भेदपराण्येव खलु ब्रह्मसूत्राणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

भेदपराण्येव खलु ब्रह्मसूत्राणि इति ग्रन्थे अद्वैतभाष्यतट्टिप्पण्यनुरोधेनैव अद्वैतमतस्य असामञ्जस्यं श्रीमच्चरणैः सम्यगुपपादितम् । अत्र निदर्शनतया शास्त्रदृष्ट्या तूपदशा वामदेववत् इत्यत्र श्रीमच्चरणैः विमृष्टः विषयः यथामति उत्तरत्र निरुप्यते । अद्वैतसिध्दान्तव्याख्यातृणामेव सूत्रेषु क्वापि अभेदो नोक्त इति कथमभेदप्रतिपादनं कार्यमिति चिन्ता समुज्जृम्भिता आसीत् इति, तत्र तत्र अनुक्तोऽप्यभेदः यथाकथञ्चन आग्रहमात्रेण समर्थनीय इति च मनीषा अविद्यतेति अद्वैतटिप्पण्यध्ययनेन निर्णयः शक्यते कर्तुम् । तथा हि तद्वाक्यानि –

  • ‘जीवब्रह्मणोरैक्यं न क्वापि सूत्रकारो मुखतो वदति । किन्तु सर्वत्र भेदमेवातो नैक्यमिष्टं तत्राह-प्रतिपाद्यन्त्विति’ ‘सूत्रेषु अभेदो नोक्त इति भ्रान्तिं वारयति –प्रतिपाद्यन्त्विति ।
  • आदिपदम् 'आत्मे तु तूपगच्छन्ति ग्राहयन्ति च’ (४.१.३) ‘अविभागेन दृष्टत्वात्’ (४.४.४) इति सूत्रसङ्ग्रहार्थम् ।

अत्र शाङ्करभाष्यम्-‘प्रतिपाद्यन्तु शास्त्रार्थं आत्मैकत्वमेव दर्शयति शास्त्रदृष्ट्या त्वित्यादिना” इति अत्र कण्ठरवेण वामदेवदर्शनानुसारेण् अद्वैत इह प्रतिपादित इति अद्वैतसाधने इदं सूत्रं निर्वकाशप्रमाणमिति शङ्कराचार्याणां प्रतिपादनं विद्यते । तथा हि तद्वाक्यानि –
‘इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म- ‘मामेव विजानीहि’ इति । यथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति’ तद्वत् । तद्यो यो देवानां प्रत्य्बुध्यत स एव तदभवत्’ (बृ .१.४.१०) इति श्रुतेः । यत्पुनरुक्तं ‘मामेव विजानीहि’ इत्युक्त्वा विग्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम्’ इति ।
अस्मिन्नधिकरणे अभेदो नोक्त इति वामदेवदर्शनञ्च न जीवब्रह्मैक्यदर्शनमिति प्रतिपादयितुं द्वैताद्वैतभाष्यानुगुण्येन अधिकरणसार इह सङ्क्षेपेण निरुप्यते ।येन सूत्राणि द्वैतविषयकाण्येवेति स्फुटं प्रतीयात् । तत्र शाङ्करभाष्यरीत्या प्राणाधिकरणसूत्रार्थः –

प्राणस्तथानुगमात् (१.१.२८.)[सम्पादयतु]

कौषीतकिब्राह्मणे प्रतर्दनेन्द्रसंवादे श्रूयते- ‘प्राणोऽस्मि प्रज्ञाता’ इत्यादि । अत्र वाय्विन्द्रजीवब्रह्मप्रापकलिङ्गसभ्दावात् संशयः । निरवकाशनिर्णायकप्रमाणाभावात् पूर्वपक्षस्त्वनिर्णय एव । सिध्दान्तस्तु –‘प्राणोऽस्मि प्रज्ञाता’ ‘आनन्दोऽजरोऽमृतः’ इत्याद्युपक्रमोपसंहारवचनैः प्राणशब्दवाच्यस्य विष्णोरेव च प्रज्ञात्मत्वमानन्दरुपत्वं सम्भवति, तथैव श्रुतावभिहितं चेति नात्र प्राणो देवता जीवो वा इति निरुपितः ।
माध्वभाष्यरीत्या सूत्रार्थः
‘ता वा एता शीर्षन् श्रियः श्रिता चक्षुः श्रोत्रं मनो वाक् प्राण’ इत्यत्र प्राणस्येन्द्रियगणे गणितत्वात् नायं विष्णुरिति प्राप्ते सिध्दान्तितं – प्राणस्तथेति । स एषोऽसुः स एष प्राणः तं देवा भूतिरित्युपासांचक्रिरे’ ‘ता वा एताः सर्वा ऋचः सर्वे वेदाः---------- प्राण ऋच इत्येव विद्यात्’ इत्यादौ सर्वदेवोपास्यत्व- सर्ववेदप्रतिपाद्यत्वाद्युक्तेः नायं वाय्वादिः किन्तु विष्णुरेव इति ।

न वक्तुरात्मोपदेशात् (१.१.२९)[सम्पादयतु]

शाङ्करभाष्यरीत्या अर्थः
‘प्राणोऽस्मि प्रज्ञाता’ इति इन्द्रेण आत्मनः प्राणत्वेनोपदेशात् ब्रह्मण्यसम्भाव्यमानत्वाष्ट्रवधा दिधर्माणामुक्तेः इन्द्र एव प्राणशब्दवाच्यः न प्राण इति पूर्वपक्षिते, ‘यावध्दयस्मिन् शरीरे प्राणो वसति तावदायुः -------------- स एष प्राण एव प्रज्ञानन्दोऽजरोऽमृतः’ इति अध्यात्म (परमात्म) सम्बन्धबाहुल्यस्यैतदध्याये दृश्यमानत्वेन ब्रह्मोपदेश एवायं न इन्द्रोपदेश इति सिध्दान्तितम् ।
माध्वभाष्यरीत्या अर्थः
‘तमिन्द्र उवाच –प्रियं मे धामोपगा वरं ते ददामि’ । स होवाच –त्वामेव जानीयामिति । तमिन्द्रं उवाच –‘प्राणो वा अहमस्मि ऋषे’ इति बृहतीसहस्रवक्तुरिन्द्रस्य प्राणतया आत्मोपदेशात् इन्द्र एवायं प्राणः न विष्णुरिति प्राप्ते सिध्दान्तितम् – न वक्तुरिति ।
नात्र इन्द्रेण आत्मनः प्राणतया व्यपदेशः कृतः । किन्तु इन्द्रगततेजोविशेषं दृष्ट्वा अत्र प्राणाविष्टो हरिरेव विशेषतः सन्निहित इति शङ्कितुर्विश्वामित्रस्य ‘त्वामेव विजानीयाम्’ इति स्वरुपविषयक आद्यः प्रश्नः । यद्यत्र विष्णुरेव विद्यते तदा तत्त्वस्वरुपविशेषविजिज्ञासया द्वितीयः प्रश्नः । ततश्चेन्द्रेण मयि विद्यमानः अहंशब्दवाच्यः मदन्तर्यामी नित्यास्मितामानादस्मिशब्दवाच्यश्च प्राणो विष्णुरेव । ‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’ इति स एव सर्वगत इत्युच्यते । न चैतदन्यस्य इन्द्रस्य सम्भवति । अन्यथा त्वामेव जानीयाम् इति ज्ञातपूर्वेन्द्रस्य मुनेः प्रश्नस्यैवासम्भवः ।

शास्त्रदृष्ट्या तूपदेशो वामदेववत् (१.१.३०)[सम्पादयतु]

शाङ्करभाष्यरीत्या सूत्रार्थः
कथं तर्हि वक्तुरात्मोपदेशः ? इन्द्रो नाम देवतात्मानं परमात्मत्वेन ‘अहमेव परं ब्रह्म’ इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म – ‘मामेव विजानीहि’ इति । यथा तध्दैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति तद्वत् ।
माध्वभाष्यरीत्या सूत्रार्थः
यद्येवं प्राणशब्दो विष्णुवाची स एव सर्वगतत्वेनात्र उच्यते तर्हि मयि प्राण इति प्रयोगः स्यान्न तु ‘प्राणोहम्’ इति तत्रोक्तं –‘शास्त्रदृष्ट्या त्विति’ । शास्त्रमन्तर्यामी । ‘संवित् शास्त्रं परं पदम्’ इति भागवतोक्तेः । ततश्च अन्तर्यामिविवक्षयैव श्रौतवचनानि नेयानि । न तु बाधिता भेदपरतया ।

जीवमुख्यप्राणलिङ्गान्नेति चेन्न ----------तद्योगात् (१.१.३१)[सम्पादयतु]

शाङ्कररीत्या सूत्रार्थः
जीवमुख्यप्राणलिङ्गानामुपदेशात् जीवमिख्यप्राणावेवात्र प्रतीयेयातां न ब्रह्मेति प्राप्ते सिध्दान्तितम् जीवेति । एवं सति जीवोपासना-मुख्योपासना –ब्रह्मोपासनेति त्रैविध्यप्राप्तेः उपक्रमाद्यनानुगुण्यात् ब्रह्मपरलिङ्गानां निरवकाशत्वाच्च प्राणो विष्णुरेव ।
माध्वभाष्यरीत्या अर्थः
‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रम्य ‘शतं वर्षाण्यभ्यार्चत् तस्मात् शतं वर्षाणि पुरुषायुषो भवन्ति’ इति शतयुष्ट्वादिजीवलिङ्गश्रवणात्, प्राणस्येन्द्रियैः कलहश्रवण-प्राणसंवादादिलिङ्गैश्चात्रोक्तौ जीवप्राणावेव न विष्णुरिति प्राप्ते, नायं प्राणो जीवादिः किन्तु विष्णुरेव । लिङ्गानां तदन्तर्यामिभगवद्विषयात्वोपपत्तेः इति सिध्दान्तः कृतः ।

अद्वैतभाष्ये अनुपपत्तयः[सम्पादयतु]

(१) यद्यप्यत्राधिकरणे ‘शास्त्रदृष्ट्या त्विति’ सूत्रस्यैवाद्वैतपरत्वं शाङ्करे उपवर्णित्म् । पूर्वोत्तरसूत्रयोर्भेदपरत्वेनैव तैरपि व्याख्यानात् एकस्य सूत्रस्याभ्दपरतया व्याख्याने पूर्वोत्तरविरोधः स्फुटः ।
(२) सर्वश्रुतिस्मृत्यादीनां भेदावेदकत्वेन सूत्रस्यास्याभेदपरतया व्याख्याने सर्वप्रमाणविरोधः ।
(३) ‘गर्भे नु सन् अन्वेषामवेदमहं देवानां जनिमानि विश्वा (ॠ .४.३.६.) इत्यादिमन्त्रपर्यालोचने गर्भ एव भगवत्प्रसादेन इन्द्रादिदेवताविषयकजन्मादि नारायणाद् भवतीति ज्ञानं वामदेवस्यासीदिति विज्ञायते । एवं गर्भस्थस्यापि मम विष्णुप्रसादेन न विशेषतः दुःखमभूत् इत्याद्युक्त्या तस्य देवताजन्मकारणीभूते हरौ भक्तिः देवतादिषु तन्नियम्यत्वादिज्ञानं स्वस्य तयोर्भेदज्ञानमासीदिति ज्ञायते । एवमेव विद्यारण्यभाष्येऽपि व्याख्यानात् । ततश्च वामदेवस्याभेददृष्ट्यभावात् वामदेववत् इन्द्रोप्यभेदृष्ट्योपदिदेश इति कथनं हास्यास्पदमेव ।
(४) अहं मनुरभवं सूर्यश्चेत्यादौ विशिष्टैर्मन्वादिभिरैक्यासम्भवेन तादृशज्ञानोदये तस्य भ्रमत्वापत्त्या वामदेवस्याज्ञानित्वप्राप्तेः । न हि ज्ञानिनां भ्रमो दृष्टः । अहं मन्वादिपदानां चिन्मात्रे लक्षणामङ्गीकृत्य चित् चिदभवम् इति वा अखण्डबोधो भवतित्यपि वक्तुं न शक्यते । लक्षणाश्रयणे अनवस्थादिदोषाणामपरिहार्यत्वात् ।
(५) किञ्च चित् चिदभवम् इति लाक्षणिकार्यस्य तत्त्वमस्यादिस्थल इव चिद्भेदाप्रसक्त्या तदभेदबोधनस्य प्रकृतानुपयुक्तत्वादसङ्गतत्वमेव ।
(६) किञ्चाद्वैतिमते सर्वस्य ब्रह्माऽज्ञानकल्पितत्वेन वामदेवस्य ब्रह्मैक्यज्ञाने जाते सर्वस्य मिथ्यात्वावगमेन ‘अहं भूमिमददामार्याय अहं वृष्टिं दाशुषे’ इत्याद्युक्तदिशा आर्याय मनवे भूमिदानं यज्ञकर्त्रे यजमानाय वृष्टिदानम् उदकानां सर्वदेशप्रापणं शम्बरपुरनाशनञ्च सर्वमनुपपन्नं स्यात् । ब्रह्मज्ञानित्वे चास्य तदैव ब्रह्मभावादुपदेशानुप्पत्तिश्च ।

शास्त्रदृष्टिर्नाम अन्तर्यामिदृष्टिः[सम्पादयतु]

तथा च यथा वामदेवः ब्रह्माभेददृष्ट्या ‘अहं मनुरभवम्’ इत्याद्युक्तवान् इत्यर्थकथनस्यानुपपन्नत्वात् शास्त्रदृष्टिर्नामान्तर्यामिदृष्टिरेवेति वक्तव्यम् । एवं च यथा वामदेवः अन्तर्यामिपरमात्मनः दृष्ट्या अहं मनुरभवं सूर्यश्चेत्युक्तवान् तथैवेन्द्रः मां मदन्तर्यामिणम् आत्मानं जानीहीत्यभिप्रायेण मामेव विजानीहि इत्यर्थस्यैव प्रमितत्वं भवति ।
‘अहं ब्रह्मास्मि’ इति ब्रह्मणैवानुसन्धानात् नाभेदकथा किञ्च बृहदारण्योकपनिषदि ‘अहं ब्रह्मास्मि’ इति वाक्यानुगुण्येन यस्मात् ब्रह्मैव स्वात्मानं ब्रह्मशब्दवाच्यम् अहं पदवाच्यं च व्यजानदिति वाक्यार्थः स्वरसत एव प्रतीयते । अतोऽत्र अहं शब्दः जीवान्तर्यामिणि ब्रह्मण्येव मुख्यः । स्म्रुतिश्च अत्र प्रमाणम्-

सर्वान्तर्यामिको विष्णुः सर्वानाम्नाऽभिधीयते ।
एषोऽहं त्वमसौ चेति न तु सर्वत्र रुपतः ॥इति।

अपि च अहं मनुरभवं सूर्यश्च इत्यत्रापि विशिष्टैक्यं नोच्यत इति प्रागेव प्रतिपादितम् । अहं मन्वादिपदैश्च चिन्मात्रलक्षणायां उत्तमपुरुषपदप्रयोगानुपपत्तिः भूमिदानाद्यनुपपत्तिश्च अपरिहार्या । अतः ‘अहंनामा हरिर्नित्यम् अहेयत्वात् प्रकीर्तितः’ इति पुराणवाचनानुगुण्येन केनापि हातुमश्क्यत्वरुपप्रवृत्तिनिमित्तमवलम्ब्य विष्णुरेव अहंशब्देनाभिधीयत इति द्र्ष्टव्यम् ।
एवमस्मिन् ग्रन्थे अद्वैतपरतया प्रतीयमानानां सूत्राणां द्वैत एव तात्पर्यमुपपाद्य शाङ्करभाष्यरीत्यैव समेषां सूत्राणां द्वैतपरत्वं सुष्ठूपपादितम् ।

सन्दर्भाः[सम्पादयतु]

पृष्ठ १

१. ब्र.सू.शां.भा.न्या. नि.P.358

पृष्ठम् २

१. ब्र्.सू.शां.भा.र.प्र.P.358
२. ब्र.सू.शां.भा. 1.3.19, P.115
३. ब्र.सू.शां.भा.P.76