सामग्री पर जाएँ

भूषण्डेश्वरमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 

भूषण्डेश्वरमन्दिरं ओडिशाराज्यस्य बालेश्वरमण्डलस्य चन्दनेश्वरे स्थितम् अस्ति । एशियामहाद्वीपे अयं बृहत्तमः शिवलिंगः (१३*१४ पादः) अस्ति । []

बालेश्वरनगरात् प्रायः १०० कि.मी दूरे, चन्दनेश्वरतः २० कि.मी दूरे च अस्ति । समीपस्थं रेलस्थानकं जलेश्वर: (४० कि.मी.), विमानस्थानकं भुवनेश्वर (३०० कि.मी.) च अस्ति

उत्कलमन्दिरशैल्या निर्मितम् अस्ति । भूषण्डेश्वरमहादेवः भूमौ आभ्यन्तरे १२ पादपरिधिः १७ पादः च अस्ति । लिंगस्य ऊर्ध्वभागस्य परिधिः १२ पाद १७ इञ्च् भवति । अधः वेदीयाः परिधिः २९ पादः अस्ति । अयं लिङ्गः कृष्णमुगुनीशिला - निर्मितः अस्ति । अस्य कुलभारः १६८० क्विन्टलः अस्ति । एतत् एशियादेशस्य बृहत्तमं शिवलिंगम् इति मन्यते ।

कृष्णमुगुनीशिलानिर्मितं बाबा भूषण्डेश्वरस्य लिङ्गं चिरकालात् अत्र पूज्यते । प्रायः ३.८ मी. उन्नतं तथा ३.५ मी. व्यासः इति । आख्यायिकानुसारं शिवः रावणाय वरदानं दत्त्वा तत् वहन् न स्थापयतु इति आज्ञापितवान्। लङ्कागमनमार्गे रावणः तृष्णां अनुभवन् एकं गोपालं तत् शिवलिङ्गम् वोढुं पृष्टवान् ।। भारं सोढुंअसमर्थः सः तत् अधः स्थापयति स्म । रावणः जलं पिबन् प्रत्यागत्य पुनः उत्थापयितुं न शक्तवान् । ततः प्रभृति अयं लिङ्गः भूषण्डेश्वर: इति नाम्ना अत्र पूज्यते । अत्रत्याः शिवलिंगं पुरा नौकाद्वारा सुवर्णरेखा स्थितम् अस्मिन् मन्दिरे आनितवन्तः इति विश्वासः अस्ति ।

  1. "Orissa's wonder Balasore". Archived from the original on 2011-07-21. आह्रियत 2011-05-07.
"https://sa.wikipedia.org/w/index.php?title=भूषण्डेश्वरमन्दिरम्&oldid=497357" इत्यस्माद् प्रतिप्राप्तम्