः । वस्तुतो रसपेशलकविताधारायाः पण्डितराज एव समाप्तिर्जाता इति यद्युच्यते तदा सत्यं नोपलभ्यते । स्वयं दक्ष आलोचकः प्रकाण्डपण्डितो दार्शनिकचूडामणिश्चायं स्वं काव्यं तथा परिमार्जितं निर्मितवान् यथा तत्र रेखापि त्रुटेर्नान्विष्यापि द्रष्टुं शक्यते । स्वयं प्रशंसिताऽपि तेन स्वकविता-

मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा
कदाचित् केषाञ्चिन् न खलु विदधीरन्नपि मुदम् ।
ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो
न येषामानन्दं जनयति जगन्नाथभणितिः ॥

भामिनीविलासे चत्वारः खण्डाः, १. प्रस्तावनाविलासः, २. शृङ्गारविलासः, ३. करुणाविलासः, ४. शान्तविलासश्च । प्रस्तावनाविलासेऽन्योक्तयः प्रधानतयोक्ताः, शृङ्गारविलासे शृङ्गाररसकविताः, करुणविलासे पत्नीवियोगव्यथितस्य मर्मस्पृशः उक्तयः शान्तविलासे भक्तिप्रधानाः कविताः सन्ति । क्रमश एकैकमुदाहरणं प्रदर्श्यते-

                      आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ते ।
                                  सङ्कोचमञ्चति सरस्वति दीनदीने मीनो न हन्त कतमां गतिमभ्युपैतु ॥
                      तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् ।
                                   आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला ॥
                      धृत्वा पदस्खलनभीतिवशात्करं मे यारुढवत्यसि शिलाशकलं विवाहे ।
                                    सा मां विहाय कथमद्य विलासिनि द्यामारोहसीति हृदयं शतधा प्रयाति ॥

पण्डितराजस्य कविताया अद्भुतं चमत्कारित्व्ं विद्यते यदन्वयः सातिशयः स्फुटो भवति, कुत्रापि अन्वयस्यावश्यकता न भवति, रसपरिपाकश्च स्फुटो भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भामिनीविलासः&oldid=419301" इत्यस्माद् पुनः प्राप्तिः